74051: रि च¶
Padacheda: रि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
तास्-प्रत्ययस्य अन्तिमवर्णस्य रेफे परे लोपः भवति ।
लुट्-लकारस्य विकरणप्रत्ययः ‘तास्’ - इत्यस्य रेफे परे लोपः जायते । अलोऽन्त्यस्य (1.1.52) इत्यनेन अयं लोपः अन्तिम-वर्णस्यैव भवति । यथा, पठ्-धातोः लुट्-लकारस्य प्रथमपुरुष-द्विवचनस्य रूपम् - पठ् + लुट् [अनद्यतने लुट् (3.3.15) इति लुट्] → पठ् + तास् + ल् [स्यतासी लृलुटोः (3.1.33) इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [आर्धधातुकस्येड्वलादेः (7.2.35) इति इडागमः] → पठ् + इ + तास् + तस् [तिप्तस्.. (3.4.78) इति तस् ] → पठ् + इ + तास् + रौ [ लुटः प्रथमस्य डारौरसः (2.4.85) इति तस्-प्रत्ययस्य रौ-आदेशः] → पठ् + इ + ता+ रौ [रि च (7.4.51) इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → पठितारौ ज्ञातव्यम् - अस्मिन् सूत्रे ‘तास्त्योः’ इत्यस्मात् केवलं ‘तास्’ इति अनुवर्तते, ‘अस्’ इति न - यतः अस्-इत्यस्मात् परे रेफादिप्रत्ययः न भवितुम् सम्भवति ।
Sutrartha (English)¶
The last letter (सकार) of the तास्-प्रत्यय is removed when followed by a रेफ.
Vasu English Summary¶
The final स् of तास् (the character of the second future) and अस् ‘to be’ is elided before an affix beginning with र्।
Vasu English Translation¶
The final स् of तास् (the character of the second future) and अस् ‘to be’ is elided before an affix beginning with र्। As कर्तारौ, कर्त्तारः, अध्येतारौ, अध्येतारः ॥ The स् of अस् ‘to be’ is elided in the Perfect, because it is there that a र् beginning affix can follow it. Thus व्यतिरे (See (6.4.111). According to the reading of Padamanjari, there can be no example of अस् ॥ अस्तेरुदाहरणं न प्रदर्शितं, रेफादेरसम्भवात् ॥
Kashika¶
रेफादौ च प्रत्यये परतः तासस्त्योः सकारास्य लोपो भवति। कर्तारौ। कर्तारः। अध्येतारौ। अध्येतारः।
Siddhanta Kaumudi¶
रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥
Laghu Siddhanta Kaumudi¶
रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः॥
Balamanorama¶
रि च - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते, ततो रादिप्रत्ययस्याऽसंभवात् ।
Tattvabodhini¶
रि च - प्राग्वदिति । तासेर्लोप इत्यर्थः । अस्तिस्तु नेह संबध्यते,ततो रादिप्रत्ययस्याऽसंभवात्॥
Padamanjari¶
अस्तेरुदाहरणं न प्रदर्शितम्, रेफादेरसम्भवात् ॥
Nyaas¶
कर्तारौ, कर्तारः इति। लुट्, तस्, झिः, लुटः प्रथमस्य डारौरसः (2.4.85) इति तसो झेश्च यथाक्रमं रौरसौ भवतः। अध्येतारौ, अध्येतारः इति। इङो ङित्त्वादत्मनेपदम्? आताम्, झः तयोश्च पूर्ववद्रौरसौ। अस्ते रेफादिप्रत्ययो न सम्भवतीति नास्त्युदाहरणम्। केचित्तु - व्यतिरे इत्युदाहरणं दर्शयन्ति; एतच्च च्छब्दस्येवं प्रयोगो यद्यसति ततो युक्तम्, अथ तु नास्त्येवं सत्ययुक्तम्। इरयो रे (6.4.76) इति रेभावश्छन्दसि विधीयते, यथादृष्टानुविधिश्छन्दसि (व्या।प।68) इति। चकारः पूर्वापेक्षया समुच्चयार्थः॥
Prakriyasarvasvam¶
रेफादौ (प्रत्यये) परे तासेः सस्य लोपः स्यात् । भवितारौ । भवितारः । भवितास् सि ।