74058: अत्र लोपोऽभ्यासस्य

Padacheda: अत्र | S | 0 | 0 |

लोपः | S | 1 | 1 |

अभ्यासस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The reduplicate is elided under the circumstances mentioned in the foregoing sūtras सनि मीमाघुरभलभशकपतपदामच इस् (7.4.54) to मुचोऽकर्मकस्य गुणो वा (7.4.57).

Vasu English Translation

The reduplicate is elided under the circumstances mentioned in the foregoing sūtras सनि मीमाघुरभलभशकपतपदामच इस् (7.4.54) to मुचोऽकर्मकस्य गुणो वा (7.4.57). The examples are given under the above-mentioned sutras. The word ‘of the reduplicate’ अभ्यासस्य is to be supplied in all the subsequent sutras upto the end of the chapter. Thus Sutra (7.4.59), says ‘a short is to be substituted’, we must supply the words ‘for the reduplicate’ to complete the sense: as डुढौकिषते, तुत्रौकिषते ॥ The word अत्र in the sutra indicates that the reduplication is not to be elided, when an affix is treated like सन् but is not actually सन् ॥ Thus चङ्-Aorist is treated like सन् by (7.4.93); but the reduplication will not be dropped there : as, अमीमपत्, अदीदपत् ॥ Some say the word अत्र here indicates that the whole of the reduplicate is dropped, and not only its final letter. Others elide the whole of the reduplicate on the maxim नानर्थकोऽलोऽन्त्यविधिः ॥ “The rule (1.1.52), by which a substitute should take the place of only the final letter of that which is exhibited in the Genitive case, is not valid, where what is exhibited in the Genitive is meaningless”.

Bhashya

अत्र लोपोऽभ्यासस्य ॥ अभ्यासस्याऽनचि ॥ अभ्यासस्येति यदुच्यते तदनचि द्रष्टव्यम् । पतापतः चराचरः । चलाचलः(1) वदावदः । ( अत्र लोपोऽभ्यासस्य ) ।

Kashika

यदेतत् प्रक्रान्तं सनि मीमा इत्यादि मुचोऽकर्मकस्य इति यावत्, अत्र अभ्यासलोपो भवति। तथैव उदाहृतम्। अभ्यासस्य इत्येतच् च अछिकृतं वेदितव्यमा अध्यायपरिसमाप्तेः। इत उत्तरं यद् वक्ष्यामः अभ्यासस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति, ह्रस्वः (7.4.59) डुढौकिषते। तुत्रौकिषते। सनि मीमाधुरभलभशकपतपदामच इस्, अभ्यासलोपश्च, इत्येवम् सिद्धे यदत्रग्रहनम् इह अक्रियते, तद् विषयावधारणार्थम्, अत्रैव अभ्यासलोपो भवति, सन्वद्भावविषये न भवति। अमीमपत्। अदीदपत्। सन्वल्लघुनि चङ्परेऽनग्लोपे (7.4.93) इति सन्वद्भावात् प्राप्नोति। सर्वस्य अभ्यासस्य अयं लोपः इष्यते, तदर्थम् एव केचितत्रग्रहणं वर्णयन्ति। नानर्थकेऽलोऽन्त्यविधिः इत्यपरे सर्वस्य कुर्वन्ति।

Siddhanta Kaumudi

सनिमीमा - (SK2623) इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति । रपरत्वम् । चर्त्वम् । ईर्त्सति । अर्दिधिषति । बिभ्रज्जिषति । बिभर्जिषति । बिभ्रक्षति । बिभर्क्षति ॥

Balamanorama

अत्र लोपोऽभ्यासस्य - अत्र लोपोऽभ्यासस्य ।सनि मीमे॑तिआप्ज्ञप्यृधामी॑दितिदम्भ इच्चे॑ति ,मुचोऽकर्मकस्य गुणो वे॑ति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते । तदाह — सनि मीमेत्यारभ्यते । सूत्रचतुष्टकार्ये कृते सतीत्यर्थः । ईप्सतीति । आप् धातोः सनि आकारस्य इत्त्वेअजादेर्द्वितीयस्ये॑ति प्स इत्यस्य द्वित्वेऽभ्यासलोप इति भावः । रपरत्वमिति । ऋधेः सनि इडभावे ऋकारस्य ईत्त्वे रपरत्वमित्यर्थः । चर्त्वमिति । ईर्ध् स इति स्थिते धस्य चर्त्वे ‘न न्द्राः’ इति रेफं वर्जयित्वाअजादेर्द्वितीयस्ये॑ति, ‘त्स’ इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः ।पूर्वत्राऽसिद्धीयमद्वित्वे॑ इति वचनाच्चर्त्वे कृते द्वित्वमिति बोध्यम् । इट्पक्षे आह — अर्दिधिषतीति । सनः सादित्वाऽभावादीत्त्वाऽभावे गुणे रपरत्वे अर्ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भावः । भ्रस्ज्धातोः सन इटिभ्रस्जो रोपधयो॑रिति रमागमाऽभावे आह — बिभ्रज्जिषतीति । सस्य श्चुत्वेन शः, शस्य जश्त्वेन जः । क्ङिदभावात्ग्रहिज्ये॑ति संप्रसारणं न । बिभर्जिषतीति । इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि साकरात्प्राग्रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वं हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति । इडभावे रमागमाऽभावे च रूपम् । जस्य कुत्वं सस्य षः । बिभक्र्षतीति । इडभावे रमागमे च रूपम् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे ।

Tattvabodhini

अत्र लोपोऽभ्यासस्य - ईप्सतीति ।अजादेर्द्वितीयस्ये॑तिप्सशब्दस्य द्वित्वम् । बिभ्रज्जिषतीति । इटि तदभावे च रमागमविकल्पाच्चत्वारि रूपाणि । सुस्वूर्षतीति ।अज्झनगमा॑मिति दीर्घे सत्युत्वम् ।

Padamanjari

अत्रशब्दस्यार्थं दर्शयति - यदेतदिति । अथात्रग्रहणं किमर्थम् ? अत्र’सनिमीमा’ इत्यादौ प्रकरणे यथा स्याद्; ददौ, ददातीत्यत्र मा भूदिति । नैतदस्ति प्रयोजनम्, एवं वक्ष्यामि -‘सनि मीमाघुरभलभशकपतपदामच इसभ्यासलोपश्च’ - इति, उतरत्रापि ठभ्यसलोपश्चऽ इत्येव ? तत्राह - सनि मीमाध्वित्यादि । विषयावधारणमुविषयर्नियमः । कः पुनरसौ ? इत्यत आह - अत्रैवेत्यादि । अवधारणस्य व्यवच्छेद्यं दर्शयति - सन्वद्भावविषये न भवतीति । अमीमपदिति । मिञो णिचि’मीनातिमिनोति’ इत्यात्वम्, पुक, लुङ्, चङ् इद्विर्वचनम्, सन्वद्भावादित्वम्,’दीर्घो लघोः’ । कथं पुनः सनीत्युच्यमानस्याभ्यासलोपस्यात्र प्रसङ्गः ? इत्यत आह - सन्वल्लघुनीति । यथैव हि सन्वद्भावेनेत्वं भवति, तथाभ्यासलोपोऽपि स्यात्, ठलोऽन्त्यस्यऽ लोपेन भवितव्यमित्याशङ्कायामाह - सर्वस्येति । कथं पुनः सर्वस्य लभ्यते ? अत आह - तदर्थमेवेति । ठितराभ्योऽपि दृश्यन्तेऽ इति षष्ठ।ल्न्तात्रल् । योऽयमभ्यासः प्रसिद्धोऽस्य लोपः, न तदन्तस्येत्यर्थः । विषयावधारणं त्वन्यथापि सिद्धम् । सन्वल्लघुनीति न कार्यमतिदिश्यते, किं तर्हि ? रूपम् । लोपश्चासावभावरूपो न रूपमिति नातिदिश्यते । नानर्थकेऽलोन्त्यविधिरित्यपरे सर्वस्य कुर्वन्तीति । ठनभ्यासविकारेषुऽ इति तु प्रतिषेधो न भवति; लोपस्याविकारत्वात् । तथा च पस्पशायाम् -‘लोपागमवर्णविकारज्ञः’ इति पृथग्ग्रहणम्,’द्वौ चापरौ वर्णविकारनाशौ’ इति च पृषोदरादिसूत्रे । अन्वयव्यतिरेकाभ्यामर्थवतावधार्यते, न चाभ्यासस्योपजनने कश्चिदर्थः प्रतीयत इत्यभ्यासस्यानर्थक्यम् ॥

Nyaas

अत्रेत्यनेन यन्निर्दिश्यते तद्दर्शयितुमाह - यदेतत् इत्यादि। अथात्रग्रहणं किमर्थम्? सनि मीमा (7.4.54) इत्यादौ प्रकरणे यथा स्यात्; ददौ, ददतुरित्यादौ मा भूदिति चेत्? न; यदि ह्रेतत्? प्रयोजनमभिमतं स्यात्? सनि मीमाधुरभलभशकपतपदामच इसभ्यासलोपश्च इत्येवमुद्दिश्येत, एवमिहैव प्रकरणे भदिष्यति, नान्यत्र, ततो निष्प्रयोजनमत्रग्रहणमित्यत आह - सनि मीमाधुरभलभ इत्यादि। विषयावधारणार्थम् इति। अभ्यासलोपविषयस्य नियमार्थमित्यर्थः। तामेव तस्य विषयनियमार्थतां दर्शयितुमाह - अत्रैव इत्यादि। अत्रेत्यनेनेसादिविषयो निर्दिश्यते। इसादिविषय एवाभ्यासलोपो यथा स्यादिति नियमेन यद्व्यवच्छिन्नं तद्दर्शयितुमाह - सन्वद्भावविषये न भवति इति। अमीमपत् इति। भीञ्? हिंसायाम् (धातुपाठः-1476) मीनातिमिनोतिदीङां ल्यपि च (6.1.50) इत्यात्त्वम्, णिच्, पूर्ववत्? पुक्, लुङः, च्लेश्चङ्, णिलोपः, उपधाह्रस्वत्वम्, द्विर्वचनम्, अट्, सन्वल्लघुनि चङ्परे (7.4.93) इत्यादिना सन्वद्भावे सन्यतः (7.4.79) इतीत्त्वम्, दीर्घो लघोः (7.4.94) इति दीर्घः। अदीदपत् इति। डुदाञ्? दाने (धातुपाठः-1091) पूर्ववण्णिजादिः। अत्रग्रहणादिहाभ्यासलोपो न भवति। कथं पुनः सन्यभ्यासलोप उच्यमान इह प्राप्नोति, यन्निवृत्त्यर्थमत्रग्रहणं क्रियते? इत्याह - सन्वल्लघुनि इत्यादि। यथैव हि सन्वद्भावातिदेशादित्त्वं भवति, एवमभ्यासलोपः स्यात्। इहालोन्त्यपरिभाषया अलोऽन्त्यस्य (1.1.52) लोपेन भवितव्यमिति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्तुंमाह - सर्वस्य इत्यादि। कथं पुनः सर्वस्य लभ्यते? इत्यत आह - तदर्थमेव इत्यादि। एतेनैवकारेण विषयावधारणार्थतां निरस्यति। यद्येवम्, सन्वद्भावविषयेऽपि प्राप्नोति? एवं मन्यते - सन्वद्भावविषयेऽप्यभ्यासलोपप्रसङ्गः परिहर्तु शक्यते। तत्र सन्वदिति सनाश्रयकार्यमतिदिश्यते। न चाभ्यासलोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। तदभावादसत्यप्यत्रग्रहणेऽमीमपदित्यादिष्वभ्यासलोपो न भविष्यति। तस्मादतिरिच्यत एवात्रग्रहणमिति न कर्तव्यमेव। तत्? क्रियते - सर्वस्याभ्यासलोपो यथा स्यादिति। कथं पुनः क्रियमाणेऽप्यत्रग्रहणे सर्वस्य लोपो लभ्यते? ग्रन्थाधिक्यादर्थाधिक्यमित्येके। अत्रग्रहणेन महत्? सूत्रं प्रयणतैतत्? सूचितम् - महतः स्थानिनोऽयं लोपः कर्तव्यः। एवञ्चायं महतः स्थानिनः कृतो भवति यदि सर्वस्याभ्यासलोपः क्रियते, नान्यथेत्यन्ये। नानार्थकेऽलोन्त्यविधिरित्यपरे इति। के पुनस्ते? ये विषयावधारणार्थतामत्रग्रहणस्य वर्णयन्ति ते वेदितव्याः। अनर्थकत्वमभ्यासस्य स्थाने द्विर्वचनपक्षे वेदितव्यम्। अत्र हि यस्य स्थाने यच्छब्दान्तरं विधीयते तत्? समस्तमेवार्थवत्। एकदेशस्त्वभ्यासोऽनर्थक एव। द्विष्प्रयोगद्विर्वचनपक्षेऽप्यनर्थान्तरवाचित्वादनर्थान्तरवाचित्वादनर्थकताभ्यासस्य॥

Prakriyasarvasvam

‘सनि मीमा-’ (७-४-५४) इत्यादि चतुस्सूत्रां यदुक्तं तत्राभ्यासस्य सर्वालोपः स्यात् । ऋधेरिद् रपरः । धस्य चत्वंम् । ईर्त्सति । ‘भ्रस्जोरोपधयोः’ (६-४-४७) इति वा रमि कृते भर्जं । विभर्जिषति । रमभावे सस्य श्रुत्वं शः । जश्त्वं जः । बिभ्रज्जिषति । इडभावेऽपि वा रम् । भ्रश्चादिषः । कत्वम् । बिभर्क्षति । रमभावे ‘स्कोः-’ (८-२-२९) इति सलोपः । जस्य षत्वकत्वे । बिभ्रक्षति । भ्रस्जेः स्वरितेत्त्वात् तङ् चोद्यः । दिदम्भिषति ।

Sutra Prayogas

  • प्रपित्सुना (किरातार्जुनीयम्): अत्र लोपोऽभ्यासस्य इत्यभ्यासलोपः।

  • परीप्सुः (किरातार्जुनीयम्): अत्र लोपोऽभ्यासस्य इत्यभ्यासलोपः।

  • प्रपित्सोः (किरातार्जुनीयम्): अत्र लोपोऽभ्यासस्य इति अभ्यासलोपः।

  • विधित्सया (शिशुपालवधम्): अत्र लोपोऽभ्यासस्य इत्यभ्यासलोपः।

  • उत्पित्सवो (शिशुपालवधम्): अत्र लोपोऽभ्यासस्य इति अभ्यासलोपः।

  • प्रपित्सुः (शिशुपालवधम्): अत्र लोपोऽभ्यासस्य इति अभ्यासलोपः।

  • दित्सया (शिशुपालवधम्): अत्र लोपोऽभ्यासस्य इत्यभ्यासलोपः।

  • दित्सुः (भट्टिकाव्यम्): अत्र लोपोऽभ्यासस्य इत्यभ्यासलोपः।

  • दित्सयेव (भट्टिकाव्यम्): अत्र लोपोऽभ्यासस्य इति अभ्यासलोपश्च।

  • लिप्सुः (भट्टिकाव्यम्): अत्र लोपः इत्यभ्यासलोपः।