62113: संज्ञौपम्ययोश्च¶
Padacheda: संज्ञा-औपम्ययोः | S | 7 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास the second member कर्ण has acute accent (उदात्त) on the first syllable when the compound denotes a Name or Resemblance.
Vasu English Translation¶
In a बहुव्रीहि समास the second member कर्ण has acute accent (उदात्त) on the first syllable when the compound denotes a Name or Resemblance. Thus कुञ्चिक꣡र्णः, मणिक꣡र्णः, are Names: गोक꣡र्णः, खरक꣡र्णः denote resemblance i.e. “persons having ears like a cow or an ass”.
Kashika¶
संज्ञायामौपम्ये च यो बहुव्रीहिर्वर्तते, तत्र कर्णशब्द उत्तरपदमाद्युदात्तं भवति। संज्ञायाम् — कु॒ञ्चि॒कर्णः॑। म॒ण्िाकर्णः॑। औपम्ये — गो॒कर्णः॑। ख॒र॒कर्णः॑॥
Siddhanta Kaumudi¶
कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ॥
Nyaas¶
कुञ्चि कर्णः, मणिकर्णः इति। कुचि शब्दे तारे (धातुपाठः-184) [कुच -धातुपाठः-] अण रण वण भण मण (धातुपाठः-444।448) इति मणिर्भ्वादौ पठते आभ्याम्? सर्वधातुभ्य इन् (पं।उ।4।117) इगुपधात्? कित् (पंउ।4।119) इतीन्प्रत्ययः, किच्च। तेन कुञ्चि। तेन कुञ्चिमणिशब्दावाद्युदात्तौ। गोकर्णः इति। गौरिव कर्णोऽस्येति विग्रहः। गोशब्द उक्तस्वरः। खरकर्णः इति। खरस्येत्यादि विग्रहः। खमस्यास्तीति `रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानम्? (वा।577) इति रप्रत्ययः, तेन खरशब्दोऽन्तोदात्तः॥
Prakriyasarvasvam¶
अनयोः स्थिते बहुव्रीहौ कर्णः परपदमाद्युदात्तं स्यात् । शङ्कुकर्णः । गोकर्णः ।