63007: वैयाकरणाख्यायां चतुर्थ्याः¶
Padacheda: वैयाकरणाख्यायाम् | S | 7 | 1 |
चतुर्थ्याः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The Dative -4th Case ending is not elided after आत्मान् when the compound is the name of a technical term in grammar.
Vasu English Translation¶
The Dative -4th Case ending is not elided after आत्मान् when the compound is the name of a technical term in grammar. Thus आत्मनेपदम्, आत्मनेभाषा ॥ The compounding takes place by the yoga-vibhaga of sutra (2.1.36), and the force of the Dative is here that of tadartha.
Bhashya¶
वैयाकरणाख्यायां चतुर्थ्याः (2866) (6397 उपसंख्यानवार्तिकम् ॥ 1 ॥) - आत्मनेभाषपरस्मैभाषयोरुपसंख्यानम् - आत्मनेभाषपरस्मैभाषयोरुपसंख्यानं कर्तव्यम् । आत्मनेभाषः, परस्मैभाषः ॥ (उपसंख्यानप्रयोजनभाष्यम्) तत्कथं कर्तव्यम् ? यदि व्याकरणे भवा - वैयाकरणी, वैयाकरणी आख्या - वैयाकरणाख्या, वैयाकरणाख्यायामिति ॥ अथ हि वैयाकरणानामाख्या - वैयाकरणाख्या, वैयाकरणाख्यायामिति, नार्थ उपसंख्यानेन ॥ (उपसंख्यानस्य निष्प्रयोजनत्वबोधकभाष्यम्) यद्यपि व्याकरणे भवा - वैयाकरणी, वैयाकरणी आख्या - वैयाकरणाख्या, वैयाकरणाख्यायामिति, एवमपि नार्थ उपसंख्यानेन । वचनाद्भविष्यति । अस्ति वचने प्रयोजनम्- आत्मनेपदम्, परस्मैपदमिति । निपातनादेतत् सिद्धम् । किं निपातनम् ? अनुदात्तङित आत्मनेपदम् शेषात्कर्तरि परस्मैपदम् (1-3-12;78) इति ॥
Kashika¶
वैयाकरणानामाख्या वैयाकरणाख्या। आख्या संज्ञा। यया संज्ञया वैयाकरणा एव व्यवहरन्ति, तस्यामात्मन उत्तरस्याश्चतुर्थ्या अलुग् भवति। आत्मनेपदम्। आत्मनेभाषा। तादर्थ्ये चतुर्थी (२.३.१३ वा॰)। चतुर्थीति योगविभागात् समासः॥
Siddhanta Kaumudi¶
आत्मन इत्येव । आत्मनेपदम् । आत्मनेभाषाः । तादर्थ्ये चतुर्थेषा । चतुर्थीति योगविभागात्समासः ॥
Balamanorama¶
वैयाकरणाख्यायां चतुर्थ्याः परस्य च - परस्य च । वैयकरणाख्यायां परशब्दस्यापि चतुथ्र्या अलुगित्यर्थः ।
Tattvabodhini¶
वैयाकरणाख्यायां चतुर्थ्याः परस्य च - परस्य च । परशब्दस्य च या चतुर्थी तस्या अलुक् स्याद्वैयाकरणाख्यायाम् ।
Prakriyasarvasvam¶
शाब्दिककृताख्यायामात्मनश्चतुर्थ्या अलुक् स्यात् । आत्मनेपदम् । आत्मनेभाषो धातुः । अलुग्विधिसाामर्थ्याच्चतुर्थीसमासः ॥