62114: कण्ठपृष्ठग्रीवाजंघं च¶
Padacheda: कण्ठ-पृष्ठ-ग्रीवा-जंघम् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
In a बहुव्रीहि समास expressing a Name or comparison the second members 1. कण्ठ 2. पृष्ठ 3. ग्रीवा and 4. जङ्घा have acute accent (उदात्त) on the first syllable.
Vasu English Translation¶
In a बहुव्रीहि समास expressing a Name or comparison the second members 1. कण्ठ 2. पृष्ठ 3. ग्रीवा and 4. जङ्घा have acute accent (उदात्त) on the first syllable. Thus Name: शितिक꣡ण्ठः, नीलक꣡ण्ठः ॥ Comparison खरक꣡ण्ठः, उष्ट्रक꣡ण्ठः ॥ Name काण्डपृ꣡ष्टः, नाकपृ꣡ष्टः ॥ Resemblance गोपृ꣡ष्ट, अजपृ꣡ष्टः ॥ Name सुग्री꣡वः, नीलग्री꣡वः, दशग्री꣡वः ॥ Resemblance गोग्रीवः, अश्वग्री꣡वः ॥ Name नाडीज꣡ङ्घः, तालज꣡ङ्घः ॥ Resemblance गोज꣡ङ्घः, अश्वज꣡ङ्घः, एणीज꣡ङ्घः ॥
The sutra कण्ठपृष्ठग्रीवाजंघ is in Neuter gender, and जंघा is shortened as it is a Samahara Dvandva. In the case of सुग्रीव, the accent would have fallen on the final व by (6.2.172), this ordains acute on ग्री ॥
Kashika¶
कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतान्युत्तरपदानि बहुव्रीहौ समासे संज्ञौपम्ययोराद्युदात्तानि भवन्ति। कण्ठः संज्ञायाम् — शि॒ति॒कण्ठाः॑ (तै०सं० ४.५.११.१)। नी॒ल॒कण्ठः॑। औपम्ये — ख॒र॒कण्ठः॑। उ॒ष्ट्॒रकण्ठः॑। पृष्ठः संज्ञायाम् — का॒ण्ड॒पृष्ठः॑। ना॒क॒पृष्ठः॑। औपम्ये — गो॒पृष्ठः॑। अ॒ज॒पृष्ठः॑। ग्रीवा संज्ञायाम् — सु॒ग्रीवः॑। नी॒ल॒ग्रीवः॑। द॒श॒ग्रीवः॑। औपम्ये — गो॒ग्रीवः॑। अ॒श्व॒ग्रीवः॑। जङ्घा संज्ञायाम् — ना॒डी॒जङ्घः॑। ता॒ल॒जङ्घः॑। औपम्ये — गो॒जङ्घः॑। अ॒श्व॒जङ्घः॑। ए॒णी॒जङ्घः॑॥
Siddhanta Kaumudi¶
संज्ञौ पम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ॥
Padamanjari¶
सुग्रीव इति । अत्र परत्वात् नञ्सुभ्याम् इत्यन्तोदातत्वेनभाव्यम्, अस्य तु दशग्रीवादिरवकाशः यदि तु नेष्यते, चकारस्यैव विधेः समुञ्चयार्थ इति व्याख्यातव्यम् । नाडीजङ्घ इति । नाड।लकारे जङ्घे यस्य नाडीजङ्घः ॥ नजो जरमरमित्रमृताः ॥ 6।2 -116 ॥ जरणं जरः, ऋदोरप् । मरणं मरः, अरु देव निपातनादप् । ऋइमिदा स्नेहने - अस्मात् क्त्रः, मित्रम् ॥
Nyaas¶
कणेष्ठः (पं।उ।1।105) इति ठप्रत्ययान्तत्वात्? कण्ठशब्दोऽन्तोदात्तः। डित्यपृष्ठगूथयूथप्रोथाः (द।उ।6।37) [तिथ -द।उ; पं।उ।] इति पृष्ठशब्दोऽन्तोदात्तो निपात्यते। इण्शीभ्यां वन् (द।उ।8।126) इत्यतो वन्प्रत्ययेऽनुवर्तमाने शेवयह्वजिह्वाग्रीवाप्वमावाः (द।उ।8।128) इति ग्रीवाशब्दोऽन्तोदात्तो निपात्यते। अत्यन्तं हनित गच्छतीति हन्तेर्यङ्, द्विर्वचनम्, नुगतोऽनुनासिकान्तस्य` (7.4.85) इति नुक्, अभ्यासाच्च (7.3.55) इति कुत्वम्, जङ्घन्य इति स्थिते पचाद्यच्? यङोऽचि च (2.4.74) इति यङो लुक्; टाप्, चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा -हन्तेरच्? जङ्घ च (2.4.74) इति यङो लुक्; टाप्, चित्स्वरेण जङ्घाशब्दोऽन्तोदात्तः। अथ वा -हन्तेरच्? जङ्घ च (पं।उ।5।31) [अच्? तस्य जङ्घ च -पं।उ।] इति हन्तेरच्प्रत्ययो जङ्घ इत्ययमादेश इत्येवं वा जङ्घशब्दो व्युत्पाद्यते। एषां कण्ठादीनां समाहारे द्वन्द्वः। `शितिकण्ठः इति। सर्वधातुभ्य इन् (पं।उ।4।117) इति वर्तमानं क्रमितमिशाडिस्तम्भामत इच्च (पं।उ।4।121) [शति -पं।उ।] इति शितिशब्द आद्युदात्तः। नीलकण्ठः इति। नील वर्णे (धातुपाठः-522), [नील वर्णे -धा।प।] अस्मात्? घञ्, तेन नीलशब्दोऽप्याद्युदात्तः। `खरकण्ठः इति। खरस्येव कण्ठोऽस्येति विग्रहः। खमस्यास्तीति रप्रकरणे खमुखकुञ्जेभ्य उपसंख्यानात्? (वा।577) रप्रत्ययः, तेन खरोऽन्तोदात्तः। `उष्ट्रकण्ठः इति। उष्ट्रस्येव कण्ठोऽस्येति ष्ट्रन् (द।उ।8।79) इति वर्तमाने उषखनिब्यां कित् (द।उ।8।82) इति उष दाहे (धातुपाठः-696) इत्यस्मात्? ष्ट्रन्, किच्च। तेनोष्ट्रशब्द आद्युदात्तः। काण्डपृष्ठः इति। काण्डं पृष्ठमस्येति काण्डशब्दः नब्विषयस्यानिसन्तस्य (फि।सू।2।26) इत्युदात्तः। नाकपृष्ठम् इति। नास्याकमस्तीति न भ्राट् (6.3.74) इत्यादिना प्रकृतिभावान्नलोपाभावः। नञ्सुभ्याम् (6.2.172) इत्युत्तरपदान्तोदात्तविधानान्नाकशब्दोऽन्तोदात्तः गोपृष्ठम् इ। गोरिव पृष्ठमस्येति। गोशब्द उक्तस्वरः। अजपृष्ठम् इति। अजस्येव पृष्ठमस्येति अज गतिक्षेपणयोः (धातुपाठः-230) अस्मात्? पचाद्यच्। अजादिष्वजाशब्दस्य पाठाद्वीभावो न भवति। चित्स्वरेणाजशब्दोऽन्तोदात्तः। सुगरीवः इति। शोभना ग्रीवाऽस्येति निपाता आद्युदात्ताः (फि।सू।4।80) इति सुशब्द आद्युदात्तः। नीलग्रीवः इति। नीला ग्रीवाऽस्येति नील वर्णे (धातुपाठः-522) [नील वर्णे -धा।प।] अस्मात्? घञ्। तेन नीलशब्द आद्युदात्तः। `दशग्रीवः इति। दश ग्रीवा अस्येति दशशब्दः न्रः संख्यायाः (फि।सू2।28) इत्याद्युदात्तः। अआग्रीवः इति। अआस्येव ग्रीवाऽस्येति। गोशब्दोऽआशब्दश्चोक्तस्वरः। नारीजङ्घः इति। नारी जङ्घा यस्येति। शङ्र्गरवादिषु नृनरयोश्च (ग।सू।57) इति पठयन्ते, तेनाद्युदात्तः। तालजङ्घः इति। तालो जङ्घा यस्येति तल प्रतिष्ठाकरणे (धातुपाठः-1598) [प्रतिष्ठायाम् -धातुपाठः-] चुरादिः, तस्मात्? वचाद्यच्। तेन तालशब्दोऽन्तोदात्तः। `गोजङ्घः इति। एण्या इव जङ्घा यस्येति। एणीशब्दः जातेरस्त्रीविषयात् (4.1.63) इति ङीषन्तः। तेनान्तोदात्तः॥
Prakriyasarvasvam¶
संज्ञौपम्ययोः कण्ठादीनि पराण्याद्युदात्तानि स्युः। नाम्नि नीलकण्ठः। काण्डपृष्ठः। दशग्रीवः। तालजङ्घः। औपम्ये कम्बुकण्ठः। गोपृष्ठः। गोग्रीवः। (त्र?तृ) णजङ्घः।