63014: तत्पुरुषे कृति बहुलम्

Padacheda: तत्पुरुषे | S | 7 | 1 |

कृति | S | 7 | 1 |

बहुलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

In a तत्-पुरुष समास when the second member is a word formed with a कृत् affix the Locative -7th case ending is optionally preserved.

Vasu English Translation

In a तत्-पुरुष समास when the second member is a word formed with a कृत् affix the Locative -7th case ending is optionally preserved. As स्तम्बेरमः, कर्णेजपः, but also कुरुचरः, मद्रचरः ॥

Bhashya

तत्पुरुषे कृति बहुलम् (2873) (6407 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - तत्पुरुषे कृति बहुलमकर्मधारये - तत्पुरुषे कृति बहुलमित्यत्राकर्मधारय इति वक्तव्यम् । इह मा भूत् - परमे कारके - परमकारक इति । तत्तर्हि वक्तव्यम् ? न वक्तव्यम् । बहुलवचनान्न भविष्यति ॥ (वार्तिकावतरणभाष्यम्) अथ किमर्थं लुगलुगनुक्रमणं क्रियते, न तत्पुरुषे कृति बहुलम् इत्येव सिद्धम् ॥ (6408 अनुक्रमणप्रयोजनवार्तिकम् ॥ 2 ॥) - लुगलुगनुक्रमणं बहुलवचनस्याकृत्स्नत्वात् - लुगलुगनुक्रमणं क्रियते, अकृत्स्नं बहुलवचनमिति ॥ यद्यकृत्स्नं बहुलवचनम्, यदनेन कृतमकृतं तत् । एवं तर्हि न ब्रूमः - अकृत्स्नमिति, कृत्स्नं च - कारकं च, साधकं च, निर्वर्तकं च, यदनेन कृतं सुकृतं तत् । किमर्थं तर्हि लुगलुगनुक्रमणं क्रियते ? उदारणभूयस्त्वात् । ते वै खल्वपि विधयः सुपरिगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च । केवलं लक्षणं केवलः प्रपञ्ञ्चो वा न तथा कारकं भवति ॥ अवश्यं खल्वप्यस्माभिरिदं वक्तव्यम् - बहुलम्, अन्यतरस्याम्, उभयथा, एकेषामिति । सर्ववेदपारिषदं हीदं शास्त्रम्, तत्र नैकः पन्थाः शक्य आस्थातुम् ॥

Kashika

तत्पुरुषे समासे कृदन्त उत्तरपदे सप्तम्या बहुलमलुग् भवति। स्तम्बेरमः। कर्णेजपः। न च भवति — कुरुचरः। मद्रचरः॥

Siddhanta Kaumudi

स्तम्बेरमः । कर्णेजपः । क्वचिन्न । कुरुचरः ॥

Laghu Siddhanta Kaumudi

ङेरलुक्। सरसिजम्, सरोजम्॥

Balamanorama

तत्पुरुषे कृति बहुलम् - तत्पुरुषे कृति । तत्पुरुषे सप्तम्या बहुलमलुक्स्यात्कृदन्ते उत्तरपदे संज्ञायामित्यर्थः । स्तम्बेरम इति । तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती । कर्णेजप इति । कर्णे जपति=परदोषमुपांआआविष्करोतीति कर्णेजपः पिशुनः ।स्तम्बकर्णयो रमिजपो॑रित्यच् । उपपदसमासः । क्वचिन्नेति । बहुवग्रहणादिति भावः । कुरुचर इति । ‘चरेष्टः’ इत्यधिकरण उपपदेः चरेष्टः । उपपदसमासः । यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदं, तथापि बहुलग्रहणादेव सिद्धेहलदन्ता॑दिति नानुवर्तनीयमिति भावः ।

Padamanjari

अत्रापि कृदन्तस्य ग्रहण्, न कृन्मात्रस्य, तत्र परतः सप्तम्या असम्भवत् इह कस्मान्न भवति - परमे कारके परमकारक इति उच्यते - अन्तरङ्गा कृत्प्रतिपाद्यक्रियानिमिता सप्तमी, इह तु क्रियान्तरनिमितापरमे कारके निधेहीति, तेन बहिरङ्गत्वान्नास्या ग्रहणम् । कुरुचर इति । हलदन्तात् इत्यधिकारमनाश्रित्यैतदुदादृतम् । विभाषाग्रहणे प्रकृते बहुलग्रहणं क्वचित् प्रकृत्यादीनामुपसंग्रहार्थम् । तेन कर्णेजपादावलुगेव, मद्रचरादौ लुगेव, ब्राह्मणाच्छ्ंअस्यादौ असप्तम्या अप्यलुक् । एवं च सर्वमेवालुक्प्रकरणमस्यैव प्रपञ्चः ॥

Nyaas

स्तम्बेरमः, कर्णेजपः इति। स्तम्बकर्णयो रमिजपोः (3.2.13) इत्यच्, उपपदमितङ् (2.2.19) इति तत्पुरुषः। कुरुचरः, मद्रचरः इति। चरेष्टः (3.2.16) विभाषायां प्रकृतायां बहुलग्रहणं क्वचित्प्रवृत्त्यादीनामर्थानां संग्रहार्थम्। तेनालुक्प्रवृत्तिः क्वचिदेव भवति -स्तम्बेरमः इत्यादौ। क्वचिदप्रवृत्तिरेव -कुरुचरः इत्यादौ। क्वचिदुभयम् -सरजिम्, सरोजम् इत्यादौ। क्वचिदन्यदेव -ब्राआहृणाच्छंसी इत्यादौ। सप्तम्या अलुगुक्तः पञ्चम्या अपि भवति। तथा कृदन्त उत्तरपदेऽलुगुक्तस्तद्धितेऽपि भवति -अप्सु भवोऽप्सव्य इति। दिगादित्वाद्यत् -ओर्गुणः (6.4.146) इति गुणः, वान्तो यि प्रत्यये (6.1.79) इति वान्तादेशः।तदेवं सर्वत्र बहुलग्रहणेन सिद्धमिति ब्राआहृणाच्छंसिन उपसंख्यानम् (वा।716) इत्यादि। यदुक्तम्, यच्च वक्ष्यते -अपोयोनियन्मतुषु सप्तम्या अलुक् (वा।721) इत्यादि, तत्? सर्व न वक्तव्यं भवतीति। यद्येवम्? स्तोकान्मुक्त इत्यादपि सर्वमनेनैव सिद्धमिति पञ्चम्याः स्ताकादिभ्यः (6.3.2) इति न वक्तव्यं भवति? सत्यमेतत्; अस्यैव प्रपञ्चार्थं तद्वेदितव्यम्। एवञ्च सति सुसंगृहीतं लक्ष्यं भवति। तथा चाह -त एव विषयाः सुसंगृहीता भवन्ति येषां लक्षणं प्रपञ्चश्च॥

Prakriyasarvasvam

तत्पुरुषसमासे कृदन्त उत्तरपदे सप्तम्या बहुलमलुक् स्यात् ।

Sutra Prayogas

  • स्तम्बेरमा (रघुवंशम्): तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक्।

  • सरसिजैः (रघुवंशम्): तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक्।

  • परमेष्ठिनः (रघुवंशम्): तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक्।

  • वनेचराणां (कुमारसम्भवम्): तत्पुरुषे कृति बहुलम् इति सप्तम्याः अलुक्।

  • परमेष्ठिनः (कुमारसम्भवम्): तत्पुरुषे कृति बहुलम् इत्यलुक्।

  • वनेचरः (किरातार्जुनीयम्): तत्पुरुषे कृति बहुलम् इत्यलुक्।

  • मातरिश्वा (किरातार्जुनीयम्): तत्पुरुषे कृति बहुलम् इत्यलुक्।

  • वनचरा (किरातार्जुनीयम्): तत्पुरुषे कृति बहुलम् इति बहुलग्रहणाल्लुक्।

  • वनेसदां (किरातार्जुनीयम्): तत्पुरुषे कृति बहुलम् इत्यलुक्।

  • स्तम्बेरमः (शिशुपालवधम्): तत्पुरुषे कृति बहुलम् इत्यलुक्।

  • सरसिजवनकान्तं (शिशुपालवधम्): तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक्।

  • खचरैः (शिशुपालवधम्): तत्पुरुषे कृति बहुलम् इति लुग्विकल्पः।

  • कर्णे-जपैराहित-राज्य-लोभा (भट्टिकाव्यम्): तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक् ।

  • दिवि-ष्ठा (भट्टिकाव्यम्): तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक् ।

  • जले-जानि (भट्टिकाव्यम्): तत्पुरुषे कृति इत्यादिना ऽलुक् सप्तम्याः।