74043: जहातेश्च क्त्वि¶
Padacheda: जहातेः | S | 6 | 1 |
च | S | 0 | 0 |
क्त्वि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
हि is optionally substituted for हा (जहाति) before क्त्वा।
Vasu English Translation¶
हि is optionally substituted for हा (जहाति) before क्त्वा। As हित्वा राज्यं वनम् गतः, हित्वा गच्छति ॥ The rule does not apply to हा जिहीते ॥ There we have हात्वा गतः ॥
Kashika¶
जहातेरङ्गस्य हि इत्ययमादेशो भवति क्त्वाप्रत्यये परतः। हित्वा राज्यं वनं गतः। हित्वा गच्छति। जहातेर्निदेशात् जिहीतेर्न भवति। हात्वा।
Siddhanta Kaumudi¶
हित्वा । हाङस्तु । हात्वा । अदो जग्धिः-(SK3080) । जग्ध्वा ॥
Laghu Siddhanta Kaumudi¶
हित्वा। हाङस्तु - हात्वा॥
Tattvabodhini¶
जहातेश्च क्त्वि - जग्ध्वेति ।झरो झरी॑ति पाक्षिको धलोपः ।
Padamanjari¶
इदमपि वचनं जहानेहत्विनि मा भृदिति । श्तिपा निर्द्देशस्य तु प्रयोजनं वृतावेव दर्शितम् । यङ्लुकि जाहित्वेति भवति ॥
Nyaas¶
पूर्ववदीत्त्वे प्राप्ते क्त्वाप्रत्यये हिरादेशो विधीयते। यद्यपि हि गतौ (धातुपाठः-1257) इत्यस्यापि हित्वेति सिध्यति, तथापि जहातेरिकारनिवृत्त्यर्थ वचनम्। अथ किमर्थं जहातेरिति श्तिपा निर्देशः, न हः एवोच्यते? इत्याह - जहातेः इत्यादि। एतेन ओहाङ्? गतौ (धातुपाठः-1089) इत्यस्य निवृत्त्ये निर्देशः क्रियत इति दर्शयति। यदि हि हः इति निर्देशः स्यात्, तदा तस्य साधारणत्वाज्जिहातेरपि स्यात्। जहातेरिति श्तिपा निर्देशे तु न भवति। अनेन जहातिरेव निर्दिश्यते, न जिहातिः। न हि तस्यैवंविधो निर्देशे यङ्लुगन्तस्य न भवति - जाहात्वेति। ईत्वमप्यत्र न भवति; तद्विधावपि श्तिपा निर्देशात्। अत्र चेटि कृते आतो लोप इटि च (6.4.64) इत्याकारलोपः॥
Prakriyasarvasvam¶
अस्य क्त्विपरे हिः स्यात् । हित्वा । हाङस्तु हात्वा । ‘दो दद् घोः । (७–४–४६) । दत्त्वा । ‘अदो जग्धिर्ल्यप् ति किति’ (२–४–३६) इति जग्ध्यादेशः । तस्य धत्वम् । ‘झरो झरि—’ (८–४–६५) । जग्ध्वा ॥ अथ ल्यप् उपसर्गाणां ‘कुगतिप्रादयः’ (२-२-१८) इति समासे कृते ।
Sutra Prayogas¶
हित्वा (भट्टिकाव्यम्): जहातेश्च क्त्वि इति हिरादेशः।