74048: अपो भि

Padacheda: अपः | S | 6 | 1 |

भि | S | 7 | 1 |

Sutrartha


Vasu English Summary

त् is substituted for the final of the अङ्ग (stem) अप् before a case-ending beginning with भ्।

Vasu English Translation

त् is substituted for the final of the अङ्ग (stem) अप् before a case-ending beginning with भ्। As अद्भ्याम्, अद्भिः, अद्भ्यः ॥ Why beginning with a भ? Observe अप्सु ॥

In the Veda, त् is substituted before भ, for the final of स्ववस्, from सु + अव् + असुन्; meaning सोभनमवोयेषां; स्वतवस् from the root तु meaning स्वं तवो येषां; मास and उषस्, as स्ववद्भिः, स्वतवद्भिः, माद्भिरिष्टा इन्द्रो वृत्रहा, समुषद्भिरजायथाः ॥ The word मास becomes मास् by (6.1.63).

Bhashya

अपो भि ॥ अपो भि मासश्छन्दसि(1) ॥ अपो भीत्यत्र मासश्चन्दस्युपसङ्ख्यानं कर्तव्यम् । मादि्भरिष्ट्वा इन्द्रो वृत्रहा ॥ अत्यल्पमिदमुच्यते ॥ स्ववस्स्वतवसोर्मास उषसश्च त इष्यते ॥ स्ववदि्भः., स्वतवदि्भः, समुषदि्भरजायथाः । मादि्भरिष्टावा इन्द्रो वृत्रहा ॥ ( अपो भि )

Kashika

अपित्येतस्य अङ्गस्य भकारादौ प्रत्यये परतः त इत्ययमादेशो भवति। अद्भिः। अद्भ्यः। भि इति किम्? अप्सु। स्ववःस्वतवसोर्मास उषसश्च तकारादेश इष्यते छन्दसि भकारादौ। स्ववद्भिः। स्वतवद्भिः। माद्भिरिष्ट्वा इन्द्रो वृत्रहा। समुषद्भिरजायथाः।

Siddhanta Kaumudi

अपस्तकारः स्याद्भादौ प्रत्यये परे । अद्भिः । अद्भ्यः 2 । अपाम् । अप्सु । दिक् । दिग् । दिशौ । दिशः । दिग्भ्याम् । दिक्षु । त्यदादिषु (SK429) इति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक् । दृग् । दृशौ । दृशः । त्विट् । त्विड् । त्विषौ । त्विषः । त्विड्भ्याम् । त्विट्त्सु । सह जुषते इति सजूः । सजुषौ । सजुषः । सजूर्भ्याम् । सजूष्षु । सजूःषु । षत्वस्यासिद्धत्वाद्रुत्वम् । आशीः । आशिषौ । आशिषः । आशीर्भ्याम् । असौ । त्यदाद्यत्वं टाप् । औङः शी । उत्वमत्वे । अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमूभ्याम् । अमूभ्यः । अमुष्याः 2 । अमुयोः 2 । अमूषाम् । अमुष्याम् । अमूषु ॥

Laghu Siddhanta Kaumudi

अपस्तकारो भादौ प्रत्यये । अद्भिः । अद्भ्यः / अपाम् । अप्सु ॥ दिक्, दिग् । दिशः । दिग्भ्याम् ॥ त्यदादिष्वति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक्, दृग् । दृशौ । दृग्भ्याम् ॥ त्विट्, त्विड् । त्विषौ । त्विड्भ्याम् ॥ ससजुषो रुरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् ॥ आशीः । आशिषौ । आशीर्भ्याम् ॥ असौ । उत्वमत्वे । अमू । अमूः । अमुया । अमूभ्याम् अमूभ्याम् अमूभ्याम् । अमूभिः । अमुष्यौ । अमूभ्यः अमूभ्यः । अमुष्याः । अमुयोः अमुयोः । अमूषाम् । अमुष्याम् । अमूषु ॥

Balamanorama

अपो भि - अपो भि । ‘अच उपसर्गात्तः’ इत्यस्मात्त इत्यनुवर्तते । अङ्गाधिकारस्थमिदम् । ततश्च अङ्गाभिक्षिप्तप्रत्ययो भीति सप्तम्यन्तेन विशेष्यते, तदादिविधिः । तदाह — अपस्तकार इत्यादिना । प्रत्यये किम् , अब्भक्षः । अद्भिरिति । पकारस्य तकारे जश्त्वमिति भावः । इति पान्ताः । अथ शान्ताः । दिगिति । ‘दिश अतिसर्जने’ ऋत्विगादिना क्विन्, सुलोपः, व्रश्चे ति षः, तस्य जश्त्वेन डः, तस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वेन गः, तस्य चर्त्वविकल्प इति भावः । दृश्यन्ते अर्था अनयेति विग्रहे संपदादित्वाद्दृशेः क्विप् । ततः सुलोपः,व्रश्चे॑ति षत्वमाशङ्क्याह — त्यदादिष्विति । अन्यत्रापीति । त्यदाद्युपपदाऽभावेऽपीत्यर्थः । क्विन् प्रत्ययो यस्माद्विहित इति बहुव्रीह्राश्रयणादिति भावः । दृगिति । षडगकाः प्राग्वत् । इति शान्ताः । अथ पान्ताः । त्विडिति । ‘त्विष दीप्तौ’ क्विप्, सुलोपः, जशष्ट्वचर्त्वे इति भावः । सजूरिति ।जुषी प्रातिसेवनयोः॑ क्विप्,सहस्य सः संज्ञायाम् इति वा ‘ससजुषो’ इति निपातनाद्वा सहस्य सभावः, सुलोपः, ‘ससजुषो रुः’ इति षस्य रुत्वं, ‘र्वोरुपधायाः’ इति दीर्घः ।आङः शासु इच्छायाम् क्विप्,अशासः क्वावुपसङ्ख्यानम् इत्युपदाया इत्त्वं,शासिवसिघसीनां चे॑ति सस्य षः, आशिष्शब्दात्सोर्लोपः । एतावत्सिद्धवत्कृत्य आह — षत्वस्येति । आशीरिति । षस्य रुत्वे कृते ‘र्वोरुपधायाः’ इति दीर्घ इति भावः । इति षान्ताः । अथ सान्ताः । असाविति । अदश्शब्दस्य स्त्रियामपि पुंवदेव सौ रूपमित्यर्थः । अदस् औ इति स्थिते प्रक्रियां दर्शयति — त्यदाद्यत्वमित्यादिना । अत्वे, पररूपे, टापि, औङः शीभावे, आद्गुणे, अदे इति स्थिते,-एकारस्य दीर्घत्वादूत्वं दस्य मत्वं चेत्यर्थः । विभक्तौ सत्यामत्वं, पररूपं, टाबित्येतत्सर्वत्र ज्ञेयम् । अमूरिति । जसि अत्वपररूपटाप्सु, पूर्वसवर्णदीर्घे, ऊत्वमत्वे । टापि सति अदन्तत्वाऽभावाज्जसः शीभावो न । एकाराभावान्नेत्त्वम् । अमूमिति । पुंवत् । उत्वं विशेषः । अमू इति । औटि औवत् । अमूरिति । शसि जसीव रूपम् । स्त्रीत्वान्नत्वाऽभावः । अमुयेति । अदस् आ इति स्थिते, अत्वपररूपटाप्सु, ‘आङि चापः’ इत्येत्त्वे , अयादेशे, उत्वमत्वे इति भावः । अमूभ्यामिति । अत्वपररूपटाप्सु, ऊत्वमत्वे इति भावः । एवममूभिरिति । अमुष्यै इति । अदस-ए इति स्थिते अत्वपररूपटाप्सु, स्याड्ढ्रस्वौ, उत्वमत्वे, षत्वमिति भावः । ‘अमूभ्यः’ इत्यपि भ्याम्वत् । टापि अदन्तत्वाऽभावादेत्त्वं न । अमुष्या इति । ङसिङसोर्वेवत् । रुत्वविसर्गौ तु विशेषः । अमुयोरिति । ओसि अत्वपररूपटाप्सु, ‘आङि चापः’ इत्येत्त्वे, अयादेशे, मुत्वमिति भावः । अमूषामिति । आमि, अत्वपररूपटाप्सु, ङेरामि, स्याड्ढ्रस्वौ, मुत्वमिति भावः । अमूष्विति । सुपि अत्पररूप टाप्सु ऊत्वमत्वे, षत्वमिति भावः । इति सान्ताः । * इति स्त्रीलिङ्गप्रकरणम् ****** अथ नपुंसकलिङ्गप्रकरणम् *****अथ हान्ताः । सु शोभना अनड्वाहो यस्य कुलस्येति बहुव्रीहौ स्वनडुहशब्दान्नपुंसकलिङ्गात्सुबुत्पत्तिः । ननु तत्र सौ परतः ‘चतुरनडुहोः’ इत्याम्, ‘अम् संबुद्धौ’ इत्यम्, ‘सावनडुहः’ इति नुम् च स्यात् । हल्ङ्यादिना सुलोपेऽपि प्रत्ययलक्षणसत्त्वादित्यत आह — स्वमोर्लुगिति । परत्वाद्धल्ङ्यादिलोपं बाधित्वास्वमोर्नपुंसरा॑दिति लुक् । ततश्च लुका लुप्तत्वेन प्रत्ययलक्षणाऽभावादामादि न भवतीति भावः । दत्वमिति । ‘वसुरुआंसु’ इत्यनेने॑ति शेषः । दत्वविधेः पदाधिकारस्थत्वेन तदन्तेऽपि प्रवृत्तेरिति भावः । नच तत्रापि नन लुमते॑ति निषेधः शङ्क्यः, दत्वस्य सुबन्तत्वरूपपदत्वनिमित्तकतयाऽऽङ्गकार्यत्वाऽभावादित्याहुः । स्वनडुदिति । दत्वे चर्त्वविकल्पः । ‘उरःप्रभृतिभ्यः क’ विति तु न शङ्क्यं, तत्र गणेऽनड्वानित्येकवचनस्यैव पाठादिति बहुव्रीह्रधिकारे मूल एव वक्ष्यते । स्वनडुही इति ।नपुंसकाच्चे॑त्यौङः शीभावः । स्वनड्वांहीति ।जश्शशोः शि॑रिति शिभावे, तस्य सर्वनामस्थानत्वाच्चतुरनडुहोरित्यामि ‘नपुंसकस्य झलच’ इति नुमिनश्चे॑त्यनुस्वार इति भावः । अत्र यद्वक्तव्यं तत्पुंलिङ्गनिरूपणे उक्तम् । इति हान्ताः । अथ वान्ताः । विमला द्यौः=आकाशं यस्य अह्न इति बहुव्रीहौ , सुब्लुकि विमलदिव्शब्दात्सोर्लुक् । येतावत्सिद्धवत्कृत्य आह — दिव उदिति । अहर्विमलद्यु इति । वस्य उत्वे इकारस्य यणिति भावः । अहग्र्रहणं नपुंसकत्वसूचनार्थम् । ननु विमलदिव औ इति स्थितेनपुंसकाच्चे॑ति शीभावे विमलदिवी इति रूपं वक्ष्यति, तदयुक्तं, ‘दिव उत्’ इत्युत्त्वप्रसङ्गात् । नच विमलदिवी इति समुदायस्यैव सुबन्ततया पदत्वान्न वकारस्य दिव्शब्दरूपपदान्तत्वमिति वाच्यं, ‘सुपो धातु’ इति लुप्तां दिव्शब्दोत्तरां विभकिंत प्रत्ययलक्षणेनाश्रित्य दिवित्यस्य पदत्वात् । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदसंज्ञायाः सुबन्तधर्मतयाऽङ्गधर्मत्वाऽभावेन तत्रन लुमते॑ति निषेदाऽप्रवृत्तेः । अन्यथा राज्ञः पुरुषो राजपुरुष इत्यादौ पूर्वभागे नलोपादिकं न स्यादित्याशङ्क्य आह — अन्तर्वर्तिनीमित्यादि ।उत्तरपदत्वे चेति । समासे उत्तरखण्डस्य पदसंज्ञायां कर्तव्यायामन्तर्वर्तिविभक्तिलोपे प्रत्ययलक्षणप्रतिषेधो वक्तव्यः, पदादिविधिं वर्जयित्वेत्यर्थः । वार्तिकमेतत् । विमलदिवी इति । औङि रूपम् । विमलदिवीति । शसि सति ‘जश्शसो शिः’ इति शिभावे रूपसिद्धिः । अझलन्तत्वान्न नुम् । दधिसेचाविति । सिञ्चतेः क्विप् । दध्नः सेचौ दधिसेचौ । समासे पूर्वोत्तरपदावयवसुपोर्लुकि समासात्पुनः सुबुत्पत्तिरिति स्थितिः । तत्र उत्तरखण्डादुत्तरा विभकिंत लुप्तां प्रत्ययलक्षणेनाश्रित्य सेचित्यस्य पदत्वेन तत्सकारस्य पदादितया ‘सात्पदाद्योः’ इति षत्वनिषेध इष्टः ।उत्तरपदत्वे प्रत्ययलक्षणप्रतिषेधः, इत्येतावत्येवोक्ते तु सेचित्युत्तरखण्डस्य पदसंज्ञायां कर्तव्यायांप्रत्ययलक्षणप्रतिषेधः स्यात् । तथाच सेचित्यस्य सुबन्तत्वाऽभावेनाऽपदतया तत्सकारस्य पदादित्वाऽभावेन षत्वनिषेधो न स्यादतोऽपदादिविधावित्युक्तम् । षत्वनिषेधस्य पदादिविधितया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधाऽभावेन प्रत्ययलक्षणमाश्रित्य सेचित्यस्य पदत्वात्तत्सकार्सयसात्पदाद्यो॑रिति षत्वनिषेधो निरर्बाधः । ननु सेचित्युत्तरखण्डस्य पदत्वे चकारस्य कुत्वं स्यादित्यत आह — चकारस्य कुत्वं तु नेति । कुत्वे कर्तव्ये तु सेचित्यस्य पदत्वं नास्त्येव, कुत्वस्य पदान्तविधित्वेन पदादिविधिभिन्नतया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधसत्त्वेन पदत्वाऽभावादिति भावः । ननु दधि सिञ्चत इति सोपपदाद्विचि #उपपदसमासे षत्वं दुर्वारं,गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्र सुबुत्पत्ते॑रिति वक्ष्यमाणत्वेन सेचित्यस्याऽन्तर्वर्तिसुबभावेनाऽपदान्ततया ‘सात्पदाद्योः’ इति निषेधस्य तत्राऽप्रवृत्तेरिति चेत्, त्र सोपपदात्सिचेर्विचोऽनभिधानमिति भाव इति कैयटः समाहितवान् । पदादादिः पदादिरिति पक्षे तु उपपदसमासेऽपि षत्वं सुपरिहरम् । नचैवमपि परमश्चासौ दण्डी च परमदण्डी, स प्रियो यस्य सः ‘परमदण्डिप्रय’ इत्यत्राऽवान्तरतत्पुरुषस्योत्तरखण्डे नलोपानुपपत्तिः,उत्तरपदत्वे चे॑ति प्रत्ययलक्षणप्रतिषेधेन तस्य पदत्वाऽभावादिति वाच्यं, मध्यपदत्वानाक्रान्तस्यैव उत्तरखण्डस्य विवक्षितत्वादित्यास्तां तावत् । इति वान्ताः । अथ रान्ताः । वारिति । वार्शब्दो रेपान्तो नपुंसकलिङ्गः ।आपः स्त्री भूम्नि वार्वारी॑त्यमरः । वार्शब्दात्स्वमोर्लुक्, रेफस्य विसर्ग इति भावः । चत्वारीति । चतुर्शब्दो नित्यं बहुवचनान्तः, तस्य जश्शसोश्शिः, तस्य सर्वनामस्थानत्वा॑च्चतुरनडुहो॑रिति प्रकृतेराम् । स च मि वादन्त्यादच उकारात्परः, उकारस्य यण्, अझलन्तत्वान्न नुमिति भावः । इति रेफान्ताः । अथ मान्ताः । किम्शब्दात्स्वमोर्लुकि प्रत्ययल७णमाश्रित्य विभक्तिपरकत्वात्कादेशमाशङ्क्य आह — न लुमतेति । सोरमश्चान्यत्र कादेशे सर्वशब्दवद्रूपाणीत्याह — के कानीति । इदमिति । स्वमोर्लुकि रूपम् । ‘इदमो मः’दश्चे॑त्यादिविधयो न भवन्ति,न लुमते॑ति निषेधादिति भावः । इमे इति । औङि अत्वं, पररूपम्, ‘दश्चे॑ति दस्य मः’नपुंसकाच्चे॑ति शीभावः, गुण इति भावः । इमानीति । ‘जश्शसोश्शिः’ अत्वंस पररूपंदश्चे॑ति मः, ‘नपुंसकस्य झलचः’ इति नुम्,सर्वनामस्थाने चे॑ति दीर्घ इति भावः ।एनद्वक्तव्य इति । ‘इदमेतदोः’ इति शेषः । इदं च अम्येव भवति । तथाच भाष्येएनदिति नपुंसकैकवचने वक्तव्य॑मिति पठित्वाकुण्डमानय प्रक्षालयैनत् इत्युदाहृतम् । औट्शसोष्टायामोसि चद्वितीयाटोस्स्वेनः॑ इत्येनादेश #एव इति मत्वाऽऽह — एने इत्यादि । वस्तुतस्तुद्वितीयाटौस्स्वेनत् इत्येव सूत्र्यताम् । नपुंसकेऽमो लुकि एनदिति सिध्यति । एनम्, एनौ, एनान्, एनेन, एनयोरिति तु त्यदाद्यत्वेन सिद्धमिति भाष्ये स्थितम् । परमार्थतस्तु नपुंसकैकवचनेऽमि एनदादेशः । एनम्, एनौ इत्याद्यर्थंद्वितीयाटौस्स्वेनः॑ इत्यत्र एनादेशो विधातव्यः । येन नाप्राप्तिन्यायेन एनदादेशस्य त्यदाद्यत्वापवादत्वेन त्यदाद्यत्वाऽसंभवादिति शब्देन्दुशेखरे स्थितं भाष्यप्रदीपोद्द्योते प्रपञ्चितं च । इति मान्ताः । अथ नान्ताः । ब्राहृएति । वेदादौ वाच्ये ब्राहृन्शब्दो नपुंसकलिङ्गः ।वेदस्तत्त्वं तपो ब्राहृआ ब्राहृआ विप्रः प्रजापतिः॑ इत्यमरः । स्वमोर्लुकि नलोप इति भावः । ब्राहणी इति । औङः शी,अट्कुप्वा॑ङिति णत्वम् । ‘विभाषा ङिश्योः’ इत्यल्लोपस्तु न,न संयोगाद्वमन्ता॑दिति निषेधादिति भावः । ब्राहृआणीति ।जश्शसोः शिः॑, तस्य सर्वनामस्थानत्वान्नान्तलक्षणो दीर्घः । हे ब्राहृन्निति ।संबुद्धौ नपुंसकाना॑मिति नलोपविकल्प इति भावः । अथ अहन्शब्दात्स्वमोर्लुकि ‘अहन्’ इति रुत्वे प्राप्ते आह — रोऽसुपीति । लुका लुप्तत्वेन प्रत्ययलक्षणाऽभावादिति भावः । अहर्भातीति । अत्र रुत्वे तु हशि चेत्युत्त्वे गुणे अहो भातीति स्यात् । रेफविधौ तस्य उत्त्वं न, रोरित्युकारानुबन्धग्रहणादिति भावः । अहानीति । जश्शसोः शिः, सर्वनामस्थानत्वादुपधादीर्घः । अल्लोपस्तु न, सर्वनामस्थानत्वादिति भावः ।टादावचि अल्लोपः, अह्ना, अह्ने इत्यादि । भ्यामादौ हलि विशेषमाह-अहन् । ‘ससजुषो रुः’ इत्यतो रुरित्यनुवर्तते, ‘स्कोः संयोगाद्योः’ इत्यतोऽन्ते #इति च । पदस्येत्यधिंकृतम् । ‘अहन्’ इति लुप्तषष्ठीकम् । तदाह — अहन्नित्यस्येत्यादिना । अहोभ्यामिति । नकारस्य रुत्वे,हशि चे॑त्युत्त्वे, गुण इति भावः । ननु अहः, अहोभ्यामित्यत्र रत्वरुत्वयोरसिद्धत्वान्नलोपः स्यात् । नच रत्वरुत्वे नलोपापवादाविति वाच्यं, ‘न ङिसम्बुद्ध्योः’ इति नलोपनिषेधस्थले हे अहरित्यत्र, दीर्घाणि अहानि यस्मिन् स दीर्घाहाः, हे दीर्घाहो निदाघ इत्यत्र च नलोपेऽसत्यपि रत्वरुत्वयोरारम्भादित्याशङ्क्य निराकरोति — इहेति । एकेनेति । आवृत्तयोः प्रथमेन ‘अहन्’ इति सूत्रेण-॒पदान्ते अहन्नित्येव स्यात्, न तु नलोप॑ इत्यर्थकेनेत्यर्थः । द्वितीयेनेति ।अङन्नित्यस्य रुः स्यात् पदान्ते॑ इत्यर्थकेनेत्यर्थः । एवं चअह्नो नलोपप्रतिषेधः॑ इति वार्तिकं न कर्तव्यमिति भावः ।टादावचि अल्लोपः, अहना, अह्ने इत्यादि । भ्यामादौ हलि विशेषमाह-अहन् । ‘ससजुषो रुः’ इत्यतो रुरित्यनुवर्तते, ‘स्कोः संयोगाद्योः’ इत्यतोऽन्ते इति च । पदस्येत्यधिंकृतम् । ‘अहन्’ इति लुप्तषष्ठीकम् । तदाह — अहन्नित्यस्येत्यादिना । अहोभ्यामिति । नकारस्य रुत्वे,हशि चे॑त्युत्त्वे, गुण इति भावः । ननु अहः, अहोभ्यामित्यत्र रत्वरुत्वयोरारम्भादित्याशङ्क्य निराकरोति — इहेति । एकेनेति । आवृत्तयोः प्रथमेन ‘अहन्’ इति सूत्रेण-॒पदान्ते अहन्नित्येव स्यात्, न तु नलोप॑ इत्यर्थकेनेत्यर्थः । द्वितीयेनेति ।अहन्नित्यस्य रुः स्यात् पदान्ते॑ इत्यर्थकेनेत्यर्थः । एवं चअह्नो नलोपप्रतिषेधः॑ इति वार्तिकं न कर्तव्यमिति भावः । पदान्तस्यापीति । अहन्शब्दान्तस्यापि रत्वरुत्वे भवतः, पदाधिकारस्थत्वादिति भावः ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति निषेधस्तु प्रत्ययविधिमात्रविषय इतिअसमासे निष्कादिभ्यः॑ इति सूत्रे भाष्यकैयटयोः स्पष्टम् । तदन्ते रुत्वप्रवृतिंत दर्शयति — दीर्घाहा निदाघ इति । दीर्घाहन्शब्दात्पुंलिङ्गात्सौ परत्वादुपधादीर्घे कृते हल्ङ्यादिना सुलोपः । ‘अहन्’ इति रुत्वे, भोभगो॑ इत्यपूर्वत्वाद्यत्वेहलि सर्वेषा॑मिति यलोपे, रूपमिति भावः । ननु सुलोपे कृतेरोऽसुपी॑ति रत्वे तस्य यत्वं न भवति, यत्वविधौ रोरित्युकारानुबन्धग्रहणात् । तथाच दीर्घाहार्निदाघ इत्येव युक्तमित्यत आह — इह हल्ङ्यादीत्यादि । ननु नान्तलक्षणदीर्घस्य परत्वेऽपि अकृतव्यूहपरिभाषया हल्ङ्यादिलोपात्प्राक्प्रवृत्तिर्न, सम्भवति, रुत्वेन नकारस्य विनाशोन्मुखत्वादित्यत आह — तस्यासिद्धत्वादिति । प्रवृत्तस्य रुत्वस्याऽसिद्धत्वान्नान्तलक्षणो दीर्घो निर्बाध इति भावः । वस्तुतस्तु अकृतव्यूहपरिभाषाया निर्मूलत्वादिह हल्ङ्या#इलोपात्पूर्वमेव परत्वादुपधादीर्घ इत्येवोचितमित्यलम् । सम्बुद्धौ त्विति । सोरत्र हल्ङ्यादिलोपात्प्रत्ययलक्षणमाश्रित्य असम्बुद्धौ इति प्रवृत्तेरुपधादीर्घाऽभावे रुत्वे,हशि चे॑त्युत्त्वे, आद्गुणे, हे दीर्धाहो निदाघ इति रूपमित्यर्थः । अत्र रोऽसुपी॑ति रत्वविधेस्तदन्तेऽपि प्रवृत्तौ फलं तु नपुंसके दीर्घाहर्निदाघजालमित्यादि बोध्यम् । दण्डीति । दण्डोऽस्यास्तीत्यर्थे ‘अत’ इनिठनौ, इति इनिः । दण्डिन्शब्दात्स्वमोर्लुक्, नस्य लोप इति भावः । दण्डिनो इति । औङ्श्सी । अरुआवनामस्थानत्वादिनहन्निति नियमाच्च न दीर्घ इति भावः । दण्डीनीत#इ । ‘जश्शसोः शि’ ‘इन्हन्’ इति दीर्घ इति भावः । रुआग्वीति ।असमायामेधारुआजो विनिः॑ इति रुआग्शब्दान्मत्वार्थीयो विनिः । रुआज् इत्यस्य अन्तर्वर्तिर्नी विभक्तिमाश्रित्य पदत्वाज्जस्य कुत्वं । रुआग्विन्शब्दात्सुबुत्पत्तिः । दण्डिवद्रूपाणि । अत्र इनोऽनर्थकत्वेऽपि ‘इन्हन्’ इत्यत्र ग्रहणं भवत्येव, ‘अनिनस्मन्’ इति वचनादिति बोध्यम् । वाग्ग्मीति ।वाचो ग्मिनि॑रिति ग्मिनिः । तद्धितत्वान्न गकार इत्, चकारस्य जश्त्वं कुत्वम् । वाग्ग्मिशब्दात्सुबुत्पत्तिः, रुआग्विवद्रूपाणि । बहवो वृत्रहणो यस्मिन् मन्वन्तरे इति बहुव्रीहौ बहुवृत्रहन्शभ्दात्स्वमोर्लुकि, नलोपे, बहुवृत्रहेति रूपम् । औङः श्याम्, अल्लोपे, ‘हो हन्तेः’ इति कुत्वे, ‘बहुवृत्रघ्नी’ इति रूपम् । ‘अत्पूर्वस्य’ इति नियमान्न णत्वम् । एतावत्सिद्धवत्कृत्य जश्शसोराह — बहुवृत्रहाणीति । शेः सर्वनामस्थानत्वेन तस्मिन्परेऽल्लोपाऽभावात् ‘इन्हन्’ इत्युपधादीर्घे ‘एकाजुत्तरपदे णः’ इति णत्वमिति भावः । बहुपूषाणीति । बहवः पूषणो यस्मिन्निति बहुव्रीहिः । बहुपूष, बहुपूष्णी । रषाभ्यामिति णत्वम् । जश्शसोस्तु शिः, शौ दीर्घः,अट्कुप्वा॑ङिति णत्वम् । बह्वर्यमाणीति । बहवोऽर्यमाणो यस्मिन्निति बहुव्रीहिः । तदेतदर्थतः सङ्गृह्णाति — बहूर्जीति । बहूर्ज्शब्दे अन्त्यादच ऊकारादुपरि नुमः प्रतिषेधो वक्तव्यः, किंतु अन्त्याद्वर्णात्पूर्वो नुम्वा स्यादित्यर्थः । बहूर्जीति । जश्शसोर्नुमभावे रूपम् । बहूर्ञ्जीति । जकारात्पूर्वं रेफादुपरि नुमि कृते, श्चुत्वस्याऽसिद्धत्वा॒न्नश्चे॑ति तस्यानुस्वारे, तस्य परसवर्णे ञकारे रूपं बोध्यम् । अत्र ‘बहूर्जि प्रतिषेध’ इति प्रथमवार्तिकं न कर्तव्यं, ‘नपुंसकस्य झलचः’ इति सूत्रस्य अचः परो यो झल्तदन्तस्य क्लीबस्य नुम्स्यादिति व्याख्याने सति नुम एवात्राऽप्रसक्तेः । न चैवं सति वनानीत्यादावव्याप्तिः शङ्क्या, ‘इकोऽचि विभक्तौ’ इत्यतोऽचीत्यनुवर्त्त्य अजन्तस्य क्लीबस्य सर्वनामस्थाने परे नुम्स्यादिति वाक्यान्तराश्रणादिति भाष्ये स्थितम् । एवं च ऊर्क्छब्दे शौ ‘नरजाना संयोगः’ इति मूलं भाष्यविरुद्धत्वादुपेक्ष्यमेव, तत्र अचः परस्य झलोऽभावेन नुमोऽप्रसक्तेः । इति जान्ताः । अथ दान्ताः । त्यदिति । त्यद्, तद्, यद्, एतद्, एषां स्वमोर्लुका लुप्तत्वात्त्यदाद्यत्वं, पररूपं ‘तदोः सः सौ’ इति सत्वं च न भवति । इतरत्र तु सर्वत्र त्यदाद्यत्वे । पररूपे च अदन्तवद्रूपाणि, सर्वनामकार्यं चेति बोध्यम् । अन्वादेशे त्वेनदिति । अन्वादेशे नपुंसकैकवचने तद्विधानादिति भावः । औङि जश्शसोश्च-एने, एनानि । बेभिद्यतेरिति । श्तिपा निर्देशोऽयम् । बेभिद्य इति यङन्ताद्धातोरित्यर्थः । ‘भिदिर्विदारणे’ अस्माद्याङिसन्यङो॑रिति द्वित्वे हलादिः शेषे,अब्यासे चर्चे॑त्यब्यासभकारस्य जश्त्वेन वकारे,गुणो यङ्लुको॑रिति गुणे,बेभिद्ये॑ति रूपम् । तस्मात् ‘सनाद्यन्ताः’ इति धातुत्वात्क्विप्, अतो लोपः, ‘यस्य हलः’ इति यलोपः । बेभिच्छब्दात्स्वमोर्लुक्, जश्त्वचर्त्वे बेभिदिति रूपमिति भावः । बेभिदी । इति औङः श्यां रूपम् । जश्शसोश्शौ झलन्तलक्षणनुममाशङ्क्य आह — शाविति । स्थानिवत्त्वादिति । ‘अचः परस्मिन्’ इत्यनेने॑ति शेषः । न चात्र अल्लोपस्थानिभूतादचः पूर्वो दकार एव न त्विकारः तस्य दकारेण व्यवधानात्, तथाच तस्य नुम्विधिः स्थानिभूतादचः पूर्वस्य विधिर्नेति वाच्यम्, ‘अचः परस्मिन्’ इत्यत्र व्यवहितपूर्वस्यापि ग्रहणस्योक्तत्वात् ।क्वौ लुप्तं न स्थानिव॑दिति तु न सार्वत्रिकमितिदीधीवेवीटा॑मित्यत्र कैयटे स्पष्टम् । नन्वल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणनुमोऽभावेऽप्यजन्तलक्षणो नुम्दुर्वार इत्यत आह — अजन्तलक्षणस्तु नुम्नेति । कुत इत्यत आह — स्वविधौ स्थानिवत्त्वाभावादिति । अल्लोपस्य स्थानिवत्त्वमाश्रित्य मित्त्वादन्त्यादचः परः प्रवर्तमानो हि मुम्दकारोपरितनस्य अकारोपलक्षितदेशस्योपरि प्रवृत्तिमर्हति, तथाच लोपस्थानिभूतस्य स्वस्यैवात्र नुम्विधिः तस्मिन्कर्तव्येऽल्लोपस्य स्थानिवत्त्वं न संभवति, स्थान्यपेक्षया पूर्वस्यैव विधौ ‘अचः परस्मिन्’ इत्यस्य प्रवृत्तेः । स्थानिवत्सूत्रमपि स्थानिभूतस्य स्वस्य कार्यविधौ न प्रवर्तते, अनल्विधाविति निषेधादित्यर्थः ।अचः परस्मि॑न्निति सूत्रे पूर्वविधावित्यपनीयअपरविधाविति वक्तव्यं स्वविधौ स्थानिवत्त्वार्थ॑मिति वार्तिकं तु भाष्ये प्रत्याख्यातमित्यदोषः । इति दान्ताः । अथ चान्ताः । जायन्ते नव सौ, तथामि च नव, भ्यांभिस्भ्यसां सङ्ग्रमे षट्सङ्ख्यानि, नवैव सुप्यथ जसि त्रीण्येव, तद्वच्छसि । चत्वार्यन्यवचस्सु कस्य विबुधाः । शब्दस्य रूपाणि तज्जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ।॑ इति प्राचीनस्य कस्यचित्प्रश्नस्य श्लोकद्वयेन उत्तरमाह — गवाक्छब्दस्येति । र्चागतिभेदत इति । ‘अनिदिताम्’ इत्यञ्चेर्गतौ नकारस्य लोपः, पूजायां तु ‘नाञ्चेः पूजायाम्’ इति निषेधान्नस्य लोपो नेत्येव गतिपूजात्मकार्यभेदनिबन्धननलोपतदभावाभ्यामिति यावत् ।इति प्राचीनस्य कस्यचित्प्रश्नस्य श्लोकद्वयेन उत्तरमाह — गवाक्छब्दस्येति । अर्चागतिभेदत इति । ‘अनोदिताम्’ इत्यञ्चेर्गतौ नकारस्य लोपः, पूजायां तु ‘नाञ्चेः पूजायाम्’ इति निषेधस्य लोपो नेत्येवं गतिपूजात्मकार्यभेदानिबन्धननलोपतदभावाभ्यामिति यावत् ।असन्धी॑ति प्रकृतिभावो विवक्षितः ।असन्ध्यवङ्पूर्वरूपै॑रित्यनन्तरं चब्दोऽध्याहर्तव्यः । शतमित्यनन्तरमितिशब्दश्च । तथा च गत्यर्थ पूजार्थभेदनिबन्धननवोपतदभावाभ्याम्, असन्ध्यवङ्पूर्वरूपैश्च गवाक्छब्दस्य रूपाणै नवाधिकशतमिति मतं=संमतमित्यर्थः । एतेनविंशत्याद्याः सदैकत्वे सङ्ख्यास्सघ्श्येयसङ्ख्ययोः॑ इति कोशाच्छतशब्दस्य सङ्ख्यापरत्वेगवाक्छब्दस्य रूपाणा॑मिति भाव्यं, सङ्ख्येयपरत्वे तुमत॑मित्येकवचनानुपपत्तिरिति निरस्तम् । सङ्ख्येपरत्वमाश्रित्य इतिशब्दमध्याह्मत्य नवाधिकशतं रूपाणीति मतमित्यर्थाश्रयणात् । यद्वा शतशब्दस्य सङ्ख्येयपरत्वेऽपि शतमित्येकत्वाभिप्रायं मतमित्येकवचनमित्यदोषः । नवाधिकशतमित्येतत्प्रपञ्चयति — स्वम्सुप्सु नवेति ।प्रत्येक॑मिति शेषः ।रूपाणी॑ति सर्वत्रान्वेति । षड्भादाविति । भिसि भ्यांत्रये, भ्यस्द्वये च प्रत्येकं षडित्यर्थः । त्रीण#इ जश्शसोरिति । ‘प्रत्येक’ मिति शेषः । चत्वारि शेषे दशके इति ।प्रत्येक॑मिति शेषः । स्वम्सुप्सु नवेत्येतदुपपादयति — तथाहीति । गामञ्चतीति । गां गच्छति पूजयति वेत्यर्थः । क्विनि उपपदसमासे सुब्लुकि गो अञ्चेति स्थिते । प्रक्रियां दर्शयति — गतौ नलोप इति । गत्यर्थकत्वेअनिदिता॑मिति नस्य लोप इत्यर्थः । गवाक्-गवागिति । गो अच् स्, गो अच् अम् इति स्थिते,स्वमोर्लुकि, अक्लीबस्येति पर्युदासात्सर्वनामास्थानत्वाऽभावेनउगिदचा॑मिति नुमभावे, ओकारस्याऽवङादेशे सवर्णदीर्घे, जश्त्वचर्त्त्वे इति भावः । सर्वत्रेति । अवङादेशस्य वैकल्पिकत्वात्तदभावपक्षेसर्वत्र विभाषे॑ति प्रकृतिभावात्एङः पदान्तादती॑ति पूर्वरूपस्याऽप्यभावे सतीत्यर्थः । पूर्वरूपे इति । अवङः, प्रकृतिभावस्य चाऽभावेएङः पदान्ता॑दिति पूर्वरूपे सतीत्यर्थः । तदेवं गत्यर्थकत्वे षड्(६) रूपाणि । पूजायामिति ।नाञ्चेः पूजाया॑मिति नवोपाऽभावाद्गो अञ्चित्यस्मात्स्वमोर्लुकि, चकारस्यासंयोगान्तलोपे, नकारस्यक्विन्प्रत्ययस्य कुः॑ इति कुत्वेन ङकारः । ततोऽवङि, प्रकृतिभावे, पूर्वरूपे च , त्रीणि(३) रूपाणीति भावः । पूर्वोदाहृतषडपसङ्कलनया सौ नव (९) रूपाणि । औङः शीति । गत्यर्थकत्वे नलोपे औङश्शीभावे च सति अक्लीबस्येति पर्युदासादसर्वनामस्थानतया भत्वात् ‘अचः’ इत्यल्लोपे ‘गोची’ इत्येकमेव(१) रूपम्, अकारस्य लुप्तत्वेन अवङाद्यसंभवात् । पूजायां त्विति । अलुप्तनकारत्वात् ‘अचः’ इत्यल्लोपो नेति भावः । तथाच औङि त्रीणि(३) रूपाणि । पूर्वादाहृतैकरूपसङ्कलनया प्रत्येकं चत्वारि(४) रूपाणि । शेः सर्वनामेति । गत्यर्थकत्वे नलोपे सति, शौउगिदचा॑मिति नुमि, तस्यनश्चे॑त्यनुस्वारः, परसवर्ण इति भावः । पूजार्थकत्वे त्वलुप्तनकारत्वान्नुम्न । किंतु स्वाभाविकनकारस्य अनुस्वारः परसवर्ण इति भावः । गतिपूजनयोः शौ अविशिष्टान्येव त्रीणि रूपाणीत्याह — त्रीण्येवेति । गोचेति । गत्यर्थत्वे लुप्तनकारत्वात् ‘अचः’ इत्यल्लोपे एकमेव(१) रूपमिति भावः । पूजार्थत्वे तु अलुप्तनकारत्वात् ‘अचः’ इत्यल्लोपाऽभावे अवङि, प्रकृतिभावे, पूर्वरूपे च त्रीणि(३), रूपाणीत्याह-गवाञ्च-गोअञ्चा-गोऽञ्चेति । भ्यामि गत्यर्थकत्वे नलोपे सति चस्य जश्त्वे कुत्वेऽवङसन्धिपूर्वरूपैस्त्रीणि (३) रूपाणि । पूजार्थत्वे तु नलोपाऽभावाच्चकारस्य संयोगान्तलोपे नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकारे अवङसन्धिपूर्वरूपैस्त्रीणि(३) रूपाणीत्यभिप्रेत्याह — गवाग्भ्यामित्यादिना । इत्यादीति । गवाग्भिः गोअग्भिः गोऽग्भि । गवाङ्भिः गोअङ्भिः गोऽङ्भिः । गोचे गवाञ्चे गोअञ्चे गोऽञ्चे । भ्यामि, भ्यसि च, प्राग्वत्षडपाणि । ङसौ — गोचः-गवाञ्चः-गोअञ्चः-गोऽञ्चः । गोचोः-गवाञ्चोः-गोअञ्चोः-गोऽञ्चोः । गोचाम् गवाञ्चां, गोअञ्चाम् गोऽञ्चाम् । गोचि गवाञ्चि-गोअञ्चि-गोऽञ्चि । ओसि प्राग्वत् । सुपि त्विति । पूजार्थकत्वे नलोपनिषेधाच्चकारस्य संयोगान्तलोपे नकारस्यक्विन्प्रत्ययस्ये॑ति कुत्वेन ङकारः । ततश्च अवङ्संधिपूर्वरूपैस्त्रायाणां रूपाणां ङकारान्तानां कुगागम इत्यर्थः । कुगभावे तु गवाङ्षु-गोअङ्षु-गोऽङ्ष्विति त्रीणि(३) रूपाणि सुगमत्वान्नोक्तानि । गतौ तु नलोपे सति चस्य कुत्वेन ककारे अवङसन्धिपूर्वरूपैस्त्रीणि(३) रूपाणि दर्शयति — गवाक्षु इत्यादि । तथाच सुपि नव(९) रूपाणि । नन्वेषां मध्ये ककारवत्सु षड्रूपेषु ‘चयो द्वितीयाः’ इति ककारस्य खकारपक्षे षडपाणि(६) सखकाराण्यधिकानि स्युरित्याशङ्क्य निराकरोति — नचेहेति । चर्त्वस्येति । गतौनलोपे सति, चकारस्य कुत्वे, तस्य जश्त्वेन गकारे, तस्यखरि चे॑ति चर्त्वेन ककारे, गवाक्षु-गोअक्षु-गोऽक्ष्विति त्रीणि रूपाणीति स्थिति#ः । तत्र ‘चयो द्वितीयाः’ इति शास्त्रदृष्टआ चर्त्वशास्त्रस्याऽसिद्धत्वात्ककारो नास्त्येव, किन्तु गकार एवास्ति, तस्य चय्त्वाऽभावात् ‘चयो द्वितीयाः’ इति न भवतीत्यर्थः । तथाच गतौ त्रयाणामधिक्यं निरस्तम् । पूजायां तु कुक्पक्षे गवाङ्क्षु-गोअङ्क्षु-गोऽङ्क्षु इति त्रिषु ककारस्य द्वितीये सति खकारवतां त्रयाणामाधिक्यमिष्टमेवेत्याह — कुक्पक्षे त्विति । नचैवं सति नवाधिकशतिमिति । विरोधः शङ्क्यः,नवाधिकशत॑मिति सूत्रकारस्य मतमित्यर्थात् ।ऊह्रमेषामिति । प्रदर्शितानां द्वादशाधिकशत(११२) रूपाणामित्यर्थः । अआआक्षिभूतानीति । सप्तविंशत्यधिकपञ्चशतानीत्यर्थः(५२७) अआशब्दो हि सप्तत्वसङ्ख्यावच्छिन्नलक्षकः,सप्ताआआ हरितः सूर्यस्य॑ इति दर्शनात् । अक्षिशब्दस्तु द्वित्वसङ्ख्यावच्छिन्नलक्षकः, मनुष्यादिषु प्रायेणाऽक्ष्णोर्द्वित्वात् । भूतशब्दस्तु पञ्चत्वसङ्ख्यावच्छिन्नलक्षकः, पृथिव्यप्तेजोवाय्वाकाशानां भूतशब्दवाच्यानां पञ्चत्वात् । तत्राशब्देन प्रथमनिर्दिष्टेन सप्तत्वसङ्ख्यैव विवक्षिता । अक्षिशब्देन तु द्वितीयानिर्दिष्टेन सूचितया द्वित्व सङ्ख्यया दशकद्वयात्मिकाविंशतिसङ्ख्या विवक्षिता । भूतशब्देन तु तृतीयनिर्दिष्टेन सूचितया पञ्चत्वसङ्ख्यया पञ्चशतं लक्ष्यते । उक्तंच ज्यौतिषेणएकदशशतसहस्नायुतलक्षप्रयुतकोटयः क्रमशः । अर्युदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् । जलधिश्चान्त्यं मध्यं परार्धमिति दशगुणोत्तराः संज्ञाः ।॑ इति । अत्र अआशब्दसूचितां सप्तत्वसङ्ख्यामादौ लिखित्वा तदुत्तरतोऽक्षिशब्दसूचिता द्वित्वसङ्ख्या लेख्या । तदुत्तरतस्तु भूतशब्दसूचिता पञ्चत्वसङ्ख्या लेख्या ।अङ्कानां वामतो गति॑रिति वचनादित्यादि गणकसंप्रदायप्रवर्तकलील#आवत्यादिग्रन्थतो ज्ञेयम् । तथाच सप्त च विंशतिश्च पञ्चशतानि(५२७) च रूपाणि भवन्तीति मनीषिभिरूह्रमित्यर्थः । तथाहि सौ नवानां रूपाणामन्त्यवर्णस्यअनचि चे॑ति द्वित्वे तदभावे च अष्टादश(१८) रूपाणि । प्रथामाद्विवचने चतुर्णां मध्ये पूजार्थानां त्रयाणां मकारस्यअनचि चे॑ति द्वित्वे तदभावे च षड्रूपाणि ।अणोऽप्रगृह्रस्ये॑ति तु न, प्रगृह्रत्वात् । गतौ त्वेकमेव । सङ्कलनया सप्त(७) । जसि तु त्रयाणां ञकारस्य द्वित्वे तदभावे च षड्रूपाणि (६)षण्णमेषामन्त्यस्य इकारस्यअणोऽप्रगृह्रस्ये॑त्यनुनासिकपक्षे षट्, (६) अनुनासिकत्वाभावपक्षे तु षट् स्थितान्येव, संकलनया जसि द्वादश(१२) । तथाच प्रथमयां विभक्तौ सप्ततिंरशत्(३७) । एवं द्वितीयायां विभक्तावपि सप्ततिंरशत्(३७) । तृतीयैकवचने तु चतुर्णां मध्ये पूजार्थानां त्रयाणां ञकारद्वित्वे तदभावे च षडपाणि, गतौ त्वेकमेव । सङ्कलनया चतुर्दश(१४) । भ्यामि तु षण्णां मध्ये गतौ गकारस्य पूजायां ङकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव । सङ्कनया द्वादश(१२) । एषु यकारस्य ‘यणो मयः’ इति द्वित्वे द्वादश(१२), मय इति पञ्चमी यण इति षष्ठीत्याश्रयणात् । यकारद्वित्वाऽभावे त#उ द्वादश स्थितान्येव । सङ्कलनया चतुर्विशंतिः (२४) । एषु मकारस्य द्वित्वे चतुर्विशतिः, (२४) तदभावे चतुर्विंशति स्थितान्येव । संकलनया भ्यामि अष्टाचत्वारिंशत् (४८) । भिसि तु षण्णां गतौ गकारस्य पूजायां डकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, सङ्कलनया द्वादश(१२) । एषु विर्गस्य द्वित्वे द्वादश(१२) । अयोगवाहानामटसु शर्षु चोपसङ्ख्यातत्वेन विसर्गस्य यत्र्वात् । तस्य तु द्वित्वाऽभावे द्वादश स्थितान्येव, संकलनया भिसि चतुर्विशतिः (२४) । तथाच तृतीयाविभक्तौ षडशीतिः (८६) । चतुर्थ्येकवचने चतुर्णां मध्ये पूजार्थानां त्रयाणां ञकारद्वित्वे तदभावे च षट्(६) । गतौ त्वेकमेव(१) । सङ्कलनया ङयि सप्त(७) । एकारस्य अनण्त्वान्नानुनासिकः । भ्यामि तु प्राग्वदेव अष्टाचत्वारिशत्(४८) । भ्यसि तु षण्णां मध्ये गतिपूजनयोः प्रत्येकं त्रयाणां गङयोर्द्वित्वे षट्(६) । तदभावे तु षट्(६) स्तितान्येव । सङ्कलनया द्वादश(१२) । एषुयकारस्य ‘यणो मयः’ इति द्वित्वे द्वादश, तदभावे तु चतुर्विंशतिः स्थितान्येव, संकलनया भ्यसि अष्टाचत्वारिंशत्(४८) । तथा च चतुर्थ्यां विभक्तौ त्र्यधिकं शतम् (१०३) । ङसौ तु पूजायां त्रयाणां रूपाणां ञकारद्वित्वे तदभावे च षट्, गतौ त्वेकं स्थितमेव, सङ्कलनया सप्त(७) । एषु विसर्गाद्वित्वे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया ङसौ चतुर्दश(१४) । भ्यामि भ्यसि च प्रागवत्प्रत्येकं अष्टाचत्वारिंशत्(४८) । तथाच पञ्चम्यां विभक्तौ दशाधिकं शतम् (११०) । ङसि तु ङसिवच्चतुर्दश(१४) । ओसि तु चतुर्णां मध्ये पूजायां त्रयाणां ञकारस्य द्वित्वे तदभावे च षट्, गतौ त्वेकं, सङ्कलनया सप्त(७) । एषु विसर्गस्य द्वित्वे तदभावे च चतुर्दश(१४) । आमि तु चतुर्णां मध्ये पूजायां त्रयाणां त्रिषु ञकारस्य द्वित्वे षट्, गतौ त्वेकं, सङ्कलनया सप्त(७) । एषु मकारस्य द्वित्वे तदभावे च चतुर्दश(१४) । तथाच षष्ठआं द्विचत्वारिंशत् (४२) । ङौ पूजायां त्रयाणां ञकारस्य द्वित्वे तदभावे षट्, गतावेकं संकलनया सप्त(७) । एषु अन्त्यस्य इकारस्य अनुनासिकत्वे तदभावे च चतुर्दश(१४) । ओसि प्राग्वच्चतुर्दश । सुपि तु द्वादशानां मध्ये पूजायां कुगभावपक्षे डकारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, सङ्कलनया द्वादश(१२) । एषां द्वादशानां ‘खयः शरः’ इति षकारद्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येवस सङ्कलनया चतुर्विशतिः(२४) । कुगभावे तु षट्(६) स्थितान्येव, सङ्कलनया पूजायां तिंरशत् (३०) । गतौ तु त्रयाणां ककारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, षण्णामेषां ‘खयः शरः’ इति षकारद्वित्वे षट्, तदभावे तु षट् स्थितान्येव । सङ्कलनया द्वादश (१२) । तथाच सङ्कलनया गतौ पूजायां च द्विचत्वारिंशत्(४२) । एषामन्त्यस्यानुनासिकत्वे तदभावे च सुपि चतुरशीतिः(८४) । एवं च सु अष्टादश(१८) । औ-सप्त(७) । जस्-द्वादश(१२) । आहत्य प्रथमायां सप्ततिंरशत्(३७) । टा चतुर्दश(१४) । भ्याम्-अष्टाच-त्वारिंशत्(४८) । भिस्-चतुर्विंशतिः(२४) । आहत्य तृतीयायां षडशीतिः(८६) । ङे-सप्त(७) भ्यामष्टाचत्वारिंशत्(४८) । भ्यस् अष्टाचत्वारिंशत्(४८) । आहत्य चतुर्थ्यां त्र्यधिकं शतम् (१०३) । ङसि चतुर्दश(१४) । भ्याम्-अष्टाचत्वारिंशत्(४८)भ्यस्-अष्टाचत्वारिंशत्(४८) । आहत्य पञ्चम्यां दशाधिकं शतं (११०) । ङस्चतुर्दश(१४) । ओस्चतुर्दश(१४) । आम् चतुर्दश(१४) । आहत्या षष्ठआं द्वाचत्वारिंशत्(४२) । ङि-चतुर्दश(१४) । आहत्य षष्ठआंद्वाचत्वारिंशत् (४२) । ङ्-चतुर्दश(१४) । ओस्वतुर्दश(१४) । सुप्चतुरशीतिः(८४) । आहत्य सप्तम्यां द्वादशाधिकं शतम्(११२) । ततश्च सङ्कलनया पञ्चशतानि च, विंशतिश्च, सप्त च (५२७) रूपाणि । इति गवाक्छब्दप्रक्रिया । तिर्यगिति । तिरः अञ्चतीति विग्रहे ऋत्विगादिना क्विन् । गतौअनिदिता॑मिति नलोपः । तिरस्-अच् इत्यस्मात्सुबुत्पत्तिः, स्वमोर्लुक्, प्रत्ययलक्षणविरहहादसर्वनामस्थानत्वाच्च न नुम् । अभत्वात् ‘अचः’ इत्यल्लोपो न । तिरसस्तिर्यादेशः, यण्,क्विन्प्रत्ययस्ये॑ति कुत्वस्या.ञसिद्धत्वाच्चकारस्यचोः कुः॑रिति कुत्वम्, जश्त्वचर्त्वे इति भावः । तिरश्ची इति । तिरस् अच् औ इति स्थिते औङः श्यां भत्वात् ‘अचः’ इत्यल्लोपः । ‘अलोपे’ इत्युक्तेर्न तिर्यादेशः । सस्य श्चुत्वेन श इति भावः । तिर्यञ्चीति । तिरस् अच् इत्यस्माज्जसि जश्शसोः शिः, सर्वनामस्थानत्वान्नुम्, अनुस्वारपरसवर्णौ, तिरसस्तिरिः, यण् । अभत्वात्, ‘अचः’ इत्यल्लोपो नेति भावः । तिर्यङिति । स्वमोर्लुकि अभत्वादलुप्तनकारत्वात् ‘अचः’ इत्यल्लोपाऽभावात्तिर्यादेशः, चकारस्य संयोगान्तलोपः, नस्य कुत्वेन ङकार इति भावः । तुर्यञ्ची इति । औङः श्यां रूपम् । अलुप्तनकारत्वादच इत्यल्लोऽपाभावात्तिरिः । तिर्यञ्चीति । जश्शसोः शिः । शेषं पुंवत् । इति चान्ताः । अथ तान्ताः । यकृदिति । मांसपिण्डविशेषो यकृन्नाम याज्ञिकप्रसिद्धः । स्वमोर्लुक्, जश्त्वचर्त्वे इति भावः । यकृती इति । औङ्श्शी । यकृन्तीति । जश्शसोः शिः, झलन्तत्वान्नुम्, अनुस्वारपरसवर्णाविति भावः । शसादौ विशेषमाह — पद्दन्निति वा यकन्निति । यकानीति । शसश्शिः, यकन्नादेशः सर्वनामस्थानत्वान्नान्तयकन्नभावे यकृद्भ्यामित्यादि । शकृदिति । शकृच्छब्दो विष्ठावाची यकृद्वत् । ददत् ददती इति । शतृप्रत्यययान्तोऽयं ददच्छब्दः पुंलिङ्गनिरूपणे व्युत्पादितः । तस्य स्वमोर्लुक् । औङश्शी । नुम्तु न, असर्वनामस्थानत्वात् ‘नाभ्यस्ताच्छतुः’ इति निषेधाच्च ।

Tattvabodhini

अपो भि - अप्शब्द अत् ।आप्नोतेह्र्यस्वश्चे॑ति ह्रस्वः, चकारात्क्वित् ।अच उपसर्गात्तः॑इत्यतोऽनुवर्तनादाह — तकारः स्यादिति । दिगिति । क्विन्निन्तत्वात्कुत्वम् । षडगकाः प्राग्वदूह्राः । अन्यत्रापीति । त्यदाद्युपपदत्वाभावेऽपीत्यर्थः । त्विहिति ।त्विष दीप्तौ॑इत्यस्यात्क्विप् । जश्त्वचर्त्वे । सजूरिति ।जुषी प्रीतिसेवनयो रित्यस्मात्क्विप् ।ससजुषो॑रिति षस्य रुत्वम् ।र्वो॑रिति दीर्घः । आशिषाविति ।आशसः क्ववुपधाया इत्वं वाच्य मित्युपधाया इत्वम्,शासिवसी॑ति षत्वम् । असाविति । अदसस्त्यदाद्यत्वं, टाप् । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्अदस औ सुलोपश्च॑ ।तदोः — ॑इति सत्वमित्येके । अन्ये चु परत्वाद्विशेषविधेश्च पूर्वमौत्वं, ततोऽत्र नाऽत्वटापावित्याहुः । इति हलन्तस्त्रीलिङ्गप्रकरणम् ।उत्तरपदत्वे चाऽपदादिविधौ प्रतिषेधः॥ उत्तरपदत्वे चेति । उत्तरशब्देनोत्तरपदमुच्यते । उत्तरपदस्य पदत्वे=पदव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवतीत्यर्थः । एतेनसुधियौ॑सुधिय॑इत्यत्रान्तर्वर्तिसुपा पदत्वात्पक्षे शाकलप्रसङ्ग इत्याशङ्का परास्ता, उक्तरीत्या प्रत्ययलक्षणप्रतिषेधात् । उत्तरपदत्वे किम् ।राजपुरुष॑इत्यादौ नलोपो यथा स्यात् ।पश्यति दधी॑त्यादावपि दधिशब्दस्य पदत्वे प्रत्ययलक्षणं भवत्येव । उत्तरपदस्य समासावयवे रूढत्वात् । दधिसेचाविति.सिञ्चत इति सोचौ ।अन्येभ्योऽपि दृश्यन्ते॑इति विच् । दध्नः सेचाविति षष्ठीसमासः । उपपदेसमासे तु प्राक् सुबुत्पत्तेः समासविधानात्सेच्शब्दस्य पदसंज्ञा नास्तीति पदादित्वं सकारस्य न स्यात् । नन्वेमुपपदसमासे षत्वं दुर्वारमिति चेत्, अत्राह कैयट -॒अनभिधानत्सोपपदाद्विजभावः, दधिसेचाविति प्रयोगाऽभावा॑दिति । वस्तुतस्तु पदादादिः पदादिरिति पक्षे तूपपदसमासेऽपि षत्वं सुपरिहरम् ।अन्वादेशे नपुंसके एनद्वक्तव्यः । अन्वादेश इत । अभ्येवेदं विधीयते नत्वौट्शसादिषु, फलाऽभावात् ।स्वोमोर्नपुंसकात्इत्यमो लुका लुप्तत्वेऽपि प्रत्ययलक्षणमिह पर्वर्तते, वचनसामर्थ्यादित्याहुऋ । वस्तुतस्तुद्वितीयाटौओःसु -॑इति सूत्र एव एनद्वक्तव्यः । एनम् एनौ एनानित्यादि तु त्यदाद्यत्वेन सिद्धम् । क्लीबे अमि लुका लुप्तत्वेऽपि तकारोच्चारणसमाथ्र्यादेनदादेशः । न चैवमेतच्छ्रित इत्यत्राप्येनदादेशापत्तिः ।द्वितीयाश्रिते॑ति समासे कृते सुपो लुकि द्वितीयदिविभक्तिपरत्वाऽभावात् । न च तकारोच्चारणसामर्थ्यादेनदादेश इत्युक्तमिति वाच्यम्, एकपदाश्रयत्वेनान्तरङ्गे स्वमोर्लुकि चरितार्थत्बेन बहिरङ्गे सामासिके लुकि तदप्रवृत्तिरिति मनोरमायां स्थितम् । ब्राह्मणी इति । इहविभाषा ङिश्यो॑रित्यल्लोपो न,संयोगाद्वमन्ता॑दिति निषेधात् । रोऽसुपि । अहर्भातीति ।अहन् इति रुतच्वे कृते तुहशि चे॑त्युत्वपर्वृत्त्याअहोभाती॑ति स्यादिति भावः ।

Padamanjari

स्ववद्भिरिति । अवतेरसुन्, शोभनमवो येषां ते स्ववसः ।’तु’ इति सौत्रो धातुः, स्वन्तवो येषां ते स्वतवसः । माद्भिरिति ।’पद्दन्नोमास्’ इति मासशब्दस्य मासादेशः । उषद्भिरिति ।’मिथुने’ सिःऽ,’वसेः किञ्च’ इत्यसिप्रत्ययः ॥

Nyaas

अद्भिः इति। झलां जशोऽन्ते (8.2.39) इति जश्त्वम् - तकारस्य दकारः। द्वितकारपक्षे तु पूर्वस्यापि **झलां जश् झशि** (8.4.53) इति जश्त्वम् - दकारः। **झरो झरि सवर्णे** (8.4.65) इति पूर्वदकारलोपः। `सुवः [स्ववः इति। काशिका] इत्यादि। सुवस्, स्वतवस्, मास, उवस् - इत्येतेषां च भकारादौ परतस्त इत्ययमादेश इष्यते च्छन्दसि विषये। स च व्यत्ययो बहुलम् (3.1.85) इत्यनेनैव लभ्यत इति वेदितव्यम्॥

Praudhamanorama

आशिषाविति। ‘आशासः क्वावुपसंख्यानम्’ इत्युपधाया इत्वम्। ‘शासिवसि’ इति षत्वम्। इति श्रीमद्भट्टोजिदीक्षितविरचितायां प्रौढमनोरमायां हलन्ताः स्त्रीलिङ्गाः॥

Prakriyasarvasvam

भादौ प्रत्यये परे अपस्त स्यात् । जश्त्वम् । अद्भिः । अद्भ्यः । अपाम् । अप्सु ॥ दिक् । दिशौ । दिग्भ्याम् । दृशेः क्विन्नन्तत्वात् कुः । दृक् । दृशौ ॥ त्विष् । जश्त्वचर्त्वे । त्विट् । त्विषौ । सम्पदादिक्क्विप् । आशिस् । रुत्वे ‘र्वो—’ (८-२-७६) इति दीर्घः । आशीः । ‘शासिवसि—’ (८-३-६०) इति षः । आशिषौ । आशीर्भ्याम् । आशीष्षु ॥ अदसः सौ प्राग्वत् । असौ । अदस् औ । त्यदाद्यत्वे टाप् । शी भावादि । अदे अदाः । पुनरुत्वमत्वे अमू । अमूः । अमूम् । अमू । अमूः । अमुया । अमूभ्याम् । अमूभिः । अमुष्यै । अमुष्याः । अमुयोः । अमूषाम् । अमुष्याम् । अमूषु ॥ स्वनडुह् सु । स्वमोर्लुक् । वस्वादिना दः । स्वनडुत् । ‘नपुंसकाच्च’ (७-१-१९) इति शी । स्वनडुही । शेः सर्वनामस्थानत्वात् ‘चतुरनडुहोः—’ (७-१-९८) इत्याम् । ‘नपुंसकस्य झलचः’ (७-१-७२) इति नुम् । स्वनड्वांहि । हे स्वनडुत् । क्लीबे सर्वत्र द्वितीया प्रथमावत्, टादौ पुंवदेव ॥ वाः । वारी । अझलन्तत्वान्न नुम् । वारि । वारा । वार्भ्याम् । वार्षु । एवं मृदुगिर् ‘र्वोः—’ (८-२-७६) इति दीर्घः । मृदुगीः । मृदुगिरौ । मृदुगिरि ॥ विमलदिव् सु । सोर्लुकि पदत्वाद् ‘दिव उत्’ (६-१-१३१) इति उत् । विमलद्यु दिनम् । विमलदिवी । विमलदिवि ॥ किं सु । सोर्लुकि ‘न लुमता—’ (१-१-६३) इति विभक्तिकार्याभावात् कादेशो न । किम् । के । कानि । एवम् इदम् । इमे । इमानि । अन्वादेशे एनदिति नपुंसकैंक्वचने वाच्यम् । एनत्, एनद् । एने, एनानि । शेषं पुंवत् ॥ धाम । ‘विभाषा ङिश्योः’ (६-४-१३६) इति वाल्लोपः । धाम्नी, धामनी । हे ब्रह्मन् , हे ब्रह्म । अहन् स् । स्वमोर्लुकि ‘न लुमता—’ (१-१-६३) इति हे धाम । ‘न संयोगात्-’ (६-४-१३७) इत्यल्लोपाभावः । ब्रह्म ब्रह्माणी । हे ब्रह्मन् , हे ब्रह्म । अहन् सु । स्वमोर्लुकि ‘न लुमता—’ (१-१-६३) इति प्रत्ययलक्षणनिषेधात् ‘रोऽसुपि’ (८-२-६९) इति नस्य रत्वम् । अहर्याति इत्यादौ रत्वं फलम् । अहः । ‘विभाषा ङिश्योः’ (६-४-१३६) इत्यल्लोपः । अह्नी, अहनी । अहानि । हे अहः । अह्ना । अहन् भ्याम्,

Sudha

अपोभिरिति । अच उपसर्गात्तः इत्यतः त इत्यनुवर्तते, तदाह - अपस्तकार इति । अद्भिः । “अप् + भिस्” इत्यत्र अपो भि इति पस्य तकारे झलां जशोऽन्ते इति तस्य दत्वे सस्य रुत्वे रेफस्य विसर्गत्वे च कृते ‘अद्भिः’ इति । दिक् दिग् । ‘दिश्-अतिसर्जने’ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च इत्यादिना क्विनि तस्य सर्वस्यापहारे कृदन्तत्वात्प्रातिपदिकसंज्ञायां सावागते लोपे कृते हल्ङयादिना सलोपे कृते ‘दिश’ इति जाते तत्र व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इति षत्वे झलां जशोऽन्ते इति डत्वे क्विन्प्रत्ययस्य कुः इति डस्य कुत्वेन गत्वे वाऽवसाने इति विकल्पेन कत्वे ‘दिक्’ इति । पक्षे - ‘दिग्’ इति । दिग्भ्याम् । “दिश् + भ्याम्” इति स्थिते अत्र ‘व्रश्च’ इति षत्वे झलां जशोऽन्ते इति डत्वे क्विन्प्रत्ययस्य कुः इति कुत्वेन गत्वे ‘दिग्भ्याम्’ इति । दृक् - दृग् । “दृश् + सु” अत्र उकारस्येत्संज्ञायां लोपे च हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इति स् लोपे व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इति षत्वे षस्य झलां जशोऽन्ते इति डत्वे क्विन्प्रत्ययस्य कुः इति (क्विन्प्रत्ययो यस्माद्विहित इति बहुव्रीह्याश्रयणात्) कुत्वेन गकारे वाऽवसाने इति गस्य कत्वे ‘दृक्’ इति । पक्षे ‘दृग्’ इति । दृग्भ्याम् । “दृश् + भ्याम्” अत्र षडगाः प्राग्वत् । त्विट् । त्विष् — दीप्तौ क्विप् । सुलोपः। जश्त्वे चर्त्वे च रूपम् । त्विङ्भ्याम् । “त्विष् + भ्याम्” अत्र झलां जशोऽन्ते इति जश्त्वेन डत्वे ‘त्विङ्भ्याम्’ इति । सजूः । “सजुष् + सु” अत्र सकारोत्तरवर्तिन उकारस्येत्संज्ञायां लोपे च स् इत्यस्य हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् इति लोपे ससजुषो रुः इति षस्य रुत्वे उकारलोपे र्वोरुपधाया दीर्घ इकः इति जकारोत्तरवत्युकारस्य दीर्घत्वे रेफस्य विसर्गत्वे च ‘सजूः’ इति रूपम् । सजुर्भ्याम् । “सजुष् + भ्याम्” इत्यत्र स्वादिष्वसर्वनामस्थाने इति पदसंज्ञायां ससजुषो रुः इति षकारस्य रुत्वे उकारस्येत्संज्ञायां लोपे च कृते र्वोरुपधाया दीर्घ इकः इति जकारोत्तरवर्तिन उकारस्य दीर्घत्वे संयोगे च कृते ‘सजुर्भ्याम्’ इति । आशीः । “आशिष् + सु” इत्यत्र उकारस्येत्संज्ञायां लोपे च सकारस्य हल्ङ्यादिना लोपे षत्वस्यासिद्धत्वात् ससजुषो रुः इति रुत्वे उकारस्येत्संज्ञायां लोपे च र्वोरुपधाया दीर्घ इकः इति शकारोत्तरवर्तिन इकारस्य दीर्घत्वे रेफस्य खरवसानयोर्विसर्जनीयः इति विसर्गत्वे ‘आशीः’ इति रूपम् । आशीर्भ्याम् । “आशिष् + भ्याम्” इत्यत्र स्वादिष्वसर्वनामस्थाने इति पदसंज्ञायां षत्वस्यासिद्धत्वात् ससजुषो रुः इति रुत्वे उकारस्येत्संज्ञायां लोपे च जाते र्वोरुपधाया दीर्घ इकः इति उपधाभूतेकारस्य दीर्घत्वे ‘आशीर्भ्याम्’ इति रूपम् । असौ । “अदस् + सु” इत्यत्र अदस औ सुलोपश्च इति सस्योत्वे सुलोपे च विहिते “अद + औ” इति जाते तदोः सः सावनन्त्ययोः इति दकारस्य सकारे वृद्धिरेचि इति वृद्धौ च कृतायाम् ‘असौ’ इति । अमू । “अदस्+औ” इति स्थिते त्यदादीनामः इत्यत्वे अतो गुणे इति पररूपे च कृते अजाद्यतष्टाप् इति टापि, टकारपकारयोरित्संज्ञायां लोपे च कृते अकः सवर्णे दीर्घः इति दीर्घे “अदा+औ” इति जाते, अत्र औङ आपः इति औस्थाने श्यादेशे लशक्वतद्धिते इति शस्येत्संज्ञायां लोपे च आद्गुणः इति गुणे ‘अदे’ इति भूते अत्र अदसोऽसेर्दादु दो मः इति दात्परस्योत्वे दस्य च मत्वे ‘अमू’ इति रूपम् । अमूः । “अदस्+जस्” अत्र त्यदाद्यत्वे पररूपत्वे च टापि सवर्णदीर्घे जसो जकारस्य चुटू इतीत्संज्ञायां तस्य लोपः इति लोपे “अदा+अस्” इति जाते, तत्र अकः सवर्णे दीर्घः इति दीर्घे च कृते ‘अदास्’ इति भूते अदसोऽसेर्दादु दो मः इति दात्परस्याकारस्योत्वे दस्य च मत्वे सो रुत्वे विसर्गत्वे च ‘अमूः’ इति रूपम् । द्वितीयायाम् - अमि, औटि, शसि च - अमुम्, अमू, अमूः, इति । अमुया । “अदस् + टा” इत्यत्र अत्वे पररूपत्वे टापि, सवर्णदीर्घे टकारस्येत्संज्ञायां लोपे च “अदा+आ” इति स्थिते आङि चापः इत्येत्वे अयादेशे संयोगे च कृते ‘अदया’ इति जाते तत्र अदसोऽसेर्दादु दो मः इति दात्परस्योत्वे दस्य च मत्वे ‘अमुया’ इति । अमूभ्याम् । “अदस्+भ्याम्” अत्र त्यदाद्यत्वे पररूपत्वे च कृते टापि, अनुबन्धलोपे सवर्णदीर्घे “अदा+भ्याम्” इति स्थिते अदसोऽसेर्दादु दो मः इति दात्परस्योत्वे दस्य च मत्वे ‘अमूभ्याम्’ इति । अमूभिः । अत्वपररूपटाप्सु उत्वमत्वे, रुत्वविसर्गयोः सतोः रूपम् । अमुष्यै । “अदस्+ए” अत्र अत्वपररूपटाप्सु जातेषु “अदा+ए” इति जाते तत्र सर्वनाम्नः स्याड्ढ्रस्वश्च इति ङे स्याडागमे आबन्ताङ्गस्य ह्रस्वे च कृते वृद्धिरेचि इति वृद्धौ उत्वमत्वे षत्वे च ‘अमुष्यै’ इति । अमूभ्यः । “अदस्+भ्यस्” इत्यत्र अव्वपररूपटाप्सु, ऊत्वमत्वे, रुत्वे, विसर्गे च रूपम् । अमुष्याः । ङसिङसोङवत् रुत्वविसर्गौ तु विशेषः । अमुयोः । “अदस्+ओस्” अत्र अत्वपररूपटाप्सु, आङि चापः इत्येत्वे, अयादेशे च कृते ‘अदयोस्’ इति जाते अदसोऽसेर्दादु दो मः इत्युत्वे मत्वे च रुत्वविसर्गयोः ‘अमुयोः’ इति रूपम् । अमूषाम् । “अदस्+आम्” अत्र त्यदाद्यत्वे पररूपत्वे टापि, सवर्णदीर्घे “अदा + आम्” इति जाते तत्र आमि सर्वनाम्नः सुट् इति सुटि टित्वादाम आद्यावयवे जाते अनुबन्धलोपे ऊत्वमत्वे सस्य षत्वे च ‘अमूषाम्’ इति रूपम् । अमुष्याम् । “अदस्+ङि” इति स्थिते, अत्वपररूपटाप्सु, ङेराम्नद्याम्नीभ्यः इति ङेरामि सर्वनाम्नः स्याड्ढ्रस्वश्च इत्यामः स्याढि आपो ह्रस्वे च कृते “अदस्या + आम्” इति जाते अकः सवर्णे दीर्घः इति दीर्घे अदसोऽसेर्दादु दो मः इति दात्परस्योत्वे दस्य च मत्वे आदेशप्रत्यययोः इति षत्वे ‘अमुष्याम्’ इति । अमूषु । “अदस्+सुप्” इत्यत्र त्यदाद्यत्वे पररूपत्वे टापि, सवर्णदीर्घत्वे ‘अदासु’ इति भृते अदसोऽसेर्दादु दो मः इति दात्परस्योत्वे दस्य च मत्वे आदेशप्रत्यययोः इति सस्य षत्वे ‘अमूषु’ इति रूपं सिद्धम् । इति हलन्तस्त्रीलिङ्गप्रकरणम् ।

Vartika

मासश्छन्दसीति वक्तव्यम् ।