63011: मध्याद्गुरौ

Padacheda: मध्यात् | S | 5 | 1 |

गुरौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

The Locative -7th case-affix is not elided after मध्य when गुरु follows.

Vasu English Translation

The Locative -7th case-affix is not elided after मध्य when गुरु follows. As, मध्येगुरुः ॥

Vart:- So also after अन्त; as अन्तेगुरुः ॥

Bhashya

मध्याद्गुरौ (2870) (6406 उपसंख्यानवार्तिकम् ॥ 1 ॥) गुरावन्ताच्चेति वक्तव्यम् । अन्तेगुरुः ॥

Kashika

मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदेऽलुग् भवति। मध्येगुरुः॥ अन्ताच्चेति वक्त व्यम्॥ अन्तेगुरुः। सप्तमीति योगविभागात् समासः॥

Siddhanta Kaumudi

मध्येगुरुः ।<!अन्ताच्च !> (वार्तिकम्) ॥ अन्तेगुरुः ॥

Balamanorama

मध्याद्गुरौ - मध्याद्गुरौ । गुरुशब्दे परे मध्यशब्दात्सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक्स्याद्गुरौ परे इत्यर्थः ।

Nyaas

अन्ताच्चेति वक्तव्यम् इति। अन्तशब्दाच्चोत्तरस्याः सप्तम्या अलुग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वयोगाच्चकारोऽनुवर्तते, स चानुक्तसमुच्चार्थः। तेनान्तशब्दादप्युत्तरस्याः सप्तम्या अलुग्भवतीति॥

Prakriyasarvasvam

सप्तम्या गुरावलुक् स्यात् । मध्येगुरुः । अन्ताच्च वाच्यम् । अन्तेगुरुः ॥

Vartika

अन्ताच्च ।

Sutra Prayogas

  • बाहू (भट्टिकाव्यम्): ठूलोपे पूर्वस्य दीर्घो ऽणः इति प्राकृते तु पुंलिङ्गे उकारस्य दीर्घत्वम्।