62101: न हास्तिनफलकमार्देयाः

Padacheda: न | S | 0 | 0 |

हास्तिन-फलक-मार्देयाः | S | 1 | 3 |

Sutrartha


Vasu English Summary

But when the words 1. हास्तिन 2. फलक and 3. मार्देय precede पुर , the acute accent (उदात्त) does not fall on their final.

Vasu English Translation

But when the words 1. हास्तिन 2. फलक and 3. मार्देय precede पुर , the acute accent (उदात्त) does not fall on their final. This is an exception to (6.2.99). Thus हास्तिनपुरम्, फलकपुरम्, मार्देयपुरम् ॥ The son of मृदु is मार्देय formed by ढक्, the word belonging to Subhradi class. The उ is elided by (6.4.147).

Kashika

हास्तिन फलक मार्देय इत्येतानि पूर्वपदानि पुरशब्द उत्तरपदे नान्तोदात्तानि भवन्ति। पुरे प्राचाम् (६.२.९९) इति प्राप्तिः प्रतिषिध्यते। हा॒स्ति॒न॒पु॒रम्। फ॒ल॒क॒पु॒रम्। मा॒र्दे॒य॒पु॒रम्। मृदोरपत्यं मार्देयः। शुभ्रादित्वाद् ढक् (४.१.१२३)॥

Siddhanta Kaumudi

पुरे परे नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ॥

Padamanjari

मार्देअय इति । ढेअलोपोऽकद्र्वाः इत्युकारलोपः ॥

Prakriyasarvasvam

एते प्राग्देशजत्वेऽपि पुरेऽन्तोदात्ता न स्युः । हास्तिनपुरम् । फलकपुरम् । मार्वेयपुरम् ।