74059: ह्रस्वः¶
Padacheda: ह्रस्वः | S | 1 | 1 |
Sutrartha¶
अभ्यासस्य ह्रस्वः भवति ।
द्वित्वप्रकरणे यथायोग्यं द्वित्वे कृते, द्वयोः यः प्रथमः तस्य पूर्वोभ्यासः (6.1.4) इत्यनेन ‘अभ्यास’ संज्ञा भवति । अस्य अभ्यासस्य वर्तमानसूत्रेण ह्रस्वादेशः भवति । अचश्च (1.2.28) इत्यनेन अच्-वर्णस्य अयमादेशः विधीयते । यथा, भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् एतादृशम् सिद्ध्यति - भू + लिट् [परोक्षे लिट् (3.2.115) ] → भूव् ल् [भुवो वुग्लुङ्लिटोः (6.4.88) इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।] → भूव् भूव् ल् [लिटि धातोरनभ्यासस्य (6.1.8) इति द्वित्वम्] → भू भूव् ल् [हलादि शेषः (7.4.60) इति वकारस्य लोपः] → भुभूव् ल् [ह्रस्वः (7.4.59) इति अभ्यासे विद्यमानः यः अच्-वर्णः, तस्य ऊकारस्य ह्रस्वादेशः उकारः] → भभूव् ल् [भवतेरः (7.4.73) इति उकारस्य अकारः] → भभूव् तिप् [तिप्तस्.. (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → भभूव् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → भभूव् अ [इत्संज्ञालोपः] → बभूव [अभ्यासे चर्च्च (8.4.54) इति अभ्यासस्य जश्त्वम्] अन्यानि कानिचन उदाहरणानि - 1. ‘दा’ इत्यस्य द्वित्वे ‘दा दा’ इति स्थिते ह्रस्वः (7.4.59) इत्यनेन ‘द दा’ इति जायते । 2. ‘नी’ इत्यस्य द्वित्वे ‘नी नी’ इति स्थिते ह्रस्वः (7.4.59) इत्यनेन ‘नि नी’ इति जायते । 3. ‘तॄ’ इत्यस्य द्वित्वे ‘तॄ तॄ’ इति स्थिते ह्रस्वः (7.4.59) इत्यनेन ‘तृ तॄ’ इति जायते । 4. ‘ग्लेप्’ इत्यस्य द्वित्वे कृते ‘ग्लेप् ग्लेप्’ इति स्थिते, आदौ हलादिः शेषः (7.4.60) इति ‘गे ग्लेप्’ इति सिद्धे ह्रस्वः (7.4.59) इति ह्रस्वादेशः विधीयते । एच इग्घ्रस्वादेशे (1.1.48) इत्यनेन एच्-वर्णस्य ह्रस्वादेशे इक्-आदेशे कृते अत्र ‘गि ग्लेप्’ इति जायते । 5. ‘श्लोक्’ इत्यस्य द्वित्वे कृते ‘शो श्लोक्’ इति स्थिते, आदौ हलादिः शेषः (7.4.60) इति ‘शो श्लोक्’ इति सिद्धे ह्रस्वः (7.4.59) इति ह्रस्वादेशः विधीयते । एच इग्घ्रस्वादेशे (1.1.48) इत्यनेन एच्-वर्णस्य ह्रस्वादेशे इक्-आदेशे कृते अत्र ‘शु श्लोक्’ इति जायते ।
Sutrartha (English)¶
अभ्यास is converted to ह्रस्व.
Vasu English Summary¶
A short is substituted for the long vowel of the reduplicate.
Vasu English Translation¶
A short is substituted for the long vowel of the reduplicate. As डुढौकिषते, तुत्रौकिषते, डुढौके, तुत्रौके, अडुढौकत्, अतुत्रौकत् ॥
Vart:- The shortening takes place before affixes other than अच् (3.1.134) Before अच्, the roots चर्, चल्, पत् and वद् are reduplicated, and the augment अक् added to the reduplicate. See (6.1.12) Vartika. This augment when added to the reduplicate, is not to be shortened by this rule: and because this is not to be shortened, also indicates that the consonants of the reduplicate other than the first are also not dropped: as चराचरः, चलाचलः, पतापतः, वदावदः ॥
Kashika¶
ह्रस्वो भवति अभ्यासस्य। दुढौकिषते। तुत्रौकिषते। डुढौके। तुत्रौके। अडुढौकत्। अतुत्रौकत्। अभ्यासस्य अनचि। अभ्यासस्य यदुच्यते अनचि तद् भवतीति वक्तव्यम्। चराचरः। चलाचलः। पतापतः। वदावदः। हलादिः शेषो न भवति।
Siddhanta Kaumudi¶
अभ्यासस्याचो ह्रस्वः स्यात् ॥
Laghu Siddhanta Kaumudi¶
अभ्यासस्याचो ह्रस्वः स्यात्॥
Balamanorama¶
ह्रस्वः - भू भूव् अ इति स्थिते — ह्रस्वः ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । ह्रस्वश्रवणादचश्चेति परिभाषया अच इत्युपस्थितम् । तदाह — अभ्यासस्याऽचेति । भु भूव् अ इति स्थितम् । यद्यपि ‘भवतेर’ इति वक्ष्यमाणाऽकारविधिनैव सिद्धमिदं तथापि लुलावेत्याद्यर्थमावश्यकमिदमत्रैव न्याय्यत्वादुपन्यस्तम् ।
Padamanjari¶
हलादिशेषो न भवतीति । न चागमविधानसामर्थ्याद्धलादिशेषाभावः, अन्यथाऽऽदेशमेवाकारं विदध्यादिति वाच्यम् । सत्यपि वा हलादिशेषे विगृहीतश्रवणार्थत्वादाकारस्य - चलाचलमिति ॥ कर्मधारये हि विशेषणत्वादादिशब्दस्य पूर्वनिपातः प्राप्नोति । षष्ठीसमासे हलन्तरापेक्षं हल आदित्वम्, नाभ्यासापेक्षमिति अजादिष्वपि प्रसङ्गः । ठक्षु व्याप्तौऽ लिट्, आनक्ष, अत्र ककारस्य शेषः प्राप्नोति । आटतुरित्यादावप्यादिवद्भावात्प्रसङ्गः । कर्मधारयासमासयोस्तु अभ्यासापेक्षमादित्वमिति नायं दोषः । अनादिर्लुप्यते इति । हलित्यपेक्ष्यते, एतेनासमासपक्षो दर्शितः । समासे ह्युपसमस्तस्यापेक्षायोगादनादिर्हलिति पुनर्हल्ग्रहणं कर्तव्यम् । ननु शेषोऽवस्थानं तत्वादेः प्राप्तमेव, तत्किमेतेन ? अत आह - आदिशेषनिमितोऽयमिति । सत्यम्,’सिद्धे सत्यारम्भो नियमार्थः’ , आदिरेव शिष्यते न त्वनादिरिति, ततश्चादिशेषनिमितोऽयमनादेर्लोपो विधीयत इति नास्यानर्थक्यमित्यर्थः । यद्यादिशेषो निमितमनादिलोपस्य, पपाचेत्यादौ यत्रादेर्हलोऽवस्थानं तत्रैवान्यस्य निवृत्तिः स्यात्, आटतुरित्यादौ तु न स्यादित्यत आह - तत्रेति । जातिपक्षे अभ्यासजातावेवादेरवस्थानमपेक्षितम्, न प्रतिव्यक्तीति दोषाभावः । अपरे त्विति । पूर्वत्र पक्षेऽवस्थानमेव शब्दार्थः, नियमाश्रयणाअत्वितरव्यावृत्तिः; अत्र तु पक्षे निवृत्तिरपि गुणभूतशेषशब्देनैवोच्यते । ततः किम् ? इत्यत आह - तदवस्थानमित्यादि । उक्तितःउशब्दव्यापारतः । अविधेयत्वात्विति । आर्थमप्राधान्यं दर्शयति । निवृत्तिस्तु विपरीतेत्याह - निवृतेरेव त्विति । लोकेऽपि’चङ्क्रम्यमाणो’ धीष्वात्र जपÄश्चमङ्क्रणं कुरुऽ इत्येवमर्थाभेदेऽपि शब्दोद्भेदः प्रतीयते । ततः किम् ? इत्यत आह - तत्रेति । साविधेयत्वात्प्रदानभूता सती निवृत्तिः । किमित्यादेरनिवृत्तिमपेक्षिष्यते । किम्भूताम् ? अविधेया सतीम् । अविधेयत्वादप्रधानभूतां सतीमित्यर्थः । न प्रधानं गुणनुवर्ति, तस्मादपेक्षाकरणं नास्तीत्यर्थः । भाष्ये परिहारान्तरम् -‘हल्’ इत्येको योगः, ठत्र लोपःऽ इति वर्तते; स च कर्मसाधनः, यथा’हल्ङ्याब्भ्यो दीर्घात्’ इत्यत्र, अभ्यासस्य हल् लुष्यते, तत आदिः शेषः; यद्वा -‘ह्रस्वोहलादिः शेषः’ इति संहितापाठ एव, तत्राहलिति पदच्छेदः - अभ्यासोऽहल् भवति, अविद्यमानहल्को भवति, तत आदिः शेष इति ॥
Nyaas¶
डुढौकिषते, तुत्रौकिषते इति। ढौकृ, त्रौकृ - इत्येताभ्यामनुदात्तेत्त्वादात्मनेपदिभ्यां सन्, पूर्ववत्सनः (1.3.62) इत्यात्मनेपदम्। अडुढौकत्, अतुत्रौकत् इति। आभ्यामेव ण्यन्ताभ्यां लुङ्, पूर्ववच्चङादिकार्यम्। डुढौके, तुत्रौके इति। लिट, एकवचनम्, तस्यैश्। अभ्यासस्यानचि इत्यादि। अभ्यासस्य यत्? कार्यं विधीयते तदनचिपरे भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - वा चरिचलिपतिददोनामच्याक्याभ्यासस्य (वा।658) इत्यागमविघानसामर्थ्याद्धलादिशेषेण न भवितव्यम्। हलादिशेषे हि सत्यादेशस्यागमस्य च कइआद्विशेषो नास्तीत्यादेशमेव विदध्यात्। एवञ्च - अभ्यासलोपाभावात्? पारिशेध्यादचोऽन्यत्रैव भविष्यति॥
Prakriyasarvasvam¶
अभ्यासस्य ह्रस्वः स्यात् ।