62109: नदी बन्धुनि¶
Padacheda: नदी | S | 1 | 1 |
बन्धुनि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास having the word बन्धु as its second member, the first member ending in the feminine affix ई (नदी word) has the ac on its final syllable.
Vasu English Translation¶
In a बहुव्रीहि समास having the word बन्धु as its second member, the first member ending in the feminine affix ई (नदी word) has the ac on its final syllable. Thus गार्गी꣡बन्धुः, वात्सी꣡बन्धुः ॥ The words गा꣡र्गी and वा꣡त्सी are formed by adding ङीष् (4.1.16) to गार्ग्य and वात्स्य ending in यञ् (4.1.105), and therefore, they are first acute. By (6.2.1) this accent would have been retained, but for the present sutra. Why do we say “a Nadi (Feminine in ई) word”? Observe ब्र꣡ह्मबन्धुः, the word ब्रह्म has acute on the first syllable as it is formed by मनिन् (Unadi IV. 146) and it retains that accent (6.2.1). Why do we say “before बन्धु”? Observe गा꣡र्गीप्रियः ॥
Kashika¶
बहुब्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति। गा॒र्गीब॑न्धुः। वा॒त्सीब॑न्धुः। नदीति किम्? ब्रह्म॑बन्धुः। ब्रह्मशब्द आद्युदात्तः। बन्धुनीति किम्? गार्गी॑प्रियः॥
Siddhanta Kaumudi¶
बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीबन्धुः । नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि किम् । गार्गीप्रियः ॥
Padamanjari¶
बन्धुनि इति शब्दरुपापेक्षया नपुंसकनिर्देशः, गर्गवत्स शब्दाभ्यां गर्गादियञन्तभ्याम् यञश्चेति ङीप् , गार्गीवात्सीशब्दौ ञित्स्वरेणाद्यौदातौ । ब्रह्मशब्दो बृहेर्मनिन्प्रत्यये निपातितः ॥
Nyaas¶
बन्धुनि इति। शब्दरूपापेक्षया नपुंसकलिङ्गनिर्देशः, अन्यथा बन्धुशब्दस्य पुंल्लिङ्गत्वात्? बन्धौ इति निर्देशं कुर्यात्। गार्गीबन्धुः, वात्सीबन्धुः इति। गर्गवत्सशब्दाभ्यां गर्गादित्वात्? (4.1.105) यञ्? तदन्तात्? यञश्च (4.1.16) इति ङीप्। गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदात्तौ। ब्राहृबन्धुः इति। अत्र प्रकृतिभाव एव भवति पूर्वपदस्य। ब्राहृशब्दश्चायं मनिन् (द।उ।6।73) इत्यनुवर्तमाने बृहेर्नोऽच्च (द।उ।6।74) इति भनिन्प्रत्ययान्तो व्युत्पाद्यते, तेनाद्युदात्तः। गार्गीप्रियः इति। गार्गीशब्दोऽपि प्रकृतिभावेनाद्युदात्त एव भवति॥