62105: उत्तरपदवृद्धौ सर्वं च

Padacheda: उत्तरपदवृद्धौ | S | 7 | 1 |

सर्वम् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

Words denoting direction and the word सर्व have acute accent (उदात्त) on the final before a word which takes वृद्धि in the first syllable of the second term by सुसर्वार्धाज्जनपदस्य (7.3.12).

Vasu English Translation

Words denoting direction and the word सर्व have acute accent (उदात्त) on the final before a word which takes वृद्धि in the first syllable of the second term by सुसर्वार्धाज्जनपदस्य (7.3.12). By the sutra उत्तरपदस्य (7.3.10). (7.3.12), the Vriddhi of the Uttarapada is ordained when the Taddhita affixes having ञ्, ण् or क् follow, the Purvapada being सु, सर्व and अर्ध ॥ The word उत्तरपदवृद्धिः therefore, means that word which takes Vriddhi, under the rule relating to uttarapada, i. e. under rule (7.3.12) and (7.3.13). Thus पूर्वे꣡पाञ्चालकः, अपर꣡पांचालकः, सर्व꣡पाञ्चालकः ॥ These are formed by वुञ् affix (4.2.125). Why do we say “which takes Vriddhi in the second term?” Had the word उत्तरपद not been used, then the sutra would have run thus वृद्धौ सर्वं च, and would have applied to cases like सर्वमासः, सर्वकारकः where मासः and are कारकः are Vriddha words not by virtue of (7.3.12).

Bhashya

उत्तरपदवृद्धौ सर्वं च (2765) (उत्तरपदवृद्धिपदार्थबोधकभाष्यम्) अयुक्तोऽयं निर्देशः, न ह्युत्तरपदं नाम वृद्धिरस्ति । कथं तर्हि निर्देशः कर्तव्यः ? वृद्धिमत्युत्तरपद इति । स तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । नैवं विज्ञायते - उत्तरपदं वृद्धिः -उत्तरपदवृद्धिः, उत्तरपदवृद्धाविति । कथं तर्हि ? उत्तरपदस्य वृद्धिरस्मिन् सोऽयम् - उत्तरपदवृद्धिः, उत्तरपदवृद्धाविति ॥

Kashika

उत्तरपदस्य (७.३.१०) इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति। स॒र्वपा॑ञ्चालकः। पू॒र्वपा॑ञ्चालकः। उ॒त्त॒रपा॑ञ्चालकः। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य (महाभाष्य १.१८६) इति तदन्तविधिना जनपदलक्षणो (४.२.१२५) वुञ्प्रत्ययः। सुसर्वार्धाज्जनपदस्य (७.३.१२) दिशोऽमद्राणाम् (७.३.१३) इति चोत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति — स॒र्व॒भा॒सः, स॒र्व॒का॒र॒क इति॥

Siddhanta Kaumudi

उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ॥

Padamanjari

वृद्धौ इत्येतावतैव तद्वदुतरपदपरिग्रहे सिद्धे उतरपदग्रहणातदधिकारो लक्ष्यते ॥ एबहुव्रीहौ विश्वं संज्ञायाम् ॥ विशेः क्वनि विश्वशब्द आद्यौदातः । विश्वामित्र इत्यादि । अस्यावकाशः - विश्वदेवः , विश्वयशाः , संज्ञायां मित्राजिनयोः इत्यस्यावकाशः - कुलमित्त्रः, कुलाजिनः, विश्वामित्त्रः, विश्वाजिन इत्यत्रोभयप्रसङ्ए संज्ञायां मित्राजिनयोः इत्येतद्भवति विप्रतिषेधेन ॥

Nyaas

उत्तरपदवृद्धौ इति। उत्तरपदाधिकारविहिता वृद्धिरुत्तरपदवृद्धिः, इह तु तद्वदुत्तरपदं गृह्रते। तमेवार्थं दर्शयितुमाह -उत्तरपदस्योत्येवम् इत्यादि। कथं पुनरुत्तरपदवृदधावित्युच्यमान एषोऽर्थः शक्यते विज्ञातुम्? तदुच्यते; उत्तरपदं स्वर्यते, स्वरितेनाधिकारो लक्ष्यते, तेनोत्तरपदस्येत्यधिकृत्य या विहिता वृद्धिस्तास्यास्तावद्ग्रहणं विज्ञायते। पूर्वपदस्येदमन्तोदात्तत्वं विधीयते। पूर्वपदं च सम्बन्धिशब्दत्वादुत्तरपदमुपस्थापयति। न च वृद्धिमात्र उत्तरपदमुपपद्यत इति सामर्थ्याद्वृद्धिशब्दसाहचर्यादुत्तरपदं वृद्धिमुपलक्षयति। तेनोत्तरपदाधिकारे वृद्धिमत्युत्तरपद एष स्वरो भवतीति विज्ञायते। सर्वपाञ्चालकः इति। पूर्वकालैक (2.1.48) इत्यादिना समासः। पूर्वपाञ्चालकः इत्यादौ पूर्वापर (2.1.57) इत्यादिना। जनपदलक्षणो वृञ्प्रत्ययः इति। धन्वयोपधाद्वुञ् (4.2.121) इत्यनुवर्तमाने जनपदतदवध्योश्च (4.2.124) इत्यतो जनपदग्रहणे च अवृद्धादपि बहुवचनविषयात् (4.2.125) इत्यनेन वञ्।सुसर्वाद्र्धात् इत्यादि। सर्वपाञ्चालकः इति। सुसर्वर्धाज्जनपदस्य (7.3.12) इत्युत्तरपदवृद्धिः। पूर्वपाञ्चालकः इत्यादौ तु दिशोऽमद्राणाम् (7.3.13) इति। एषा चोत्तरपदाधिकारविहिता, तत्र चोत्तरपदस्येत्यनुवृत्तेः। किं पुनः कारणमुत्तरपदाधिकार उत्तरपदग्रहणेन लक्ष्यत इत्येवं विज्ञायते? इत्याह -अधिकार लक्षणात् इत्यादि। यद्युत्तरपदग्रहणेनोत्तरपदाधिकारो लक्ष्येत, तदा वृद्धिमात्रवत्युत्तरपदे वैतद्वुञो ह्रु वात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्रुदात्तत्वं भवतीत्युक्तं स्यात्। तथा च सर्वभासः, सर्वकारक इत्यत्रापि स्यात्। अधिकारलक्षणे तु न भवति, न ह्रुत्तरपदाधिकारविहिता वृद्धिः। भासृ दीप्तौ (धातुपाठः-624) भासत इति भासः, पचाद्यच्। करोतीति कारकः, ण्वुल्, अचो ञ्णिति (7.2.115) इति वृद्धिः, सा चोत्तरपदाधिकारविहिता न भवति॥

Prakriyasarvasvam

परपदोक्तवृद्धिमति परे सर्वशब्दो दिक्छब्दश्चान्तोदात्ताः स्युः । सर्व- पाञ्चालकः । पूर्वपाञ्चालकः ।<!सुसर्वार्धदिक्शब्देभ्य—!> (वा. ७-३-१२) इति तदन्तविधेः जनपदे वुञ् । ‘सुसर्वार्धात्—’ (७-३-१२) । दिशोऽमद्राणाम्’ (७-३-१३) इति च परपदवृद्धिः ।