62117: सोर्मनसी अलोमोषसी

Padacheda: सोः | S | 5 | 1 |

मनसी | S | 1 | 2 |

अ-लोमोषसी | S | 1 | 2 |

Sutrartha


Vasu English Summary

After the adjective सु in a बहुव्रीहि समास a stem ending in मन् and अस् with the exception of लोमन् and उषस् has acute accent (उदात्त) on the first syllable.

Vasu English Translation

After the adjective सु in a बहुव्रीहि समास a stem ending in मन् and अस् with the exception of लोमन् and उषस् has acute accent (उदात्त) on the first syllable. Thus सुक꣡र्म्मन्, सुध꣡र्मन्, सुप्र꣡थिमन्, सुप꣡यस्, सुय꣡शस्, सुस्रो꣡तम् so also सुस्र꣡त् and सुध्व꣡त् from the root स्रंस् and ध्वंस् with the affix क्विप् ॥ The final स् is changed to द् by (8.2.72). But this substitution is considered asiddha for the purposes of accent, and these words are taken as if still ending in अस् ॥ Why do we say ‘after सु?’ Observe कृतकर्मन्, कृतयशस् ॥ Why do we say ‘ending in मन् and अस्?’ Observe सुराजन् and सुतक्षन् formed by the affix कनिन् (Unadi I.156), and the accent is on श and त, but with सु, the accent is thrown on the final by (6.2.172). Why do we say with the exception of लोमन and उषत्? Observe सुलोम꣡न and सूष꣡स् (6.2.172). The following maxim applies here: अनिमस्मन् ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति “whenever अम्, or इन् or अस् or मन्, when they are employed in Grammar, denote by (1.1.72), something that ends with अन् or इन् or अस् or मन्, there (अन्, इन्, अस् and मन्) represent these combinations of letters, both in so far as they possess and also in so far as they are void of, a meaning”. Therefore the मन् and अस् void of meaning are also included here. Thus धर्मन् is formed by मन् (Unadi I.140), but कर्मन् is formed by मनिन् (Unadi. IV. 145), and प्रथिमन् is formed by इमनिच् affix (5.1.122) in which मन् is only a part. Similarly यशस् is formed by असुन् (Unadi IV. 191), and so also स्रोतस् (Unadi IV. 202); but in सुध्व꣡स् (सुध्वम् from ध्वंस् with the affix क्विप् (3.2.76)) the rule applies also, though अस् is here part of the root. But when the samasanta affix कप् is added (5.4.154), then the accent falls on the syllable immediately preceding कप्, for there the subsequent Rule (6.2.173) supersedes the present rule: thus सुकर्म꣡कः, सुस्रोत꣡स्कः ॥

Bhashya

सोर्मनसी अलोमोषसी( 2777) (6361 विप्रतिषेधवार्तिकम् ॥ 1 ॥) - सोर्मनसोः कपि - सोर्मनसी अलोमोषसी इत्येतस्मात् कपि पूर्वम् (173) इत्येतद्भवति विप्रतिषेधेन । सोर्मनसी अलोमोषसी इत्येतस्यावकाशः - सुशर्माणमधिनावं रुहेम, सुशर्मासि सुप्रतिष्ठानः, सुस्रोताः, सुपयाः, सुवर्चाः । कपि पूर्वम् इत्यस्यावकाशः - अयवकः, अतिलकः । इहोभयं प्राप्नोति - सुशर्मकः, सुस्रोतस्कः । कपि पूर्वम् इत्येतद्भवति विप्रतिषेधेन ॥

Kashika

सोरुत्तरं मनन्तमसन्तं च बहुव्रीहौ समास आद्युदात्तं भवति लोमोषसी वर्जयित्वा। सु॒कर्मा॑। सु॒धर्मा॑। सु॒प्रथि॑मा। असन्तम् — सु॒पयाः॑। सु॒यशाः॑. सु॒स्रोताः॑। सु॒स्रत्। सु॒ध्वत्। सोरिति किम्? कृ॒तक॑र्मा। कृ॒तय॑शाः। मनसी इति किम् ? सु॒रा॒जा। सु॒त॒क्षा। अलोमोषसी इति किम् ? सु॒लो॒मा। सू॒षाः। अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च० इत्यनर्थकयोरपि मनसोरिह ग्रहणम्। नञ्सुभ्याम् (६.२.१७२) इत्यस्यायमपवादः। कपि तु परत्वात् कपि पूर्वम् (६.२.१७३) इत्येतद् भवति। सु॒क॒र्मकः॑। सु॒स्रो॒तस्कः॑॥

Siddhanta Kaumudi

सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । नञ्सुभ्यम् (SK3906) त्यिस्यापवादः । सुकर्माणः सुयुजः (सु॒कर्मा॑णः सु॒युजः॑) । स नो वक्षदनिमानः सुवह्मा (स नो॑ वक्षदनिमा॒नः सुब्रह्मा॑) । शिवा पशुभ्यः सुमनाः सुवर्चाः (शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑) । सुपेशससकरति (सु॒पेश॑सस्करति) । सोः किम् । कृतकर्मा मनसी किम् । सुराजा (सु॒राजा॑) । अलोमोषसी किम् सुलोमा । सूषाः कपि तु परत्वा कपि पूर्वम् (SK3907) इति भवति । सुकर्मकः सुस्रोतस्यः ॥

Padamanjari

मÄश्च मनसी । सुप्रथिमेति । पृथोर्भावः, पृथ्वादिब्य इमनिच्, र ऋतो हलादेर्लघोः इति रादेशः । पीयत इति पचः पिबतेरिञ्च इत्यसुन् । अशोर्देअवने युट् च इत्यसुन् , युडागमः , यशः । स्त्रुरिभ्यां तुट् स्रोतः । सुस्रत्, सुध्वद् इति । स्रंसुध्वंसुभ्यां क्विप्, वसुस्रंसु इत्यादिना दत्वम्, तस्यासिद्धत्वादत्रासन्तत्वम् । राज - तक्षशब्दौ कनिन्युवृशषि इत्यादिना कनिप्रत्ययान्तौ । लुनातेर्मनिन - लोम, उष दाहे, मिथुनेऽसिः इति वर्तमाने उषः कित् । अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन् - इत्येतानि गृह्यन्ते येषु सूत्रेषु तानि तथोक्तानि, तत्र तदन्तविधिं प्रयोजयन्तीति वचनादनर्थकानामप्यनिन्प्रभृतीनां ग्रहणं भवतीत्युक्तं भवति । तेन सुप्रथिमा, सुस्रत्, सुध्वदित्यादिकमप्यदाहरणमुपपद्यत इति भावः । कपि परत्वादिति । सोर्मनसी इत्यस्वावकाशः - सुकमा, सुशर्मा, कपि पूर्वम् इत्यस्यावकाशः - अयवकः, सुयवक इति एकस्थले विप्रतिषेधः ॥

Nyaas

सुकर्मा इति। कृदृचरिभ्यो मनिन् (द।उ।6।73) [मनिन् इत्येव द।उ।पाठः; सर्वधातुभ्यो मनिन् इति।पं।उ।पाठ -4।144] सर्वनामस्थाने च (6.4.8) इति दीर्घः। सुप्रथिमा इति। पृथोर्भावः प्रथिमा, पृथ्वादिभ्यः (5.1.121) इतीमनिच्। र ऋतो हलादेर्लघोः (6.4.161) इति ऋकारस्य रेफः। सुपयाः इति। असुन् (द।उ।9।49) इति वर्तमाने पिबतेरिच्च (द।उ।9।50) [पिबतेरि च -द।उ।] इति पयःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। अत्वसन्तस्य (6.4.14) इति दीर्घः। सुयशाः इति। अश भोजने (धातुपाठः-1523) [अशू भोजने -मुद्रितः पाठः] अशर्देवने युट्? च (द।उ।9।24;पं।उ।3।65) [पंचपारिवशपाद्युणाद्योरुभयत्रापि यूट्? च इति नास्ति] इत्यसुन्येव यशःशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः, पूर्ववद्दीर्घः। सुरुआओताः इति। सर्वधातुब्योऽसुन्? (पं।उ।4।188) इति वर्तमाने `रुआऊरिभ्यां तुट्? च (द।उ।9।62) [रुआऊरीभ्यां -पं।उ।द।उ।] इति। सुरुआत्? सुध्वत् इति। रुआन्सुध्वनसुभ्यां क्विप्? वसुरुआंसु (8.2.72) इत्यादिना दत्त्वम्, तस्यासिद्धत्वादवासन्तत्वम्। सुराजा, सुतक्षा इति। राजन्, तक्षन्निति कनिन्नन्तः। सुलोमा इति। लुनातेर्मनिनि लोमेति। सुधा इति। उष दाहे (दा।पा।696) मिथुनेऽसिः (पं।उ।4।222) इति वर्तमाने उषः कित् (पं।उ।4।234) इति कित्। अथ कथं सुप्रथिमेत्यतर सुरुआओताः, सुरुआत्, सुध्वदित्येतेषु चोत्तरपदमाद्युदात्तं भवति, यावतार्थवतोर्मनसोरर्थवद्ग्रहणपरिभाषयेह ग्रहणम्, न चेह तावर्थवन्तौ? इत्यत आह -अनिनस्मन् इत्यादि। अनिनस्मन्? ग्रहणान्यनर्थवता चानर्थकेन च तदन्तविधि प्रयोजयन्ति (व्या।पा।129) इति ब्राउवता वाक्यकारेणानिनस्मन्प्रभृतीनामनर्थकानामपि ग्रहणं भवतीत्युक्तं भवति। अन्यथाप्येतत्? तदन्तविधेः प्रदर्शनार्थं स्यात्। कपि तु परत्वात् इत्यादि। सोर्मनसी (6.2.116) इति सूत्रस्यावकाशः -सुकर्माः, सुवयाः, कपि पूर्वम् (6.2.173) इत्यस्यावकाशः -अयवकः, सुयवक इति, शेषाद्विभाषा (5.4.154) इति कप्। इहोभयं प्राप्नोति -सुकर्मकः, सुरुआओतस्क इति, कपि पूर्वम् (6.2.173) इत्येतद्भवति विप्रतिषेधेन॥

Prakriyasarvasvam

आभ्यामन्ये सोः परे मन्नन्तासन्ता आद्युदात्ताः स्युः। सुशर्मा। सुयशा ! सुस्रत् सुध्वत्। क्विपि पदत्वे॥ ‘वसुस्रंसु—’ (८–२–७२) इति दत्वम्। तस्यासिद्धत्वादसन्तौ। लोमोषसोस्तु सुलोमा, सूषाः।