74044: विभाषा छन्दसि

Padacheda: विभाषा | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

हि is optionally substituted for हा (जहाति) before क्त्वा in the छन्दस् (Vedas).

Vasu English Translation

हि is optionally substituted for हा (जहाति) before क्त्वा in the छन्दस् (Vedas). As हित्वा शरीरं यातव्यं, or हात्वा also. The long ई of (6.4.63) does not take place also as a Vedic irregularity.

Kashika

जहातेरङ्गस्य विभाषा हि इत्ययमादेशो भवति छन्दसि विषये क्त्वाप्रत्यये परतः। हित्वा शरीरं यातव्यम्। हात्वा।

Siddhanta Kaumudi

हित्वा शरीरम् । हीत्वा वा ॥

Padamanjari

पूर्वसूत्रारम्भादयमारम्भः, अन्यथा हिनोतिजहात्यो रूपद्वयं सिद्धम् । हात्वेति । छान्दसत्वादीत्वाभावः ॥

Prakriyasarvasvam

जहातेः कित्वहित्वं वा स्यात् । ‘घुमास्था’ - (६-४-६६) इति ईत्वम् । हीत्वा । हित्वा छान्दसत्त्वात्क्वचिद्दीर्घाभावोऽपि हात्वा ।