Sutras 101 - 120¶
- 62101: न हास्तिनफलकमार्देयाः
- 62102: कुसूलकूपकुम्भशालं बिले
- 62103: दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु
- 62104: आचार्योपसर्जनश्चान्तेवासिनि
- 62105: उत्तरपदवृद्धौ सर्वं च
- 62106: बहुव्रीहौ विश्वं संज्ञायाम्
- 62107: उदराश्वेषुषु
- 62108: क्षेपे
- 62109: नदी बन्धुनि
- 62110: निष्ठोपसर्गपूर्वमन्यतरस्याम्
- 62111: उत्तरपदादिः
- 62112: कर्णो वर्णलक्षणात्
- 62113: संज्ञौपम्ययोश्च
- 62114: कण्ठपृष्ठग्रीवाजंघं च
- 62115: शृङ्गमवस्थायां च
- 62116: नञो जरमरमित्रमृताः
- 62117: सोर्मनसी अलोमोषसी
- 62118: क्रत्वादयश्च
- 62119: आद्युदात्तं द्व्यच् छन्दसि
- 62120: वीरवीर्यौ च