63006: आत्मनश्च पूरणे¶
Padacheda: आत्मनः | S | 5 | 1 |
च | S | 0 | 0 |
पूरणे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The Instrumental -3rd case endings after आत्मान् are not elided when an Ordinal Numeral follows.
Vasu English Translation¶
The Instrumental -3rd case endings after आत्मान् are not elided when an Ordinal Numeral follows. Thus आत्मनापंचमः, आत्मनाषष्ठः ॥ The Instrumental case here takes place under the Vartika तृतीयाविधाने प्रकृत्यादीनामुपसंख्यानं (II.3.18 Vartika). And compounding takes place by (2.1.30), by separating तृतीया of that aphorism and making it a separate sutra or in this way :-आत्मना कृतः पंचमः = आत्मनापंचमः ॥ How do you explain the form आत्मचतुर्थ in जनार्दनस्त्वात्मचतुर्थ एव? It is a Bahuvrihi compound = आत्मा चतुर्थोऽस्य ॥ The word पूरणे is a later addition of the Vartikakara.
Kashika¶
आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्त उत्तरपदेऽलुग् भवति। आत्मनापञ्चमः। आत्मनाषष्ठः। **तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानम्**(२.३.१८. वा॰) इति तृतीया। तृतीयेति योगविभागात् समासः। आत्मना वा कृतः पञ्चम आत्मनापञ्चमः। कथं जनार्दनस्त्वात्मचतुर्थ एवेति? बहुव्रीहिरयमात्मा चतुर्थोऽस्यासावात्मचतुर्थः॥
Siddhanta Kaumudi¶
आत्मनस्तृतीयाया अलुक्स्यात् ॥<!पूरण इति वक्तव्यम् !> (वार्तिकम्) ॥ पूरणप्रत्ययान्ते उत्तरपदे इत्यर्थः । आत्मनापञ्चमः । जनार्दनस्त्वामात्मचतुर्थ एवेति बहुव्रीहिर्बोध्यः । पूरणे किम् । आत्मकृतम् ॥
Padamanjari¶
वार्तिकमेवेदं सूत्ररुपेण पठितम् । पूरणशब्दस्य स्वरितत्वातदधिकारविहितानां प्रत्ययानामत्र ग्रहणं न स्वरुपस्य ग्रहणमित्याह - पॄअणप्रत्ययान्त इति । यद्यप्युतरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर्न भवतीति दृदयस्य दृल्लेख इत्यत्र ज्ञापयिष्यते, तथाप्यात्मन्शब्दात् पूर्णप्रत्ययस्यासम्भवात्सामर्थ्यादत्र तदन्तविधिः । आत्माना वा कृत इति । वृतौ कृतार्थस्यान्तर्भावात् कर्तरि करणे वा तृतीया, तृतीया तत्कृतार्थेन इति समासः, यथा - कुङ्कमलोहितादावित्यर्थः । आत्मा चतुर्थो यस्येति । एकस्यापि वस्तुनो बुद्धिपरिकल्पितविभेदस्य वतिपदार्थत्वम्, तान्यपदार्थत्वं चाविरुद्धम् ॥
Nyaas¶
पूरणगरहणिह स्वर्यते, स्वरितेन चाधिकारावगतिर्भवति। तेन पूरणग्रहणधिकृत्य पूरणग्रहणमधिकृत्य पूरणप्रत्यया विहितास्त एव पूरणग्रहणेन गृह्यन्ते, न तु स्वरूपम्। उत्तरपदे (6.3.1) इत्यनुवर्तते च, ततः प्रत्ययग्रहणपरिभाषया (भो।प।सू।7) पूरणप्रत्ययान्त उत्तरपदे कार्यं विज्ञायत इत्यालोच्याह -पूरणप्रत्ययान्त उत्तरपदे इत्यादि। पञ्चमः इति। पञ्चानां पूरणः तस्य पूरणे डट् (5.2.48) इति डट्, तस्य नान्तादसंख्यादेर्मट् (5.2.49) । षष्ठः इति। षण्णां पूरण इति षट्कतिकतिपयचतुरां थुक् (5.2.51) , ष्टुत्वम्। आत्मनापञ्चमः इत्यादौ केन तृतीया, न ह्यत्र करणादिस्तृतीयार्थोऽस्ति, करणादि हि कारकम्, क्रियायाश्च कारक्रं भवति, न चेह काचित्? क्रिया विद्यते? इत्याह -तृतीयाविधाने इत्यादि। भवत्वेवम्, तृतीयासमासास्तु कथम्, न ह्यत्र समासलक्षणमस्ति? इत्यत आह -तृतीयाविधाने इत्यादि। भवत्वेवम्, तृतीयासमासस्तु कथम्, न ह्यत्र समासलक्षणमस्ति? इत्यत आह -तृतीयेति च इत्यादि। अथ वा -कर्तृकरणयोस्तृतीया (2.3.18) इत्यनेनैवात्र तृतीया, कर्तृकरणे कृता बहुलम् (2.1.32) इति समास इति दर्शयन्नाह -आत्मना वा इत्यादि। अत्र कर्तर करणे वैषा तृतीया -कृतः पञ्चम इति। कृते समासे कृतशब्दो न प्रयज्यते; तदर्थस्य वृत्तावन्तर्भावात्। कथम् इत्यादि। अत्राप्यात्मना चतुर्थ इति भवितव्यमिति भावः। बहुव्रीहिरयम् इत्यादि परिहारः। तत्पुरुषे ह्रात्मनाचतुर्थ इति स्यात्, न चायं तत्पुरुषः। किं तर्हि? बहुव्रीहिः। स च प्रथमान्तयोरेव पदयोरिति न भवत्यनिष्टप्रसङ्गः। ननु चान्यपदार्थे बहुव्रीहिरुच्यते, अन्यपदार्थश्च व्यतिरिक्तो भवति। यथा चित्रा -गावो यस्य सः चित्रगुरिति, न चेह कश्चिद्व्यतिरिक्तोऽन्यपदार्थोऽस्ति? नैष दोषः; अव्यतिरक्तोऽप्यन्यपदार्थो भवति वयपदेशिवद्भावेन। यथा -शोभनशरीरः शिलापुत्रक इति॥
Prakriyasarvasvam¶
पूरणार्थे परे आत्मनस्तृतीयाया अलुक् स्यात् । आत्मनापञ्चमः । आत्मना- शततमः ॥ प्रकृत्यादिभ्यश्च । प्रकृत्याभिरूपः ॥
Vartika¶
पूरणे ।