62100: अरिष्टगौडपूर्वे च¶
Padacheda: अरिष्ट-गौडपूर्वे | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
When the words अरिष्ट and गौड stand first, the first member has the acute accent (उदात्त) on the final before the word पुर।
Vasu English Translation¶
When the words अरिष्ट and गौड stand first, the first member has the acute accent (उदात्त) on the final before the word पुर। Thus अरिष्ट꣡पुरम्, गौड꣡पुरम् ॥ By the force of the word पूर्व in the aphorism, we can apply the rule to अरिष्टश्रित꣡पुरम्, गौडभृत्यपुरम् ॥
Kashika¶
अरिष्ट गौड इत्येवंपूर्वे समासे पुरशब्द उत्तरपदे पूर्वपदमन्तोदात्तं भवति। अ॒रि॒ष्टपु॑रम्। गा॒ैडपु॑रम्। पूर्वग्रहणं किम्? इहापि यथा स्यात् — अ॒रि॒ष्ट॒श्र्िातपु॑रम्। गा॒ैड॒भृ॒त्यपु॑रम्॥
Siddhanta Kaumudi¶
पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि तथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ॥
Padamanjari¶
पूर्वग्रहणं किमिति । अरिष्टगौडयोरिति वक्तव्यम् इति प्रश्नः । इहापि यथा स्यादिति । पूर्वग्रहणे हि सति वहुव्रीहिर्लभ्यते - अरिष्टगौहौ पूर्वौ यस्मिन्समास इति । तेनारिष्टाश्रितपुरम्, गौडभृत्यपुरमित्यत्रापि पूर्वपदमान्तोदातं भवति । असति तु पूर्वग्रहणे श्रितः भृत्यशब्दाभ्यां व्यवहितत्वादपूर्वपदत्वादरिष्टगौडयोस्तावन्न स्यात् समुदाययोश्च सूत्रेऽनुपातत्वात् ॥
Nyaas¶
अरिष्टपुरम्? गौडपुरम् इति। एतावपि षष्ठीसमासावेव। पूर्वग्रहणं किम् इति। एवं मन्यते -अरिष्टगौडयोरिति वक्तव्यम्, एवमप्युच्यमानेऽरिष्टगोडयोः पुरशब्द उत्तरपदेऽन्तोदात्ततवं सिध्यत्येवेति। इहापि यथा स्यात् इति। यदि पूर्वग्रहणं न क्रियेत्? तदारिष्टं श्रितस्तस्य पुरमरिष्टश्रितपुरमिति। गौडानां भृत्या गौडशब्दौ। पूर्वग्रहणे तु सति बहुव्रीहिर्लभ्यते -अरिष्टगौडौ पूर्वौ यस्मिन्? समासे सोऽरिष्टगौडपूर्व इति। तेनारिष्टश्रितपुरम्, गौडभृत्यपुरमित्यत्रापि यदुत्तरपदं तस्याप्यन्तोदात्तत्वं भवत्येव। अत्रापि ह्ररिष्टशब्दो गौडशब्दश्च पूर्वः। पूर्वश्चायमवयववचनः॥
Prakriyasarvasvam¶
एतद्द्वयपूर्वे समासे पुरशब्दे परे प्राक्पदमन्तोदात्तम् । अरिष्टपुरम् गौडपुरम् । पूर्वग्रहाद् अरिष्टश्रितपुरम् । गौडभृत्यपुरमप्यत्रापि ।