74046: दो दद् घोः

Padacheda: दः | S | 6 | 1 |

दथ् | S | 1 | 1 |

घोः | S | 6 | 1 |

Sutrartha


Vasu English Summary

For दा , when it is a घु - दाधा घ्वदाप् (1.1.20), there is substituted दद् before a कित् affix beginning with त् ।

Vasu English Translation

For दा , when it is a घु - दाधा घ्वदाप् (1.1.20), there is substituted दद् before a कित् affix beginning with त् । As दत्तः, दत्तवान्, दत्तिः ॥ Why of दा? Observe धीतः, धीतवान् from घेट् : and the long ई is by (6.4.66). Why when it is a Ghu? Observe दातं बर्हिः from दाप् ‘to cut’, and अवदातं मुखं from दैप् ‘to cleanse’, The substitute is दथ् ending in थ, according to an Ishti.

Karika:-

तान्ते दोषो दीर्घत्वं स्वाद्, दान्ते दोषो निष्ठा नत्वम् । धान्ते दोषो धत्व प्राप्तिम्, थान्तेऽदोषस्तस्मात् थान्तम् ॥

If the substitute be दत् ending in त्, then it would require the lengthening taught in (6.3.124) (N. B. The sutra should be interpreted as ‘the vowel of the Preposition is lengthened before a substitute of क्ष which ends in त्’, in order to make this objection applicable. That sutra however is capable of another interpretation). If the substitute be दद् ending in द् then the Nishtha त would be changed to न by (8.2.42): as in भिद् + त = भिन्नः ॥ If the substitute be दध् ending in ध्, then by (8.2.40); the Nishtha त would be changed to ध ॥ Hence the substitute is दथ् ॥ If however, the sutra (6.3.124), is interpreted as “the vowel of a preposition is lengthened before a substitute of दा which begins with त्”, then the substitute may be दत् also without any harm. Even if the substitute be दद् or दध्, the apprehended न् and ध् substitutions will not take place, on the maxim सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य ॥

The following are exceptions to (7.4.47), अवदत्तं, विदत्तं, प्रदत्तं, सुदत्तं, अनुदत्तं and निदत्तं ॥ Or the words अव &c, here are not Upasargas. See (1.4.57).

Karika:-

अवदत्तं विदत्तं च प्रदत्तं चादिकर्म्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥

The word आदिकर्मणि qualifes pradatta only. The word च shows that regular forms अवत्तं, वित्तं, प्रत्तं, &c also are valid.

Bhashya

दो दद्धोः ॥ अवदत्तं विदत्तं च प्रदत्तं चाऽऽदिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥ किं पुनरयं तकारान्त आहो स्विद्दकारान्त उत धकारान्तोऽथ वा थकारान्तः ? ॥ कश्चात्र विशेषः ? ॥ तान्ते दोषो दीर्घत्वं स्यात्(2) ॥ यदि तकारान्तो दस्तीति दीर्घत्वं प्राप्नोति ॥ दान्ते दोषो निष्ठानत्वम्(2) ॥ अथ दकारान्तो रदाभ्यां निष्ठा तो न इति नत्वं प्राप्नोति । ॥ धान्ते(2) दोषो धत्वप्राप्तिः ॥ अथ धान्तो झषस्तथोर्धोऽधइति धत्वं प्राप्नोति ॥ थान्तेऽदोषस्तस्मात्थान्तः ॥ अथ थकारान्तो न दोषो भवति ॥ (दो दद्धोः ) ।

Kashika

दा इत्येतस्य घुसंज्ञकस्य ददित्ययमादेशो भवति तकारादौ किति प्रत्यय परतः। दत्तः। दत्तवान्। दत्तिः। दः इति किम्? धीतः। धीतवान्। धेटः एतद् रूपम्। घोः इति किम्? दाप् लवने दातं बर्हिः। दैप् शोधने अवदातम् मुखम्। अयमादेशः थान्तः इष्यते। एवं ह्युक्तम् तान्ते दोषो दीर्घत्वं स्याद् दान्ते दोषो निष्ठानत्वम्। धान्ते दोषो धत्वप्राप्तिस्थान्तेऽदोषस्तस्मात् थान्तम्। यदि तु दस्तीति तकारादौ दीर्घत्वं तदा तान्तेऽपि अदोषः। दान्तधान्तयोरपि सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति नत्वधत्वे न भविष्यतः इति न दोषः। अवदत्तं विदत्तम् च प्रदत्तं चादिकर्मणि। सुदत्तमनुदत्तं च निदत्तम् इति चेष्यते। अच उपसर्गात् तः (7.4.47) इति प्राप्ते निपात्यन्ते। अनुपसर्गा वा एते अवादयः क्रियान्तरविषया वेदितव्याः।

Siddhanta Kaumudi

घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किति । चर्त्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः न चैवं विदत्तमित्यादावुपसर्गस्य दस्ति (SK3079) इति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोः - (SK2280) इति धत्वं शङ्क्यम् । सन्निपातपरिभाषाविरोधात् ॥

Laghu Siddhanta Kaumudi

घुसंज्ञकस्य दा इत्यस्य दथ् स्यात् तादौ किति। चर्त्वम्। दत्तः॥

Tattvabodhini

दो दद् घोः - दो दद्धोः । इहादेशः थान्त एव, न तु त-द-धान्तः, जश्त्वे कृते संहितायास्तुल्यत्वेऽपि प्रक्रियायां दोषादिति प्राञ्चः । तथा चाहुः — तान्ते दीर्घत्वाख्यो दोषो, दान्ते दोषो निष्ठानत्वम् । धान्ते दोषो धत्वाख्यः स्यान्निर्दोषत्वात्थान्तो ग्राह्रः॑ इति । तदनुसारेणाह — दथ्स्यादिति । दात इति । दाप् लवने ।अदा॑बिति निषेधान्न घुत्वम् । इह सर्वे प्षाः सूपपादा इत्याह - तान्तो वेत्यादिना । दीर्घापत्तिरिति । विदत्तमित्यादावुपसर्गस्येत्यर्थः ।दस्तीटत्यत्र द्वौ पक्षौ — इत्यस्य य आदेशः स तकारान्तः॑तकारादिर्वे॑ति । तत्राद्ये पक्षेऽयं दोषो नान्त्ये इत्याशयेनोक्तदोषं परिहरति — तकारादाविति । निष्टानत्वमिति ।रदाभ्याटमित्यनेन । सन्निपातेति । तादि निमित्तीकृत्य विहतो यो दान्ताद्यादेशः स तकारविघातकनत्वादिविधेर्निमित्तं न भवतीति भावः ।

Padamanjari

धीत इति । घुमास्थादिसूत्रेणेत्वम् । घेट एतद्रपमिति । दधातेस्तु’दधातेर्हिः’ इति हिरादेशो भवति । दातमिति ।’दाप् लवने’ । लूनमित्यर्थः । अवदातमिति ।’दैप् शोधने’ । अयमादेशस्थान्त इष्यत इति । कुतः ? इत्याह - एवं ह्युक्तमिति । यद्यपि दकारः श्रूयते, तथापि संहितायां तकारादीनामपि जश्त्वे कृते एतस्य रूपस्य सम्भवाच्चतुर्णां पक्षाणां सम्भवः । यद्ययमादेशस्तकारान्तः स्यात्, सुदतमित्यत्र’दस्ति’ इति दीर्घत्वं स्यात्;’दा’ इत्यतस्य यस्तस्तस्मिन्निति हि तत्रार्थः । अथ दकारान्तः, रदाभ्याम्ऽ इति नत्वं प्रसज्येत । अथ धकारान्तः,’झषस्तथोर्धो’ धःऽ इति धत्वमापद्येत । थान्तेऽदोष इति । नञोऽत्र प्रश्लेषः,’तस्मात्थान्तः’ इति निगमनात् । यदि त्विति ।’दस्ति’ इत्यत्र द्वौ पक्षौ -‘दा- इत्येतस्य यस्तकारान्त आदेशः, तकारादिर्वेति । तत्र द्वितीयपक्षे नायं दोषः । दान्तधान्तयोरपीति । तकारादिप्रत्ययसन्निपातेन भवन् दद्भावो न तद्विघातस्य निमितं भवति । अवदतमित्यादि । आदिकर्मणीति इत्येतत्प्रदतमित्येतस्य विशेषणम्, नेतरेषाम्; असम्भवात् । इति चेष्यत इति । चकारद्यथाप्राप्तं च, तेन अवतम्, वितम्, प्रतमित्याद्यपि भवति । अनुपसर्गा वा एत इति । कथमनुपसर्गत्वम् ? इत्यत आह - क्रियान्तरविषया इति । अवगतं दतमिति गमिना’ वादिनां योगः, ततश्च’यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति’ इति ददातिं प्रत्यनुपसर्गत्वम् ॥

Nyaas

छन्दसीति निवृत्तम्; पूर्वसूत्रे चकारेणानुकृष्टत्वात्। दत्तः दत्तवान् इति। क्तक्तवतू। दत्तिः इति। क्तिन्। धीतः, धीतवान् इति। पूर्ववदीत्त्वम्। अथ दधातेर्हिः (7.4.42) इति हिरादेशः कस्मान्न भवति? इत्यत आह - घेट एतद्रूपम् इत्यादि। धेट्? पाने (धातुपाठः-902) इत्यस्य रूपम्, न दधातेः। तेन हिरादेशो न भवतीति भावः। दातम् इति। दाप्? लवने (धातुपाठः-1059) इत्येतस्यैतद्रूपम्; तस्य घुसंज्ञा नास्ति; अदाप् (1.1.19) इति प्रतिषेधात्। दो दद्घोः इति जश्त्वेनायं न्र्देशः, तत्र न ज्ञायते - किं तककारान्तोऽयमादेशः? आहोस्विद्दकारान्तः? उत धकारान्तः? अथ थकारान्त इति वा - इति कस्यचिद्भ्रान्तिः स्यात्, अतस्तां निराकर्त्तुमाह - अयमादेशः इत्यादि। कथं ज्ञायते? इत्याह - एवं ह्रुक्तम् इत्यादि। यद्ययमादेशस्तकारान्तः स्यात्, सुदत्तेत्यत्र इकः काशे (6.3.123) इत्यनुवर्तमाने दास्ति (6.3.123) इती दीर्घत्वं स्यात्। अथ दकारान्तः, तदा रदाभ्याम् (8.2.42) इति निष्ठानत्वं स्यात्। अथ धकारान्तः, तदा झषस्तथोर्घोऽधः (8.2.40) इति झषन्ताद्धत्वमापद्येत निष्ठातकारस्य। थान्तेऽदोषः इति। नञोऽत्र प्रश्लेषः। थान्ते दोषो नास्तोत्यर्थः। तस्मात् इत्यादि। यस्मात्? त्रिषु पूर्षकेषु पक्षेषु दोषः, तस्मात्थान्तोऽयमादेशः। उदाहरणे दत्तः, दत्तवानिति खरि च (8.4.54) इति चर्त्वम - थस्य तः। यदि तु इत्यादि। द्वौ पक्षौ भाध्ये दस्ति (6.3.123) इत्यत्र दर्शितौ - दा इत्येतस्मस्तकारादौ, तकारान्ते वेति। तत्र यदि तकारान्ते दा इत्येतस्मिन्? दीर्घत्वं भवतीति - एष पक्ष आश्रीयते, तदैव दीर्घत्वप्राप्तिदोषः। यदि तु तकारादौ दा इत्येतस्मिन्? दीर्घत्वं भवतीति - एष पक्ष आश्रीयते, तदा तान्तेऽप्यदोषः। यत्र तकारादित्वम्, दा इत्येतस्य, तत्र दीर्घत्वं भवत - नीत्तम्, वीत्तमित्यादौ, न तु सुदत्तादौ। तस्मात्? पाक्षिको दीर्घप्राप्तिदोषः। दान्तधान्तयोरपि इत्यादि। तकारादिसन्नियोगेन हि दान्तधान्तावादेशाविमौ विहितौ नोत्सहेते तद्विघातनिमित्ततामुपगन्तुम्। तस्माद्दान्तधान्तयोरप्यदोषः। अवदत्तम् इत्यादि। आदिकर्मणि=क्रियारम्भे। आदिभूतक्रियाक्षण इत्यर्थः। अत्र अच उपसर्गात्तः (7.4.47) इति तकारादेशे प्राप्त एतेऽवदत्तादयो निपात्यन्ते। आदिकर्मणि इति च सर्वेषां विशेषणम्, न तु प्रदत्तमित्यस्यैव। आदिकर्मणोऽन्यत्र अच उपगर्गात्तः (7.4.47) इति तकारादेशो भवति, न तु दद्भावः - अवत्तम्, वीत्तम्, सूत्तम्, अनूत्तमिति। अनुपसर्गाः इत्यादि। अथ वा - अवादयो ददातिं प्रत्युपसर्गसंज्ञका एव न भवन्ति; तद्वाच्यायाः क्रियया अन्या या क्रिया गमिर्वाच्या तद्विषयत्वात् - अवगतं दत्तमवदत्तमित्येवमन्यत्रावगन्तव्यम्। तस्माद्? गमिं प्रत्युपसर्गसंज्ञका एते, न ददातिं प्रति। तथा ह्रुक्तम् - यं प्रति क्रियायृक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका भवन्तीति। तस्मादुपसर्गसंज्ञाया अभावान्नैवात्र तकारः प्रसजेदिति किं निपातनेन!॥

Prakriyasarvasvam

घुसंज्ञस्य दाधातोस्तादौ किति परे दत् स्यात् । दत्तः, दत्तवान् । दाप्दैपोस्त्व- घुत्वाद् दातम् अवदातम् ॥

Sutra Prayogas

  • दक्त्रिम-सभय-तोषे (भट्टिकाव्यम्): दोदद्धोः इति ददादेशः।