62115: शृङ्गमवस्थायां च

Padacheda: शृङ्गम् | S | 1 | 1 |

अवस्थायाम् | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In a बहुव्रीहि समास denoting age (as well as a Name or a Resemblance), the second member शृङ्ग gets acute accent (उदात्त) on the first syllable.

Vasu English Translation

In a बहुव्रीहि समास denoting age (as well as a Name or a Resemblance), the second member शृङ्ग gets acute accent (उदात्त) on the first syllable. Thus उद्गतशृ꣡ङ्गः, द्व्यंगुलशृ꣡ङ्गः, अंगुलशृ꣡ङ्गः ॥ Here the word शृङ्ग denotes the particular age of the cattle at which the horns come out, or become one or two inches long. Name :-ऋष्यशृ꣡ङ्गः comparison : गोशृ꣡ङ्गः, मेषशृ꣡ङ्गः ॥ Why do we say when denoting ‘age &c’. Observe स्थूलशृङ्गः ॥

Kashika

शृङ्गशब्द उत्तरपदमवस्थायां संज्ञौपम्ययोश्च बहुव्रीहावाद्युदात्तं भवति। उ॒द्ग॒त॒शृङ्गः॑। द्व्य॒ङ्गु॒ल॒शृङ्गः॑। त्र्य॒ङ्गु॒ल॒शृङ्गः॑।अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था। संज्ञायाम् — ऋ॒ष्य॒शृङ्गः॑। औपम्ये — गो॒शृङ्गः॑। मे॒ष॒शृङ्गः॑। अवस्थादिष्विति किम्? स्थू॒लशृङ्गः॑॥

Siddhanta Kaumudi

शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ॥

Nyaas

उद्गतशृङ्गः इति। गन्गम्यद्योः (पं उ।1।122) इत्यधिकृत्य भृञः किन्नुट्? च (पं।उ।1।124) इति च शृणातेह्र्यस्वश्च (पं।उ।1।125) इति गन्प्रत्ययान्तः शृङ्गशब्दो व्युत्पाद्यते। तेनायमाद्युदात्तः। उद्गतशब्दस्थाथादि (6.2.143) स्वरेणान्तोदात्तः। द्व्यङ्गुलशृङ्गः इति। द्वे अङ्गुली प्रमाणमस्येति तद्धितार्थे द्विगुः प्रमाणे द्वयसच् (5.2.37) इत्यादिना विहितस्य मात्रच आगतस्य लोपः। प्रमाणे लो द्विगोर्नित्यम् (वा।558,559) इति तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः (5.4.86) इत्यच्? समासान्तः। तेन द्व्यङ्गुलशब्दोऽन्तोदात्तः। द्व्यङ्गुलं शृङ्गमस्येति। त्त्रङ्गुलशृङ्गः इति। पूर्वेण तुल्यम्। अत्र इत्यादि। आदिशब्देन द्व्यङ्गुलाविग्रहणम्। ऋष्यशृङ्गः इति। ऋष्यं शृङ्गंयस्येति। अध्र्यादयश्च इत्याद्युदात्त ऋष्यशब्दो निपात्यते। मेषशृङ्गः इति। मेषस्येव शृङ्गो यस्येति मिष स्वर्धायाम् (धातुपाठः-1352), अस्मात्? पचाद्यच्। तेन मेषशब्दोऽन्तोदात्तः। स्थूलशृङ्गः इति। स्थूलशब्दः प्रातिपदिकस्वरेणान्तोदात्तः॥

Prakriyasarvasvam

संज्ञौपम्ययोश्च शृङ्गं परमाद्युदात्तं स्यात्। द्व्यङ्गुलशृङ्गः। ऋश्यशृङ्गः। गोशृङ्गः।