62112: कर्णो वर्णलक्षणात्

Padacheda: कर्णः | S | 1 | 1 |

वर्णलक्षणात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

In a बहुव्रीहि समास the word कर्ण standing as second member has acute accent (उदात्त) on the first syllable when it is preceded by a word denoting colour or mark.

Vasu English Translation

In a बहुव्रीहि समास the word कर्ण standing as second member has acute accent (उदात्त) on the first syllable when it is preceded by a word denoting colour or mark. Thus with color we have शुक्लक꣡र्णः, कृष्णक꣡र्ण, and with mark-name, we have दात्राक꣡र्णः शङ्कूक꣡र्णः, the lengthening of दात्र and शंकु takes place by (6.3.115). The marks of ‘scythe’, ‘arrow’ &c, are made on the ears of cattle to mark and distinguish them. It is such a ‘mark’ which is meant here, therefore, the rule does not apply to स्थूलकर्णः ॥ Why do we say कर्ण? Observe श्वेतपादः, कूटशृङ्गः here श्वेत being formed by अच् (2.1.134) is end-acute, and कूट being formed by क (3.1.135) is also end-acute and these accents are retained in the compound. Why do we say “when preceded by a word denoting color or mark”? Observe शोभनपादः where शोभन being formed by युच् (2.2.149) is end-acute and this accent is retained (6.2.1).

Kashika

बहुब्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदमाद्युदात्तं भवति। शु॒क्ल॒कर्णः॑। कृ॒ष्ण॒कर्णः॑। लक्षणात् — दा॒त्रा॒कर्णः॑। श॒ङ्कू॒कर्णः॑। लक्षणस्य०(६.३.११५) इति दीर्घत्वम्। पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तदिह लक्षणं गृह्यते, तेन स्थू॒लक॑र्ण इत्यत्र न भवति। कर्ण इति किम्? श्वे॒तपा॑दः। कू॒टश्ृ॑ङ्गः। वर्णलक्षणादिति किम्? शो॒भ॒नक॑र्णः॥

Siddhanta Kaumudi

वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ॥

Padamanjari

दात्राकर्णः शडकूकर्ण इति । दात्रं कर्णे यस्य, शङ्कुः कर्णे यस्यति विग्रहः, सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् इति पनिपातः । कर्णे लक्षणस्याविष्टेत्यादिना दीर्घत्वम् । लक्ष्यते येन तल्लक्षणम्, ततश्च स्थूलकर्ण इत्यत्रापि प्राप्नोति, स्थौल्योनापि हि लक्षणीयत्वादत आह - पशूनां विभागज्ञापनार्थमित्यादि । एतच्च सामान्योक्तावपि वर्णग्रहणाल्लभ्यते अन्यथा वर्णेनापि लक्ष्यमाणत्वांतदमर्थकं स्यात् । श्विता वर्णे पचाद्यच् , कूट दाहे, इगुपधलक्षणः कः, शुभ शुम्भ शोभार्थे, अनुदातेतश्च हलादेः, इति युच् - शोभनः । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति । अण्ठकरणादीनां समाहारद्वन्द्वे नपुंसकह्नस्वत्वम् ॥

Nyaas

वर्णम्=शुकलादि, लक्ष्यतेऽनेनेति लक्षणम्=चिह्नम्, वर्णञ्च लक्षणञ्च वर्णलक्षणम्। द्वन्द्व एकवद्भावः। अर्थग्रहणं चेह वर्णलक्षणयोः; अर्थप्रधानत्वान्निर्देशस्य। ओतकर्णः कृष्णकर्णः इति। ओतकृष्णशब्दावन्तोदात्तौ। तथा हि -शिता वर्णे (धातुपाठः-742) इत्यस्मात्? पचाद्यचि ओतशब्दो व्युत्पाद्यते। कृष्मशब्दोऽपि इण्सिञ्चिदीङ्युष्यविभ्यो नक् (द।उ।5।35) [इण्सिञ्दीङुष्वविभ्यो नक् -द।उ।] इत्यनुवर्तमाने कृषेर्वर्णे (द।उ।5।37) इति नक्प्रत्यये। दात्राकर्णः इति। धः कर्मणि ष्ट्रन् (3.2.181) इति वर्तमाने दाम्नीशस् (3.2.182) इत्यादिना ष्ट्रन्प्रत्ययः, तेन दात्रशब्द आद्युदात्तः। शङ्कूकर्णः इति। `कृग्रोरुच्च (द।उ।1।109) [कृग्रोरुच्च -द।उ।] इत्यनुवर्तमाने खरुशङ्कुपीयुनीलङ्गुलिगु (द।उ।1।120) इति कुप्रत्ययान्तः शङ्कुशब्दोऽन्तोदात्तो निपात्यते। `धापृवस्यज्यतिभ्यो नः (द।उ।5।39) इत्यधिकृत्य कृवृच्छसिद्रूपन्यनिस्वपिभ्यो नित् (द।उ।5।42) [कृवृजृसिद्रुपन्यनिस्वपिभ्यो नित् -द।उ] इति कर्णशब्दो व्युत्पाद्यते, भिन्नच्छिन्नद्ररुआउवस्वस्तिकस्य` (6.3.114) इति सूत्रमुपलक्षयति।ओतपादः इत्यादि। पूर्वपदस्य प्रकृतिस्वर एव भवति। अथेह कस्मान्न भवति -स्थूलकर्ण इति, स्थूलेनापि हि कर्णेन लक्ष्यत एव ततश्च लक्षणादित्येव सिद्धम्? इत्यत आह -पशूनां विभागज्ञापनार्थम् इत्यादि। तेन स्थूलकर्ण इत्यत्र न भवतीति भावः। कथं पुनः सामान्येनोक्तौ विशेषसय ग्रहणं लभ्यते? वर्णग्रहणाज्ज्ञापकात्। यदि लक्षणमात्रस्येह ग्रहणभिमतं स्याद्वर्णग्रहणं न क्रियेत, वर्णो हि लक्षणं भवत्येव। तेनापि लक्ष्यत इति कृत्वा, कृतश्च। तस्मात्? तदेव ज्ञापयति -विशिष्टमिह लक्षणं गुह्रत इति। यत्? पुनर्विशिष्टं व्याख्यानात्? तद्विज्ञेयम्। ओतपादः इति। इआता वर्णे (धातुपाठः-742) इत्यस्मातद्? पचाद्यचि ओतशब्दो व्युत्पाद्यते, तेनान्तोदात्तोऽयम्। कूटशृङ्गः इति। कूट दाहे (धातुपाठः-1890) [कूट परितापे (परिदाहे इत्यन्ये) धातुपाठः-] इति, अस्मादिगुपधलक्षणः (3.1.135) कः, तेन कूटशब्दोऽप्यन्तोदात्त एव। शोभनकर्णः इति। शुभ शुम्भ शोभार्थे (धातुपाठः-1321,1322) अस्मात्? अनुदात्तेतश्च हलादेः (3.2.149) इति युच्। चित्स्वरेण शोभनशब्दोऽप्यन्तोदात्तः। पूर्वपदप्रकृतिस्वरापदादो योगः। एवमुत्तरेऽपि योगाः प्रागव्ययीभावसंशब्दनात्। तेन सर्वत्र प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरः प्रत्युदाहार्यः॥

Prakriyasarvasvam

वर्णार्थाल्लक्षणार्थाच्च परं परःकर्ण आद्युदात्तः स्यात् । शुक्लकर्णः । दात्राकर्णः ।