63009: हलदन्तात् सप्तम्याः संज्ञायाम्¶
Padacheda: हलदन्तात् | S | 5 | 1 |
सप्तम्याः | S | 6 | 1 |
संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The Locative -7th case ending is not elided after a stem ending in a consonant or a short अ when the compound is a Name.
Vasu English Translation¶
The Locative -7th case ending is not elided after a stem ending in a consonant or a short अ when the compound is a Name. Thus युधिष्ठिरः, त्वचिसारः, गविष्ठिरः ॥ Though गो does not end in a consonant, yet it retains its Locative ending by virtue of (8.3.95) (गवियुधिभ्यां स्थिरः) which shows by implication that गवि is governed by this rule. So also अ ending words: as अरण्येतिलकाः, अरण्येमाषकाः, वनेकिंशुकाः, वनेहरिद्रकाः, वनेबल्बजकाः, पूर्वाह्णेस्फोटकाः, कूपेपिशाचकाः ॥ Why do we say “after a word ending in a consonant or अ”? Observe नद्यां कुक्कुटिका = नदीकुक्कुटिका, भूम्यां पाशाः = भूमिपाशाः ॥ Why do we say ‘when a Name’? Observe अक्षशौण्डः ॥
Vart:- The Locative ending is not elided after हृद् and दिव्; as : हृदिस्पृक्, दिविस्पृकः ॥
Bhashya¶
हलदन्तात्सप्तम्याः संज्ञायाम् (2868) (6398 उपसंख्यानवार्तिकम् ॥ 1 ॥) - हृद्युभ्यां ङेरुपसंख्यानम् - हृद्युभ्यां ङेरुपसंख्यानं कर्तव्यम् । हृदिस्पृक्, दिविस्पृक् ॥ (6399 उपसंख्यानवार्तिकम् ॥ 2 ॥) - अन्यार्थे च - अन्यार्थे चैषा सप्तमी द्रष्टव्या - हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् ॥ (6400 एकदेशिन उपसंख्यानवार्तिकम् ॥ 3 ॥) - हलदन्ताधिकारे गोरुपसंख्यानम् - हलदन्ताधिकारे गोरुपसंख्यानं कर्तव्यम् । गविष्ठिरः ॥ न कर्तव्यम् । लुकोऽवादेशो विप्रतिषेधेन । लुक्क्रियतामवादेश इति - अवादेशो भविष्यति विप्रतिषेधेन । अवादेशे कृते हलदन्तादित्येव सिद्धम् ॥ (6401 विप्रतिषेधाक्षेपवार्तिकम् ॥ 4 ॥) - लुकोऽवादेशो विप्रतिषेधेनेति चेत् भूमिपाशेऽतिप्रसङ्गः - लुकोऽवादेशो विप्रतिषेधेनेति चेत् भूमिपाशेऽतिप्रसङ्गो भवति । भूम्यां पाशो भूमिपाशः ॥ (6402 समाधानवार्तिकम् ॥ 5 ॥) - अकोऽत इति वा तत्सन्ध्यक्षरार्थम् - एवं तर्हि अविशेषेण सप्तम्या अलुकमुक्त्वा अकोऽतः इति वक्ष्यामि, तन्नियमार्थं भविष्यति - अकोऽत एव भवति नान्यत इति । तत्सन्ध्यक्षरार्थम्, तेन सन्ध्यक्षराणां सिद्धं भवति । सिध्यति । सूत्रं तर्हि भिद्यते । (सिद्धान्तभाष्यम्) यथान्यासमेवास्तु । ननु चोक्तं हलदन्ताधिकारे गोरुपसंख्यानमिति । नैष दोषः । निपातनात्सिद्धम् । किं निपातनम् ? गविष्ठिरशब्दो बिदादिषु पठ्यते । असकृत्खल्वपि निपातनं क्रियते - गवियुधिभ्यां स्थिरः (8.3.95) इति ॥
Kashika¶
हलन्ताददन्तात् चोत्तरस्याः सप्तम्याः संज्ञायामलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिर इत्यत्र तु गवियुधिभ्यां स्थिरः (८.३.९५) इत्यत एव वचनादलुक्। अदन्तात् — अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्वजकाः। पूर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायामिति किम्? अक्षशौण्डः॥ हृद्द्युभ्यां ङेः॥ हृद् दिव् इत्येताभ्यामुत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्॥
Siddhanta Kaumudi¶
हलन्ताददन्ताच्च सप्तम्या अलुक् संज्ञायाम् । त्वचिसारः ॥
Laghu Siddhanta Kaumudi¶
हलन्ताददन्ताच्च सप्तम्या अलुक्। कण्ठेकालः। प्राप्तमुदकं यं स प्राप्तोदको ग्रामः। ऊढरथोऽनड्वान्। उपहृतपशू रुद्रः। उद्धृतौदना स्थाली। पीताम्बरो हरिः। वीरपुरुषको ग्रामः। प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (वार्त्तिकम्)। प्रपतितपर्णः, प्रपर्णः। नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (वार्त्तिकम्) । अविद्यमानपुत्रः, अपुत्रः॥
Balamanorama¶
हलदन्तात् सप्तम्याः संज्ञायाम् - हलदन्तात् । त्वचिसार इति । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः॑ इत्यमरः । अथ हलन्तस्योदाहरणान्तरं वक्ष्यति — युधिष्ठिर इति । अत्रअजिरशिशिसस्थिरे॑त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः ।
Padamanjari¶
उदाहरणेषु संज्ञायाम् इति समासः । गविष्ठिर इत्यादि । अन्यथा अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते इत्यवादेशस्याकरणादहलदन्तत्वान्न स्यात्, यथा - भूम्यां पाशो भूमिपाश इत्यत्रेति भावः । हृद्द्यौभ्यामिति । असंज्ञार्थमिदम् । हृदिस्पृक्, दिविस्पृगिति । द्वितीयार्थे चैषा सप्तमी । तथा हि भाष्यम् - अन्यार्थे चैषा सप्तमी द्रष्टव्या, हृदयं स्पृशतीति हृदिस्पृक्, दिवं स्पृशतीति दिविस्पृक् इति । आख्याग्रहणस्योपसमस्तत्वादिह संज्ञाग्रहणम् । तत्रैव त्वसमास्तमाख्याग्रहणं कर्तव्यम् ॥
Nyaas¶
युधिष्ठिरः इति। संज्ञायाम् (8.2.11) इति समासः, गवियुधिभ्यां स्थिरः (8.3.95) इति षत्वम्। अथ गविष्ठिर इत्यत्र कथमलुक्, न हि गोशब्दो हलन्तः, नाप्यदन्तः? स्यादेतत् -गो+इ+स्थिर इति स्थितेऽन्तरङ्गत्वादवादेशे कृते हलन्तत्वाद्भविष्यति, एतच्च नास्ति; यतः अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते (व्या।प।128) इति, अवश्यं चैतदभ्युपेयम्; अन्यथा हि नद्यां कुक्कुटिका नदीकुक्कुटिक, भूम्यां पाशो भूमिपाश इत्यत्रापि यणादेशे कृतेऽलुक्? प्रसज्येत? इत्यत आह -गविष्ठिर इत्यत्र तु इत्यादि। ह्मद्द्युभ्याम् इति। असंज्ञार्थमिदम्। वक्तव्यमिति व्याख्येयमित्यर्थः। व्याख्यानं चोत्तरत्र करिष्यते। अथ वेहापि क्रियते -इहान्तग्रहणं न कर्तव्यम्, विनापि तेन सपतम्या प्रातिपदिके सन्निधापिते हलदन्तता लभ्यत एव, तसमादधिकमिहान्तग्रहणं क्रियते, तदधिकं क्रियमाणमेतत्? सूचयति -अधिकेनायमलुग्भवतीति। तेन क्वचिदसंज्ञायामलुग्भवतीति। ह्मदिस्पृग्दिविस्पृक् इति। स्पृशोऽनुदके क्विन् (3.2.58) क्विन्प्रत्ययस्य कुः (8.2.62) ति शकारस्य खकारः, तस्य झलां जशोऽन्ते (8.2.39) इति जश्त्वम् -गकारः, तस्यापि वाऽवसाने (8.4.56) इति चर्त्वम् -ककारः। अत्र चायमर्थः -ह्मदयं स्पृशति, दिवं स्पृशतीति। तथा हि भाष्ये उक्तम् -द्वितीयार्थे सप्तमी चैषा द्रष्टवया, ह्मदयं स्पृशति, दिवं स्पृशतीति `ह्मविस्पृक्, दिविस्पृक इति। कथं पुनः द्वितीयार्थे सा भवति? अत एव भाष्यकारवचनात्। अथ वा -ह्मदयं यः स्पृशति स ह्मदये स्पृशत्येव, दिवं यः स्पृशति स दिवि स्पृशत्येव अत्र अधिकरणे (2.3.36) इत्येवं भविष्यति सप्तमी। आख्याग्रहणे प्रकृते पुनः संज्ञाग्रहणं विस्पष्टार्थम्॥
Vartika¶
हृद्द्युभ्यां च ।
Sutra Prayogas¶
युधिष्ठिरम् (किरातार्जुनीयम्): हलदन्तात्सप्तम्याः संज्ञायाम् इत्यलुक्।
मनसिज (शिशुपालवधम्): हलदन्तात्सप्तम्याः संज्ञायाम् इति सप्तम्याः अलुक्।