62104: आचार्योपसर्जनश्चान्तेवासिनि¶
Padacheda: आचार्योपसर्जनः | S | 1 | 1 | 7
च | S | 0 | 0 |
अन्तेवासिनि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The direction denoting words have acute accent (उदात्त) on the final, before the names of scholars when such names derived from those of their teachers.
Vasu English Translation¶
The direction denoting words have acute accent (उदात्त) on the final, before the names of scholars when such names derived from those of their teachers. Thus पूर्व꣡पाणिनीयाः, अपर꣡पाणिनीयाः, पूर्व꣡काशकृत्स्नाः, अपर꣡काशकृत्स्नाः ॥ Compare (6.2.36) Why do we say ‘when derived from the names of their Teachers’? Observe पूर्वशिष्याः ॥ Why do we say ‘Scholar-names’? Observe पूर्वपाणिनीयं शास्त्रम् ॥ (पाणिनीयं शास्त्रं पूर्वं चिरन्तनम्) ॥
Kashika¶
आचार्योपसर्जनान्तेवासिवाचिन्युत्तरपदे दिक्शब्दा अन्तोदात्ता भवन्ति। पू॒र्वपा॑णिनीयाः। अ॒प॒रपा॑णिनीयाः। पू॒र्वका॑शकृत्स्नाः। अ॒प॒रका॑शकृत्स्नाः। आचार्योपसर्जन इति किम्? पू॒र्व॒श्िाष्याः। अन्तेवासिनीति किम्? पू॒र्व॒पा॒ण्िानी॒यं शास्त्रम्॥
Siddhanta Kaumudi¶
आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ॥
Nyaas¶
आचार्योपसर्जनश्च इति। सुपां सुर्भवतीति सप्तम्येकवचनस्य स्थाने प्रथमैकवचनम्, एतच्चान्तेवासिविशेषणम्। आचार्योपसर्जनान्तेवाचिन्युत्तरपदे इति। आचार्य उपसर्जनम्प्रधानं यस्य अन्तेवासिनः स तथोक्तः। आचार्योपसर्जनश्चान्तेवासी चाचार्योपसर्जनान्तेवासी, तं वक्तुं शीलं यस्योत्तरपदस्य तदाचार्योपसर्जनान्तेवासिवाचि। पूर्वपाणिनीयाः इति। पूर्वापर (2.1.57) इत्यादिना समासः पाणिनेराचार्यस्यान्तेवासिनः पाणिनीयाः, अत्रान्तेवासिनः प्राधान्येनोच्यन्ते प्रत्ययान्तेन; आचार्यस्तु तद्विशेषणत्वादुपसर्जनभावेनेत्याचर्योपसर्जनान्तेवासिवाच्युत्तरपदं भवति। पूर्वकाशकृत्स्नाः इति। काशकृत्स्नस्येमे काशकृत्स्नाः, औत्सर्गिकोऽण्।पूर्वपाणिनीयं शास्त्रम् इति। पाणिना प्रोक्तं पाणिनीयम्, अत्राचार्योपसर्जनशास्त्रवाच्युत्तरपदम्, न त्वाचार्योपसर्जनान्तेवासिवाचि॥
Prakriyasarvasvam¶
सप्तम्यर्थे प्रथमेति हरः । आचार्योपसर्जने शिष्ये परे दिक्छब्दोऽन्तोदात्तः स्यात् । पूर्वपाणिनीयाः ।