62108: क्षेपे

Padacheda: क्षेपे | S | 7 | 1 |

Sutrartha


Vasu English Summary

A word before 1. उदर 2. अश्व and 3. इषु in a बहुव्रीहि समास gets the acute accent (उदात्त) on the final, when reproach is meant.

Vasu English Translation

A word before 1. उदर 2. अश्व and 3. इषु in a बहुव्रीहि समास gets the acute accent (उदात्त) on the final, when reproach is meant. Thus कुण्डो꣡दरः, घटो꣡दरः, कटुका꣡श्वः, स्यन्दिता꣡श्वः, अनिघाते꣡षुः, चलाचले꣡षुः ॥ The word कु꣡ण्ड has acute on the first as it is a Neuter name (Phit 11.3), and it would have retained this accent in the Bahuvrihi by (6.2.1). but for this sutra. The word घट is formed by अच् (3.1.134) and has acute on the final, and so it would have retained this accent by (6.2.1), even with out this sutra. The word क꣡टुक being formed by कन् (5.3.75) has acute on the first. स्यन्दित is formed by the Nishita affix क्त ॥ The word अनिघात being an avyayibhava, the first member would have retained its original accent. In this and the last sutra, all the acutes may optionally be changed into svarita by (8.2.6). But अनुदरः꣡ and सूदरः꣡ have acute on the final by (6.2.172), which being a subsequent sutra, supersedes this present, so far as अन् and सु are concerned.

Bhashya

क्षेपे (2768) (6360 विप्रतिषेधोपसंख्यानवार्तिकम् ॥ 1 ॥) - उदरादिभ्यो नञ्ञ्सुभ्याम् - उदराश्वेषुषु क्षेपे इत्येतस्मात् नञ्ञ्सुभ्याम् (172) इत्येतद्भवति विप्रतिषेधेन । उदराश्वेषुषु क्षेपे इत्यस्यावकाशः - कुण्डोदरः, घटोदरः । नञ्ञ्सुभ्यामित्यस्यावकाशः - अयवः, अतिलः, अमाषः, सुयवः, सुतिलः, सुमाषः । इहोभयं प्राप्नोति - अनुदरः, सूदरः । नञ्ञ्सुभ्यामित्येतद्भवति विप्रतिषेधेन ॥

Kashika

क्षेपे गम्यमान उदरादिषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति। कु॒ण्डोद॑रः। घ॒टोद॑रः। क॒टु॒काश्वः॑। स्प॒न्दि॒ताश्वः॑। अ॒नि॒घा॒तेषुः॑। च॒ला॒च॒लेषुः॑। अ॒नु॒द॒रः, सू॒द॒र इत्यत्र नञ्सुभ्याम् (६.२.१७२) इत्येतद् भवति विप्रतिषेधेन॥

Siddhanta Kaumudi

उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् (SK3906) इति भवति विप्रतिषेधेन ॥

Padamanjari

कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः । घटशब्दः पचाद्यजन्तः । महेषुवदस्योपन्यासः । कटुअशब्दात्संज्ञायां कन् । स्पन्दितशब्दो निष्ठान्तः । निहन्यतेऽनेनेति निघातः ततोऽन्योऽनिघातः , अतोऽव्ययपूर्वपदप्रकृतिस्वरत्वम्, चरिचलिपतिवदिनां वा द्वित्वमच्याक्चाभ्यासस्य - चलाचलः । अनुदर इत्यादि । अस्यावकाशः - कुण्डोदर इत्यादि, नञ्सुभ्याम् इत्यस्यावकः शः - अयशः, सुयशः, एवं स्थिते विप्रतिषेधः ॥