63016: विभाषा वर्षक्षरशरवरात्¶
Padacheda: विभाषा | S | 1 | 1 |
वर्ष-क्षर-शर-वरात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The Locative -7th case-affix ending is optionally retained after 1. वर्ष 2. क्षर 3. शर and 4. वर when ज follows.
Vasu English Translation¶
The Locative -7th case-affix ending is optionally retained after 1. वर्ष 2. क्षर 3. शर and 4. वर when ज follows. Thus वर्षेजः or वर्षजः, क्षरेजः or क्षरजः, शरेजः or शरजः, वरेजः or वरजः ॥
Kashika¶
वर्ष क्षर शर वर इत्येतेभ्य उत्तरस्याः सप्तम्या ज उत्तरपदे विभाषालुग् भवति। वर्षेजः, वर्षजः। क्षरेजः, क्षरजः। शरेजः, शरजः। वरेजः, वरजः॥
Siddhanta Kaumudi¶
एभ्यः सप्तम्या अलुक् जे । वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥
Balamanorama¶
विभाषा वर्षक्षरशरवरात् - विभाषा वर्ष । शेषपूरणेन सूत्रं व्याचष्टे — एभ्यस्सप्तम्या इति ।
Prakriyasarvasvam¶
वर्षेजः, वर्षजः । क्षरेजः, क्षरजः । शरेजः, शरजः । वरेजः, वरजः । घकाल ० (६-३-१७) इति कालशब्दे वालुक् । प्राह्णेकाले, प्राह्णकाले ॥