74047: अच उपसर्गात्तः

Padacheda: अचः | S | 5 | 1 |

उपसर्गात् | S | 5 | 1 |

तः | S | 1 | 1 |

Sutrartha


Vasu English Summary

त् is substituted for the घु - दाधा घ्वदाप् (1.1.20), before a कित् affix beginning with त when a preposition ending in a vowel preceded it.

Vasu English Translation

त् is substituted for the घु - दाधा घ्वदाप् (1.1.20), before a कित् affix beginning with त when a preposition ending in a vowel preceded it. The examples under the present sutra are प्रत्तं, अवत्तं, नीत्तं, परीत्तं ॥ For the lengthening see (6.3.124). Why do we say ‘ending in a vowel’? Observe निर्दत्तम् दुर्दत्तम् ॥ Why ‘after an Upasarga only’? Observe दधि दत्तम्, मधु दत्तम् ॥ Why ‘the दा called Ghu’? Observe अवदात्तं from दैप् ॥

Objection: The word उपसर्गात् in the sutra is in the Ablative case, and by (1.1.67), the substitute त् should replace only the first letter of दा, how does it replace the whole ?

Answer: The word अचः is to be repeated in the sutra, one अचः being in the Ablative case and qualifying उपसर्गात्, and the other अचः being in the Genitive case, showing the sthanin to be आ, as “after an Upasarga ending in vowel, त् is substituted for the vowel of दा”. Or the word अस्य may be read into this sutra from (7.4.32). Or उपसर्गात्त्तः consists of three त्’s, the substitute being त्त, and being a substitute of more than one letter, it replaces the whole of दा (1.1.55). In the following sutra अपोभि, the अचः in the Ablative case is understood, and therefore त् replaces only प् ॥

Vart:- After a Preposition ending in a vowel, त is substituted for दा (दो), when इ would have been substituted otherwise for its final by (7.4.40). As अवदत्तम्, प्रत्तम् जुहोति and नीत्तं, वीत्तं ॥

Bhashya

अच उपसर्गात्तः ॥ अच उपसर्गात्तत्वे आकारग्रहणम् ॥ अच उपसर्गात्तत्वे आकारग्रहणं कर्तव्यम् ॥ न कर्तव्यम् ॥ अलोऽन्त्यस्य विधयो भवन्तीत्याकारस्य(1) भविष्यति ॥ न सिध्यति ॥ किं कारणम् ? ॥ आदेर्हि परस्य ॥ अत्र हि तस्मादित्युत्तरस्यादेः परस्येति दकारस्य प्राप्नोति ॥ नैषः दोषः ॥ अवर्णप्रकरणात्सिद्धम् ॥ ( अवर्णप्रकरणात्सिद्धमेतत् ) ॥ अस्येति वर्तते ॥ क्व प्रकृतम् ? ॥ अस्य च्वाविति ॥ यद्यवर्णग्रहणमनुवर्तते तद्भावे दोषो भवति ॥ एवं तर्ह्येवं वक्ष्यामि - दोऽद्धोरिति(2) । दो य आकारस्तस्याऽद्भवति ॥ ततः अच उपसर्गात्तः। अस्येत्येव ॥ एवमपि सूत्रभेदः कृतो भवति ॥ नाऽसौ(3) सूत्रभेदः । सूत्रभेदं तमुपाचरन्ति(4) यत्र तदेवाऽन्यत्सूत्रं क्रियते भूयो वा, यद्धि( 5) तदेवोपसहृत्य क्रियते नासौ सूत्रभेदः । अथ वा द्वितकारको निर्देशः क्रियते सोऽनेकाल्शित्सर्वस्येति सर्वस्य भविष्यति ॥ इहापि तर्हि प्राप्नोति - अदि्भः, अद्भ्य इति ॥ अचेति वर्तते । तच्चाऽवश्यमज्ग्रहणमनुर्वत्यं - लवाभ्यामित्येवर्थम् ॥ अथ वा त्रितकारको निर्देशः करिष्यतेः-इहाऽर्थौ द्वावुत्तरार्थश्चैवः ॥ द्यतेरित्त्वादचस्तः ॥ द्यतेरित्त्वादचस्त इत्येतद्भवति विप्रतिषेधेन । द्यतेरित्त्वस्याऽवकाशः निर्दितं निर्दितवान् । अचस्त इत्यस्याऽवकाशः - प्रत्तमवत्तम् । इहोभयं प्राप्नोति - नीत्तं, वीत्तम् । अचस्त इत्येतद्भवति विप्रतिषेधेन ॥ (अच उप) ॥

Kashika

अजन्तादुपसर्गादुत्तरस्य दा इत्येतस्य घुसंज्ञकस्य त इत्ययमादेशो भवति तकारादौ किति। प्रत्तम्। अवत्तम्। नीत्तम्। परीत्तम्। अचः इति किम्? निर्दत्तम्। दुर्दत्तम्। उपसर्गातिति किम्? दधि दत्तम्। मधु दत्तम्। घोः इत्येव, अवदातम् मुखम्। उपसर्गातिति पञ्चमीनिर्देशादादेरलः प्राप्नोति? तत्र समाधिमाहुः। अचः इत्येतद् द्विरावर्तयितव्यम्, तत्र एकं पञ्चम्यन्तं उपसर्गविशेषणार्थम्, अपरमपि षष्ठ्यन्तं स्थानिनिर्देशर्थम् इत्याकारस्य स्थाने तकारो भवति। द्वितकारो वा संयोगोऽयमादिश्यते, सोऽनेकाल्त्वात् सर्वस्य भविष्यति। अपो भि (7.4.48) इत्यत्र पञ्चम्यन्तमचः इत्यनुवर्तते। तेन पकारमात्रस्य भविष्यति। द्यतेरित्त्वादचस्त इत्येतद् भवति विप्रतिषेधेन। अवत्तम्। प्रत्तं जुहोति।

Siddhanta Kaumudi

अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति । चर्त्वम् । प्रत्तः । अवत्तः । अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमवुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥

Balamanorama

अच उपसर्गात्तः - अच उपसर्गात्तः । त इत्यत्राऽकार उच्चारणार्थः । ‘अच’ इत्यावर्तते, एकमुपसर्गविशेषणं, द्वितीयं तु स्थानिसमर्पकं । तदाह — अजन्तादिति । घोरिति । घोरवयवस्येत्यर्थः । तः स्यादिति । तकारः स्यादित्यर्थः । ददादेशापवादः । चत्त्र्वमिति । प्र दा त इति स्थिते दकारादाकारस्य तकारादेशे दकारस्य चर्त्वेन तकार इत्यर्थः । अवदत्तं विदत्तं चेति । भाष्यस्थश्लोकोऽयम् । अत्र आदिकर्मणीत्येतत् प्रदत्तमित्यत्रैव संबध्यते । नाऽयम् ‘अच उपसर्गात्तः’ इत्यस्याऽपवाद इति भ्रमितव्यमित्याह — चशब्दाद्यथाप्राप्तमिति । तथा चाऽवदत्तादिशब्देषु ददादेशोऽपि कदाचिल्लभ्यते इत्यर्थः । अत एव प्रकृतसूत्रभाष्ये ‘अच उपसर्गात्तःर’ इत्यस्यावकासः — प्रत्तमवत्तमिति सङ्गच्छते इति भावः ।

Tattvabodhini

अच उपसर्गात्तः - अच उपसङख्यार्गात्तः । तकारादकार उच्चारणार्थः ।अच॑ इत्यावर्तते । तत्रैकं पञ्चम्यन्तमुपसर्गं विशिनष्टि । अपरं षष्ठन्तं स्थानलाभायेति व्याचष्टे — अजन्तादित्यादिना । यद्वाअच इत्यनावृत्तं पञ्चम्यन्तमेवास्तु किं तु द्वितकारकोऽयमादेशस्तेनानेकाल्त्वात्सर्वस्य घोर्भवविष्यति । एकतकारो हिअलोऽन्त्यस्ये॑ति बाधित्वाआदेः परस्ये॑ त्यादेरेव स्याद चेति पञ्चमीनिर्देशात् । यद्येवम्अपो भी॑ त्युत्तरसूत्रेऽपि द्वितकार एवेति सर्वादेशः स्यादिति चेत् । अत्राहुः — पञ्चम्यान्तस्याऽच इत्यनुवृत्तेरचः परस्य पकारस्यैव भविष्यत तत्रान्त्यस्य संयोगान्तलोपे पूर्वस्य जश्त्वेन सिद्धमिष्टमिति । अवदत्तमित्यादि । आदिकर्मणीत्येतत्प्रदत्तमित्यस्यैव विशेषणं, नेतरेषाम् , असंभवात् । दातुं प्रक्रान्तमारब्धमिति प्रदत्तमित्यस्याऽर्थः । इष्यते इति । तादेशबाधनार्थं निपातनमिष्यत इत्यर्थः । अन्ये तु अवादीनामपुसर्गप्रतिरूपकत्वाश्रयणे ह्रवदत्तं विदत्तमित्यादि सिध्यति, उपसर्गत्वाश्रयणे तु पूर्वोक्तमवत्तं वीत्तमित्यादीति नाऽपूर्वमिदं वचनमित्याहुः ।

Padamanjari

त इत्ययमिति । तकारेऽकार उच्चारणार्थः । प्रतमिति । तत्राकारस्य तकारे दकारस्य चर्त्वम् । नीतमिति ।’दस्ति’ इति दीर्घत्वम् । आदेरलः प्राप्नोतीति । ठादेः परस्यऽ इति वचनात् । अच इत्येतदावर्तत इति । यद्वा - अस्येति वर्तते, क्व प्रकृतम् ? ठस्यच्वौऽ इति,’दोदद्घोः’ इत्ययमपि दद्भावोऽवर्णस्य प्राप्नोति, ततश्च दतमिति संयोगादि श्रूयते, एवं तर्ह्येवं वक्ष्यामि -‘दो’ द्घोःऽ इति, दो य आकारस्तस्याद्भवतीति । द्वितकारकोवेति । ठलोऽन्त्यस्यऽ इत्येतस्य द्वावपवादौ - ठादेः परस्यऽ, ठनेकाल्शित्सर्वस्यऽ इति, तयोर्विप्रतिषेधे परः प्रवर्तते । ठपो भिऽ इत्यत्रापि तर्हि सर्वादेशप्रसङ्गः ? अत आह - अपो भीत्यत्रेति । अत्र द्वयोस्तकारयोरन्त्यस्य संयोगान्तलोपः, पूर्वस्य जश्त्वम् । अत्र केचिदाहुः - अवश्यमत्राच इत्यनुवर्त्यम्, अन्यथा लूञ् ठृदोरप्ऽ, लवाभ्यामित्यत्रापि स्यादिति, तन्न; लुप्ते पकारे नाप्शब्द इति नात्र भविष्यति ॥ भूतपूर्वगतिर्युक्ता न साम्प्रतिकसम्भवः । न प्रत्ययाप्रत्यययोरित्यस्याप्यत्र सम्भवः ॥

Nyaas

ददादेशस्यायमपवादः। त इत्ययमादेशो भवति इति। अकार उच्चारणार्थः। प्रत्तमित्यादावाकारस्य तकारे कृते दकारस्य चर्त्वम् - तकारः नीत्तम् इति। दस्ति (6.3.123) इति दीर्घत्वम्। अवदात्तम् इति। दैप्? शोधने (धातुपाठः-924) इत्येतस्यैतद्रूपम्। आदेरलः प्राप्नोति इति। आदेः परस्य (1.1.54) इति वचनात्। अच इत्येतद्द्विरावर्तयितव्यम् इति। अचः इत्येतस्य द्विरावृत्तावचोऽचेति द्वे शब्दरूपे भवतः। तत्रैकं पञ्चम्यन्तम्; अपरं षष्ठन्तम्। तत्रैकेनोपसर्गो विशिष्यते - अजन्तादुपसर्गादिति। इतरेणापि स्थानी निर्दिश्यत इत्येवमाकारस्यायमादेशो भवति। द्वितकारो वा इति। अथ वा - अच उपसर्गात्तः इति। द्वितकार एव संयोगादेशो निर्दिश्यते, तेनास्यानेकास्त्वात्? सर्वस्यैव भवति, यदि तर्हि द्वितकारकोऽयं निर्देशस्तदा अपो भि (7.4.48) इत्यनेनापि सर्वादेशः प्राप्नोति, नेकाल्त्वादित्याह - अषो भि इत्यादि। अपो भि इत्यत्र पञ्चम्यन्तमच इत्यनुवर्तते, तेन सत्यप्यनेकाल्त्वे तस्मादित्युत्तरस्य (1.1.67) इति पकारमात्रस्य भविष्यति, न सर्वस्येति। द्यतेः इत्यादि। द्यतेरित्यस्यावकाशः - यत्राजन्त उपसर्गो न भवति - निर्दितम्, दुर्दितमिति; अस्यादेशस्यावकाशः - अजन्तादुपसर्गात्? परो योऽन्यो घुसंज्ञकः - डुदाञ्? दाने (धातुपाठः-1091), अवत्तम्, परीत्तमिति; अजन्तादुपसर्गादुत्तरस्य द्यतेरुभयप्रसङ्गे सति तकार एव भवति विप्रतिषेधेन - अवत्तम्, प्रत्तमिति॥

Prakriyasarvasvam

अजन्तादुपसर्गात् परस्य घोर्धातोराकारस्य तकारः स्यात् । दस्य चर्त्वम् । तस्य ‘अनचि च’ (८-४-४७) इति द्वित्वे चत्वारस्तकाराः । द्विः ‘झरो झरि’— (८-४-६५) इति लोपे द्वयशेषः । प्रत्तः अवत्तः ॥

Sutra Prayogas

  • प्रत्तम (भट्टिकाव्यम्): अच उपसर्गात् तः इति प्रत्तं प्रदत्तम्।

  • प्रत्तमुपायंसत (भट्टिकाव्यम्): अच उपसर्गात्तः इति तकारः।

  • आस्पदम् (भट्टिकाव्यम्): अच उपसर्गात्तः इति आस्पदं राज्यं प्राप्तवन्तौ।