62120: वीरवीर्यौ च

Padacheda: वीर-वीर्यौ | S | 1 | 2 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In a बहुव्रीहि समास in the छन्दस् (Vedas) after सु the words वीर and वीर्य have acute accent (उदात्त) on the first syllable.

Vasu English Translation

In a बहुव्रीहि समास in the छन्दस् (Vedas) after सु the words वीर and वीर्य have acute accent (उदात्त) on the first syllable. Thus सु꣡वीरेण ते, सुवीर॑स्ते जनि॒ता (Rig IV. 17.4) सुवीर्यं॒स्वश्व्य॑स् (Rig VIII.1.36) where सु꣡वीर्य has acute on वी ॥ So also सु꣡वीर्यस्य पतयः स्याम ॥ The word वीर्य is formed by यत् affix and by (6.1.213), it would have acute on the first. But its enumeration in this sutra shows that Rule (6.1.213) does not apply to वीर्य ॥ The word वीर्य॑ has svarita on the final in the Chhandas, by Phit IV. 9. In the secular literature it is adyudatta.

Kashika

वीर वीर्य इत्येतौ च शब्दौ सोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषय आद्युदात्तौ भवतः। सु॒वीर॑स्ते (ऋ० ४.१७.४)। सु॒वीर्य॑स्य॒ पत॑यः स्याम (तै०सं० १.७.१३.४)। वीर्यमिति यत्प्रत्ययान्तं तत्र यतोऽनावः (६.१.२१३) इत्याद्युदात्तत्वं न भवतीत्येतदेव वीर्यग्रहणं ज्ञापकम्। तत्र हि सति पूर्व्ेणैव सिद्धं स्यात्॥

Siddhanta Kaumudi

सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः (SK3701) इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥

Padamanjari

वीर विक्रान्तौ चुरादिः, ततः पचाद्यचि - वीरः, अचो यत् - वीर्यंम्, वीरेषु वा साधुरिति पारग्घितीयौ यत् । तत्रेत्यादि । कथं पुनरेतज्ज्ञापकम् इत्याह - तत्र हि सतीति । फिषितु बिल्वभक्ष्यवीर्याणि च्छन्दसि इति च्छन्दस्यन्तस्वरितत्वं भाषायां वाद्यौदातत्वं शब्दस्य स्थितम् ॥

Nyaas

स्फायितञ्चि (द।उ।8।31) इत्यादिनाऽजे रकिप्रत्यये वीरशब्दो व्युत्पाद्यते। तेनान्तोदात्तः। अथ वा -वीर विक्रान्तौ (धातुपाठः-1903) इत्यस्य पचाद्यचि व्युत्पादितत्वात्। वीर्यमिति यत्प्रत्ययान्तम् इति। वीरे साधुः, तत्र साधुः (4.4.98) इति प्राग्घितीयो यत्। अथ वा -वीर इत्यसमाच्चौरादिकादस्मादेव निपातनात् अचो यत् (3.1.97) , तेन वीर्यमिति यत्प्रत्ययान्तम्। एवं सति यतोऽनावः (6.1.213) इत्याद्युदात्तत्वं प्राप्नोति? इत्यत आह -तत्र इत्यादि। कथं पुनर्वीर्यग्रहणं ज्ञापकम्? इत्याह -तत्र हि इत्यादि। यद्याद्युदात्तं स्यात्? तदा आद्युदात्तं द्व्यच् छन्दसि (6.2.119) इत्यनेनैव सिद्धं स्यात्। ततश्चेह वीर्यग्रहणं न कुर्यात्, कृतञ्च; तस्मात्? तदेव ज्ञापयति -वीर्यशब्दस्य यदन्तस्याप्याद्युदात्तत्वं न भवतीति। तस्मिन्नसति तित्स्वरितम् (6.1.185) इत्यन्तस्वरितमेव भवति॥

Prakriyasarvasvam

वेदे सोः परावाद्युदात्तौ स्तः। शतहिमाः सुवीराः। सुवीर्यस्य पतयः स्याम। यदन्नत्वादेव सिद्धेऽप्यत्राद्युदात्तत्वविधेः ‘यतोऽनावः’ (६–२–२१३) इत्येतद् वीर्ये नेति ज्ञाप्यते। मयीन्द्रियं वीर्यम्।