Sutras 41 - 60¶
- 74041: शाच्छोरन्यतरस्याम्
- 74042: दधातेर्हिः
- 74043: जहातेश्च क्त्वि
- 74044: विभाषा छन्दसि
- 74045: सुधितवसुधितनेमधितधिष्वधिषीय च
- 74046: दो दद् घोः
- 74047: अच उपसर्गात्तः
- 74048: अपो भि
- 74049: सः स्यार्द्धधातुके
- 74050: तासस्त्योर्लोपः
- 74051: रि च
- 74052: ह एति
- 74053: यीवर्णयोर्दीधीवेव्योः
- 74054: सनि मीमाघुरभलभशकपतपदामच इस्
- 74055: आप्ज्ञप्यृधामीत्
- 74056: दम्भ इच्च
- 74057: मुचोऽकर्मकस्य गुणो वा
- 74058: अत्र लोपोऽभ्यासस्य
- 74059: ह्रस्वः
- 74060: हलादिः शेषः