62110: निष्ठोपसर्गपूर्वमन्यतरस्याम्¶
Padacheda: निष्ठा | S | 1 | 1 |
उपसर्गपूर्वम् | S | 1 | 1 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास a Participle in a क्त preceded by a preposition, standing as the first member of the compound has optionally acute accent (उदात्त) on the last syllable.
Vasu English Translation¶
In a बहुव्रीहि समास a Participle in a क्त preceded by a preposition, standing as the first member of the compound has optionally acute accent (उदात्त) on the last syllable. Thus प्रधौत꣡मुखः or प्रधौतमुखः꣡ (6.2.169), or प्र꣡धौतमुखः (6.2.49) and (6.2.1) प्रक्षालित꣡पादः or प्र꣡क्षालितपादः ॥ When the word मुखः means (mouth) then by (6.2.167) which is an optional rule, the accent falls on the last syllable खः ॥ When the other alternative is taken or when it does not mean (mouth) then by (6.2.49) the acute falls on प्र, which accent is retained (6.2.1). Why do we say “a Nishtha”? Observe प्रसवकमुखः which is acute in the middle by the krit accent being retained after प्र (6.2.139). Why do we say ‘preceded by a preposition’? Observe शुष्कमुखम् which has acute on the first by (6.1.206).
Kashika¶
बहुव्रीहौ समासे निष्ठान्तमुपसर्गपूर्वं पूर्वपदमन्यतरस्यामन्तोदात्तं भवति। प्॒रधा॒ैतमु॑खः, प्॒रधा॒ैत॒मु॒खः, प्रधा॑ैतमुखः। प्॒रक्षा॒लि॒तपा॑दः, प्रक्षा॑लितपादः। यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गम् (६.२.१६७) इत्येतद् भवति, न चेत् पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तरः (६.२.४९) इत्येतद् भवति। निष्ठेति किम्? प्॒रसेच॑कमुखः। उपसर्गपूर्वमिति किम्? शुष्क॑मुखः॥
Siddhanta Kaumudi¶
निष्ठान्तं पूर्वपदमन्तोदात्तं वा । प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्वं किम् । शुष्कमुखः ॥
Padamanjari¶
प्रक्षालितपाद इति । क्षल शौचकर्मणि चुरादिः, धावु गातिशुद्ध्योः, च्छवोः, शूठ इत्युठ, एत्येधत्युठसु इति वृद्धिः, प्रक्षालितप्रधौतशब्दौ गतिस्वरेणाद्यौदातौ । मुखं स्वाङ्गमित्येतद्भवतीति । विकल्पितमुतरपदान्तोदातत्वम्, तेन स्वाङ्गवाचिनि मुखशब्दे स्वरत्रयं भवति - अनेन पूर्वपदान्तोदातत्वम्, मुखं स्वाङ्गम् इत्येतत्, उभाभ्यां मुक्ते पूर्वपदप्रकृतिभावेन गतिरनन्तरः इत्याद्यौदातत्वं च । न चेदिति । स्वाङ्वा चीति सम्बध्यते, यदि मुखशब्दः स्वाङ्गवाची न भवतीत्येर्थः । प्रसेचकशब्दः कुदुतरपदप्रकृतिस्वरेण मध्योदातः, शुष्कशब्दः शुष्कधुष्टौ इत्याद्यौदातः ॥
Nyaas¶
प्रक्षालितपादः इति। क्षल शौचकर्मणि (धातुपाठः-1597) अस्माण्णयन्तात्? क्तः। पक्षालितशब्दः गतिरनन्तरः (6.2.49) इत्याद्युदात्तः। प्रधौतमुखम् इति। धावु गतिशुद्ध्योः (धातुपाठः-601) अस्मात्? क्तः। च्छ्वोः शूडनुनासिके च (6.4.19) इत्यूठ्, एत्येधत्यूठ्सु (6.1.89) इति वृद्धिः। यदि मुखशब्दः इत्यादि। मुखशब्दोऽयं स्वाङ्गवाच्यपि। तत्र यद्ययमिह स्वाङ्गवाची तदानेन पूर्वपदान्तोदात्तत्वमेव। मुक्ते पक्षे मुखं स्वाङ्गम् (6.2.167) इत्युत्तरपदाद्युदात्तत्वं भवति। अत्र निष्ठोपसर्गपूर्वमन्यतरस्यांग्रहणानुवृत्तेर्यदाऽन्तोदान्तत्वं भवति तदा गतिरनन्तरः (6.2.49) इत्येतत्। तेन स्वाङ्गवाचिनि मुखशब्दे त्रयः स्वरा भवन्ति। अनेन पूर्वपदान्तोदात्तत्वम्, मुखं स्वाङ्गम् (6.2.167) इत्यनेनोत्तरपदन्तोदात्तत्वम्, गतिरनन्तरः (6.2.49) इति प्रकृतिभावात्? पूर्वपदस्याद्युदात्तत्वम्। न चेत् इत्यादि। यदि मुखशब्दोऽत्र स्वाङ्गावची न भवति तदा मुखं स्वाङ्गम् (6.2.167) इत्यस्यायं विषयो न भवतौति गतिरनन्तरः (6.2.49) इति विधिना मुक्ते प्रवर्तते। तेन स्वाङ्गवाचिनि मुखशब्दे द्वौ स्वरौ भवतः -पूर्वपदस्याद्युदात्तत्वम्, अन्तोदात्तत्वञ्च। प्रसेचकमुखम् [प्रसेचकमुखः -काशिका] इति। अत्र पूर्वपदप्रकृतिस्वर एव भवति। प्रसिच्यत इति प्रसेचकः कृत्यल्युटो बहुलम् (3.3.113) इति कर्मणि ण्वुल्, कुगतिप्रादयः (2.2.18) इति समासः, तत्पुरुषे तुल्यार्थे (6.2.2) इत्यादिनाऽव्ययप्रकृतिभावः। तेन प्रसेचकशब्द आद्युदात्त इति। शुष्कमुखः इति। शुषः कः (8.2.51) इति निष्ठायां कादेशः। प्रत्ययस्वरेण शुष्कशब्दोऽन्तोदात्तः। बहुव्रीबौ प्रकृतिभावेन नित्यमेवान्तोदात्तो भवति॥