62106: बहुव्रीहौ विश्वं संज्ञायाम्

Padacheda: बहुव्रीहौ | S | 7 | 1 |

विश्वम् | S | 1 | 1 |

संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The word विश्व has acute accent (उदात्त) on the final, being first member in a बहुव्रीहि समास , when it is a Name.

Vasu English Translation

The word विश्व has acute accent (उदात्त) on the final, being first member in a बहुव्रीहि समास , when it is a Name. Thus विश्व꣡देवः, विश्व꣡यशाः, विश्व꣡महान् ॥ This is an exception to (6.2.1) by which the first member in a Bahuvrihi would have retained its original accent. Why do we say in a Bahuvrihi compound? Observe विश्वे च देवाः = विश्वदेवाः ॥ Why do we say ‘when a name’? Observe विश्वेदेवा अस्य = विश्वदेवः ॥ But विश्वामित्रः꣡ and विश्वाजिनः꣡ have acute on the final, as they are governed by the subsequent rule (6.2.165) which supersedes this. The word Bahuvrihi governs the succeeding sutras upto (6.2.120) inclusive. The word विश्व is originally acute on the first, as it is formed by the affix क्वन् added to विश् ॥ This rule has unrestricted scope in विश्वदेवः, विश्वयशाः and rule (6.2.165) has unrestricted scope in कुलमित्रः, कुलजिनः ॥ But in विश्वामित्रः and विश्वाजिनः there is a conflict, as both these rules would apply, therefore by the maxim of vipratishedha, (6.2.165) supersedes this.

Bhashya

बहुव्रीहौ विश्वं संज्ञायाम् (2766) (6359 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - बहुव्रीहौ विश्वस्यान्तोदात्तात्संज्ञायां मित्राजिनयोरन्तः - बहुव्रीहौ विश्वस्यान्तोदात्तात्संज्ञायां मित्राजिनयोरन्त इत्येतद्भवति विप्रतिषेधेन । बहुव्रीहौ विश्वं संज्ञायाम् इत्यस्यावकाशः - विश्वदेवः, विश्वयशाः । मित्राजिनयोरन्त इत्यस्यावकाशः - कुलमित्रम्, कुलाजिनम् । इहोभयं प्राप्नोति - विश्वमित्रः, विश्वाजिनः । मित्राजिनयोरन्त इत्येतद्भवति विप्रतिषेधेन ॥ (उपसंख्यानभाष्यम्) अन्तोदात्तप्रकरणे मरुद्वृधादीनां छन्दस्युपसंख्यानं कर्तव्यम् । मरुद्वृधः सुवया उपतस्थे ॥

Kashika

बहुब्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषयेऽन्तोदात्तं भवति। वि॒श्वदे॑वः। वि॒श्वय॑शाः। वि॒श्वम॑हान्। पूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्। बहुब्रीहाविति किम्? विश्वे च ते देवा वि॒श्व॒दे॒वाः। संज्ञायामिति किम्? विश्वे देवा अस्य विश्व॑देवः। वि॒श्व॒मि॒त्रः, वि॒श्वा॒जि॒न इत्यत्र संज्ञायां मित्राजिनयोः (६.२.१६५) इत्येतद् भवति परत्वात्। बहुब्रीहावित्येतदधिक्रियते प्रागव्ययीभावसंज्ञानात् (६.२.१२१)॥

Siddhanta Kaumudi

बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः (वि॒श्वक॑र्मा वि॒श्वदे॑वः) । आविश्वदेवं सत्पतिम् (आवि॒श्वदे॑वं॒ सत्प॑तिम्) । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः (विश्व॑देवः) । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥

Nyaas

पूर्वपदकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम् इति। बहुव्रीहौ प्रकृत्या (6.2.1) । इत्यादिना विओ च ते देवा विआवेवा इति विशेषणसमासः, तत्पुरुषोऽयम्। अत्र समासान्तोदात्तत्वमेव भवति। विआदेवः इति। अत्र पूर्वपदप्रकृतिस्परत्वेनाद्यदात्तत्वमेव भवति। विआशब्दसय क्वन्प्रत्ययन्तस्य नित्स्वरेणाद्युदात्तत्वम्। विआआमित्रः इति। बहुवरीहौ विआं संज्ञायाम् (6.2.106) इति पूर्वपदान्तोदात्तस्यावकाशः -विआदेवः, विआयशा इति। संज्ञायां मित्राजिनयोः (6.2.165) इत्युत्तरपदान्तोदात्तत्वस्यावकाशः -कुलमित्त्रम्, कुलाजिनमिति; विआआमित्त्रः, विआआजिन इत्यत्रोभयं प्राप्नोति, संज्ञायां मित्राजिनयोः (6.2.165) इत्येतत्तु भवति विप्रतिषेधेन॥