74054: सनि मीमाघुरभलभशकपतपदामच इस्

Padacheda: सनि | S | 7 | 1 |

मीमाघुरभलभशकपतपदामच | S | 6 | 3 |

इस् | S | 1 | 1 |

Sutrartha


Vasu English Summary

इस् is substituted for the root-vowel of 1. मी 2. मा 3. धा (घु) 4. रभ् 5. लभ् 6. शक् 7. पत् 8. पद् and 9. दा when the Desiderative सन् follows beginning with स् (i.e. not taking the augment इ) follows.

Vasu English Translation

इस् is substituted for the root-vowel of 1. मी 2. मा 3. धा (घु) 4. रभ् 5. लभ् 6. शक् 7. पत् 8. पद् and 9. दा when the Desiderative सन् follows beginning with स् (i.e. not taking the augment इ) follows. The मी includes मीनाति (Kryadi 4), and मिनोति (मि of Svadi 4) for मि assumes the form मी by (6.4.16). Thus मित्सति, प्रमित्सति ॥ The मा denotes all the roots which assume the form मा, on the maxim गामादा ग्रहणेष्वविशेषः “The terms गा, मा or दा when they are employed in Grammar denote both the original roots गा, मा and दा and also the roots which are changed to गा, मा and दा” ॥ They are मा and माङ माने,and मेङ् प्रणिदाने ॥ Thus मित्सते, अप मित्सते ॥ घु–दित्सति, धित्सति; रभ्-आरिप्सते, लभ्-आलिप्सते, शक्-शिक्षति, पत्-पित्सति, पद्-प्रपित्सते ॥ In the roots that end in a vowel, the स् of इस् is changed to त् by (7.4.49), and in the roots that end in a consonant, this स् is dropped, according to (8.2.29). The reduplication falls by (7.4.58).

Why do we say ‘when the Desiderative follows’? Observe दास्यति ॥ The word सि is understood here from (7.4.49), so the rule will not apply when the Desiderative takes the augment इट्, as प्र पतिषति ॥ Here पत् optionally takes इट् under the vartika तनिपतिदरिद्राणामुपसंख्यानम् ॥

Vart:- The इस् comes after the root-vowel of राध् in the Desiderative, when the sense is that of to injure. As प्रति रित्सति ॥ Why do we say when the sense is that of ‘to injure’? Observe आरि रात्सति ॥

Bhashya

सनि मीमाघुरभलभशकपतपदामच इस् ॥ इस्त्वं सनि राधो हिंसायाम् ॥ इस्त्वं सनि राधो हिंसायामिति वक्तव्यम् । प्रतिरित्सति ॥ हिंसायामिति किमर्थम् ? ॥ आरिरात्सति ॥

Kashika

सनि प्रत्यये सकारादौ परतः मी मा घु रभ लभ शक पत पद इत्येतेषामङ्गानामचः स्थाने इसित्ययमादेशो भवति। मी इति मीनातिमिनोत्योः द्वयोरपि ग्रहणम् इष्यते। मित्सति। प्रमित्सति। मा इति गामादाग्रहणेषु अविशेषः। मित्सते। अपमित्सते। घु दित्सति। धित्सति। रभ आरिप्सते। लभ आलिप्सते। शक शिक्षति। पत् पित्सति। पद प्रपित्सते। सनि इति किम्? दास्यति। सि इत्येव, पिपतिषति। तनिपतिदरिद्राणामुपसङ्ख्यानम् इति पतेः इडागमविकल्पः। सनि राधो हिंसायामच इस् वक्तव्यः। प्रतिरित्सति। हिंसायाम् इति किम्? आरिरात्सति।

Siddhanta Kaumudi

एषामच इस् स्यात्सादौ सनि । अभ्यासलोपः । स्कोः - (SK380) इति सलोपः । पित्सति । दिदरिद्रिषति । दिदरिद्रासति । डुमिञ् मीञ् आभ्यां सन् । कृतदीर्घस्य मिनोतेरपि मीरुपत्वाविशेषादिस् । सः सि - (SK2342) इति तः । मित्सति । दोदाणोः । दित्सति । देङ् । दित्सते । दाञ् । दित्सति । दित्सते । धेट् । धित्सति । धाञ् । धित्सति । धित्सते । रिप्सते । लिप्सते । शकि । शिक्षति । शक मर्षण इति दिवादिः । स्वरितेत् । शिक्षति । शिक्षते । पित्सते ।<!राधो हिंसायां सनीस् वाच्यः !> (वार्तिकम्) ॥ रित्सति । हिंसायां किम् । आरिरात्सति ॥

Balamanorama

सनि मीमाघुरभलभशकपतपदामच इस् - सनि मीमा । सादौ सनीति । ‘सः सि’ इत्यतः सीत्यनिवृत्तेरिति भावः । अभ्यासलोप इति । ‘अत्र लोपः’ इत्यनेनेति भावः । पिस्त् स इति स्थिते आह — स्कोरिति । दरिद्रातेः सनितनिपती॑ति इड्विकल्पमुदाहरति — दिदरिद्रिषति । दिदरिद्रासतीति । डु मिञिति ।डु मिञ् प्रक्षेपणे॑ स्वादिः, ‘मीञ् हिंसायाम्’ क्र्यादिः, आभ्यां सन्नित्यर्थः ।सनि मीमे॑त्यतर्मीग्रहणेन एतयोरुभयोग्र्रहणमिति भावः । ननु मीति दीर्घश्रवणात् डु मिञ् इत्यस्य ह्रस्वान्तस्य कथं ग्रहणमित्यत आह — कृतदीर्घस्येति । डु मिञ्धातोः सनिअज्झने॑ति कृतदीर्घस्य, तथामीञ् हिंसाया॑मिति स्वतः सिद्धदीर्घस्य च मीरूपाऽविशेषादुभयोरपि ग्रहणमित्यर्थः । सः सीति । उभयोरपि धात्वोः मी स इति स्थितेसनि मीमे॑ति इसादेशे द्वित्वे ‘अत्र लोपः’ इत्यभ्यासलोपेसः सी॑ति सस्य तकार इत्यर्थः । मित्सति मित्सते इति । प्रकृतेर्ञित्त्वात् ‘पूर्ववत्सनःर’ इति उभयपदित्वम् । माङ्मेङोरिति । मेङः सनि ‘आदेचः’ सनि आत्त्वे कृते मारूपत्वाऽविशेषात्सनि मीमे॑त्यत्र उभयोरपि ग्रहणमिति भावः । दोदोणोरिति । ‘दो अवखण्डने’ इतिधातोः सनि आत्त्वे कृते दारूपाऽविशेषाद्धुत्वादुभयोग्र्रहणमिति भावः । दित्सतीति ।हलन्ताच्चे॑ति कित्तवान्नोपधागुणः । देङिति । तस्यापि कृतात्त्वस्य घुत्वात्सनि मीमे॑त्यत्र ग्रहणमिति भावः । रिप्सते इति । रभधातोः रूपम् । लिप्सते इति । लभधातो रूपम् । पित्सतीति । पत्लृधातो रूपम् । पदधातोः पित्सते इति रूपम् । सनि इस् वाच्य इति ।आकारस्ये॑ति शेषः ।ष रित्सतीति । सनि इसादेशः । ‘अत्र लोपः’ इत्यभ्यासलोपः ।

Tattvabodhini

सनि मीमाघुरभलभशकपतपदामच इस् - सनि मीमा ।सः सी॑त्यतः सीत्यनुवर्तते । तस्य सनो विशेषणत्वात्सादौ सनीति लाभः । मीरूपाऽविशेषादिति । ननु मिनोतेर्मीरूपस्य लाक्षणिकत्वान्मीग्रहणेन ग्रहणं न प्राप्नोति । नैष दोषः । यत्र लक्षणाभिनिर्वृत्तत्वेन शब्दरूपमपेक्ष्यते तत्रलक्षणप्रतिपदोक्तयो॑रिति परिभाषोपस्थानं न तु यत्र प्रयोगाश्रयणं तत्रेतिइको झ॑लिति सूत्रे कैयटेनोक्तत्वात् । तस्यायमाशयः — मीरूपमात्रस्य प्रयोगाऽत्राश्रितः ।विभाषा दिक्समासे॑ इत्यत्र तु लक्षणाभिनिर्वृत्तस्य समासशब्दस्याश्रयणात्दिङ्नामान्यन्तराले इति प्रतिपदोक्त एव समास आश्रीयते इति । लक्षणप्रतिपदोक्तपरिभाषाया अनित्यत्वात्क्वचिदुपतिष्ठते क्वचिन्नोपतिष्ठते इतितु निष्कृष्टोऽर्थः । मित्सतीति ।हलन्ताच्चे॑ति कित्त्वान्नोपधागुणः । शिक्षतीति । ननु निरनुबन्धपरिभाषयाशक मर्षणे॑ इत्यस्यैव ग्रहणमुचितमिति चेत् । अत्राहुः — इयं हि परिभाषा प्रत्ययग्रहणविषया । अत एजृव्रश्च्यो॑रित्यत्र जजृषोरुभयोग्र्रहणमिति न्यासकारेणोक्तमतोऽत्रापि स्वादिदैवादिकयोग्र्रहणं युक्तमेवेति ।

Padamanjari

सीत्येतदिहानुवृतं सनो विशेषणम् । मीनातिमिनोत्योरिति ।’मीञ् हिंसायाम्’ ,’डुमिञ् प्रक्षेपणे’ । उभयोरपि ग्रहणमिति । मिनोतेरपि ठज्झनगमां सनिऽ इति दीर्घे कृते’मी’ इति रूपसम्भवात् । नन्वसौ लाक्षणिकः ? सत्यम्; इष्टिरेवेयम्, यदाह - इष्यत इति ।’मा माने’ ,’माङ् माने’ ,’मेङ् प्रणिदाने’ - त्रयाणामपि ग्रहणम् । मीनातिमिनोत्योः सनः कित्वे सति अनेज्विषयत्वात् मारूपासम्भवात्पृथग्ग्रहणम् । घु इति । घुसंज्ञका दाधा गृह्यन्ते ।रभ राभस्येऽ,’डुलभष् प्राप्तौ’ , शक्लृ शक्तौऽ,’पल्लृ गतौ’ । मित्सतीति ।’स स्यार्धधातुके’ इति सकारस्य तकारः, ठत्र लोपोऽभ्यासस्यऽ । आत्मनेदिषु’पूर्ववत्सनः’ । आरिप्सते इत्यादौ’स्कोः संयोगाद्योः’ इति सलोपः ॥

Nyaas

सः स्यार्धधातुके (7.4.49) इत्यतः सीत्यनुवर्तते, तच्च सोन विशेषणम्। मीति मीनातिमिनत्योः इति। मीञ्? हिंसायाम् (धातुपाठः-1476), डुमिञ्? प्रक्षेपणे (धातुपाठः-1250) - इत्येतयोः। ननु च मी इत्येतस्मिन्नुच्चार्यमाणे मिनोतेग्र्रहणं नोपपद्यते? नैवम्; अस्यापि अज्झनगमां सनि (6.4.16) इति दीर्घत्वे कृते मीत्येवं रूपं भवति। एवमपि लक्षणप्रतिपदोक्तपिभाषया (व्या।प।3) तस्य ग्रहणं नोपपद्यते? नैतदस्ति; अत्र हि घुसंज्ञकत्वात्? घु इत्यस्य पूर्वनिपातमकुर्वतैतत्? सूचितम् - यथा पूर्वनिपात इह नापेक्ष्यते, तथान्यदपि किञ्चिच्छास्त्रीयं वचनमिति। तेनेयं परिभाषा नापेक्ष्यत इति युक्तं मिनोतेरपि ग्रहणम्। मा हि गामादाग्रहणेष्वविशेषः इति। मेङप्रभृतीनां पूर्वोक्तानां त्रयाणां ग्रहणम्। घु इति घुसंज्ञकौ दा धा - इत्यतौ गृह्रते। रभ राभस्ये (धातुपाठः-974), डुलभष्? प्राप्तौ (धातुपाठः-975), शक्लृ शक्तौ (धातुपाठः-1261), शल हुल पत्लृ गतौ (धातुपाठः-843,844,845), पद गतौ (धातुपाठः-1169) - एषामचः स्थाने सकारादौ प्रत्यये सनीस्? भवति। अच इत्यस्य ग्रहणं सर्वादेशो मा भूदित्येवमर्थम्। असति हि तस्मिन्ननेकाल्त्वात्? सर्वादेशः स्यात्। प्रमित्सनि इति। अत्र लोपोऽब्यासस्य (7.4.58) इत्यभ्यासलोपः, सः स्यार्धधातुके (7.4.49) इति तस्य सः। अपमित्सते इति। पूर्ववत्सनः (1.3.62) इत्यात्मनेपदम्। एवं आरिप्सते` आलिप्सते इत्यत्रापि। खरि च (8.4.54) इति चर्त्वम् - भकारस्य पकारः, त्कोः संयोगाद्योरन्ते च (8.2.29) इति सलोपः॥

Vartika

राधो हिंसायां सनीस् वाच्यः ।

Sutra Prayogas

  • प्रपित्सुना (किरातार्जुनीयम्): सनि मीमाघुरभलभशकपतपदामच इस् इति इसादेशः।

  • प्रपित्सोः (किरातार्जुनीयम्): सनि मीमाघुरभलभशकपतपदामच इस् इति इसादेशः।

  • विधित्सया (शिशुपालवधम्): सनि मीमा- इत्यादिना अच इस्।

  • उत्पित्सवो (शिशुपालवधम्): सनि मीमाघुरभलभशकपत… इति इसादेशः।

  • प्रपित्सुः (शिशुपालवधम्): सनि मीमाघुरभलभशकपतपदामच इति इसादेशः।

  • दित्सया (शिशुपालवधम्): सनि मीमा- इत्यादिना इसादेशः।

  • दित्सुः (भट्टिकाव्यम्): सनि मीमाघुरभलभशकपण्डपमाच इस् इत्यादिना अच इस्।

  • दित्सयेव (भट्टिकाव्यम्): सनि मीमाघुरभलभशकपतपदामच इस् इत्यादिना इस्।

  • लिप्सुः (भट्टिकाव्यम्): सनि मी-मा इत्यादिना इस्।