62103: दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु

Padacheda: दिक्शब्दाः | S | 1 | 3 |

ग्राम-जन-पद-आख्यान-चानराटेषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

Words expressing (in space of time) have acute accent (उदात्त) on the last syllable when followed by a word denoting a village or a country or a narrative before the word चानराट।

Vasu English Translation

Words expressing (in space of time) have acute accent (उदात्त) on the last syllable when followed by a word denoting a village or a country or a narrative before the word चानराट। Thus पूर्वे꣡षुकामशामी, अपरे꣡षुकामशामी or पूर्वे॑ and अपरे॑ (8.2.6). The compounding takes place by (2.1.50). पूर्व꣡कृष्णमृत्तिका, अपर꣡कृष्णमृत्तिका ॥ Country name-पूर्व꣡पञ्चालाः अपर꣡पञ्चालाः ॥ These are Karmadharaya compounds (2.1.58). Story name:–पूर्वा॑धिरामम् or पूर्वा꣡, पूर्व꣡यायातम्, पूर्वा꣡धिरामकम्, अपर꣡यायातम् ॥ So also पूर्व꣡चानराटम्, अपर꣡चानराटम् ॥ The employment of the term शब्द in the aphorism shows that time-denoting दिक् words as in पूर्वयायातं should also be included. The word आधिरामम् is derived from अधिराममधिकृत्य कृतो ग्रन्थः (4.3.87).

Kashika

दिक्शब्दाः पूर्वपदान्यन्तोदात्तानि भवन्ति ग्रामजनपदाख्यानवाचिषूत्तरपदेषु, चानराटशब्दे च। पू॒र्वेषु॑कामशमी, पू॒र्वे॑षुकामशमी। अ॒प॒रेषु॑कामशमी, अ॒प॒रे॑षुकामशमी। पू॒र्वकृ॑ष्णमृत्तिका। अ॒प॒रकृ॑ष्णमृत्तिका। जनपद — पू॒र्वप॑ञ्चालाः। अ॒प॒रप॑ञ्चालाः। आख्यान — पू॒र्वाधि॑रामम्, पू॒र्वा॑धिरामम्। पू॒र्वया॑यातम्। अ॒प॒रया॑यातम्। अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम्। तथा यायातम्। चानराट — पू॒र्वचा॑नराटम्। अ॒प॒रचा॑नराटम्। शब्दग्रहणं कालवाचिनोऽपि दिक्शब्दस्य परिग्रहार्थम्॥

Siddhanta Kaumudi

दिक्शब्दा अन्तोदात्त भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । आख्याने । पूर्वयातम् । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ॥

Padamanjari

चानराटे स्वरुपग्रहणम्, इतरेषु अर्थग्रहणम्। पूर्वेषुकामशमीति । दिक्संख्ये संज्ञायाम् इति समासः । पूर्वपञ्चाला इति । समुदाये हि वृत्तोः शब्दा अवयवेष्वपि वर्तन्ते तैति पञ्चालैकदेशे पञ्चालशब्दः, ततः पूर्वापरप्रथम इत्यादिना कर्मधारयः । शब्दग्रहणमित्यादि । दिशि दृष्टः शब्दो दिक्शब्द इत्युतरपदेलोपो समासः तेन कालवाचिनोऽपि ग्रहणात् पूर्वयायतमित्यादावपि भवति ॥

Nyaas

पूर्वेषुकामशमी इति। दिक्संख्ये संज्ञायाम् (2.1.50) इति समासः। एवं अपरेषुकामशमी इत्यत्रापि। पूर्वकृष्णमृत्तिका इति। पूर्वा चासौ कृष्ममृत्तिका चेति पूर्वापर (2.1.57) इत्यादिना समासः। एवं अपरकृष्णमृत्तिका इत्येवमादावपि। अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम्। अधिकृत्य कृते ग्रन्थे (4.3.87) इत्यण्। अथ यता -चानराटे रूपग्रहणं तथा ग्रामादिष्वपि कस्मान्न भवति? अर्थप्रधानत्वान्निर्देशस्य। शब्दप्रधाने हि निर्देशस्य स्वरूपग्रहणं भवतीत्युक्तम्। इह चानराट एव शब्दप्रधानो निर्देश, ग्रामादिष्वर्थप्रधान एव। अथ शब्दग्रहणं किमर्थम्, न दिगित्येवोच्यते? इत्यत आह -शब्दग्रहणम् इत्यादि। असति हि शब्दग्रहणे पूर्वाधिरामम्, पूर्वयायातमित्यत्र न स्यात्। कस्मात्िह कालवाची पूर्वशब्दः। दिग्वाचिशब्दग्रहणे सति दिक्शब्दमात्रग्रहणं भवति। तस्मात्? कालवाचिनोऽपि दिक्शब्दस्य परिग्रहो यथा स्यादित्येवमर्थं शब्दग्रहणम्॥

Prakriyasarvasvam

एतत्त्रयार्थेषु चानराटशब्दे च परे दिक्शब्दा अन्तोदात्ताः स्युः । पूर्वकृष्ण- मृत्तिका । पूर्वपाञ्चालाः । पूर्वयायातमार्ख्यानम् । पूर्वचानराटम् ।