74041: शाच्छोरन्यतरस्याम्¶
Padacheda: शाच्छोः | S | 6 | 2 |
अन्यतरस्याम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Short इ is optionally substituted for the final of 1. शा (शो) and 2. छा (छो) before an affix beginning with त् and having an indicatory क् ।
Vasu English Translation¶
Short इ is optionally substituted for the final of 1. शा (शो) and 2. छा (छो) before an affix beginning with त् and having an indicatory क् । Karika देवत्रातो गलो ग्राह इति योगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ॥
As निशितं or निशातम्, निशितवान् or निशातवान्; अवच्छितं, अवच्छितवान् or अवच्छातं, अवच्छातवान् ॥ The शा always takes the इ when it means a vow : as संशितो ब्राह्मणः = संशितव्रतः ॥ The rule of this sutra thus becomes a vyavasthita vibhasha. Other examples of such vyavasthita vibhasha are to be found in (8.2.56), where त्रात and त्राण past participles are formed with त or ण, but त्रात is only employed in names as देवत्रातः &c, and never त्राण, while in denoting action both forms are valid: similarly by (8.2.21), गल and गर are both formed, but गल alone is used when ‘neck’ is meant, and गर alone when ‘poison’ is indicated; optionally both when an action is meant. Similarly by (3.1.143), ग्राह and ग्रह are formed, but ग्राहः is only used when ‘a crocodile’ is meant, and ग्रहः alone is employed when a ‘planet’ is indicated. Similarly the addition of the Present Participle affix शतृ and शानच् under (3.2.126), is debarred when इति is added, as हन्ति इति पलायते, वर्षतीति धावति ॥ In all the above examples, the option though taught generically, should be limited to specific cases; as also in the examples गवाक्षः ‘a window’, and गोऽक्षम् ‘cow’s eye’ (6.1.123) and संशितव्रतः ॥ In short, we should limit a general vibhasha to a vyavasthita vibhasha, on the maxim व्यवस्थितविभाषा विज्ञानात् सिद्धम् ॥
Bhashya¶
शाच्छोरन्यतरस्याम् ॥ श्यतेरित्त्वं व्रते नित्यम्(3) ॥ श्यतेरित्त्वं व्रते नित्यमिति वक्तव्यम् । संशितव्रतः ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् ॥ ॥ देवत्रातौ(3) गलो ग्राह इति योगे च सद्विधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ॥
Kashika¶
शा छा इत्येतयोः अन्यतरस्याम् इकारादेशो भवति तकारादौ किति। शा निशितम्, निशातम्। निशितवान्, निशातवान्। छा अवच्छितम्, अवच्छातम्। अवच्छितवान्, अवच्छातवान्। श्यतेरित्त्वं व्रते नित्यम् इति वक्तव्यम्। शंशितो ब्रह्मणः। संशितव्रतः इत्यर्थः। व्यवस्थितविभाषविज्ञानात् सिद्धम्। देवत्रातो गलो ग्राह इति योगे च सद्विधिः। मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः।
Siddhanta Kaumudi¶
शितः । शातः । छितः । छातः । व्यवस्थितविभाषात्वाद्व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥
Balamanorama¶
शाछोरन्यतरस्याम् - शाच्छोः । शो तनूकरणे॑ ‘छो छेदने’ अनयोः कृतात्वयोर्निर्देशः । अनयोरिकारोऽन्तादेशो वा स्यात्तादौ कितीत्यर्थः । व्यवस्थितेति । एतच्च भाष्ये स्पष्टम् ।
Tattvabodhini¶
शाछोरन्यतरस्याम् - शाच्छो । शो तनूकरणे । छो छेदने ।
Nyaas¶
शो तनूकरणे (धातुपाठः-1145), छो छेदने (धातुपाठः-1146)। श्यतेरित्त्वं व्रते नित्यम् इति। ब्रात इति नोत्तरपदं गृह्रते, किं तर्हि? विषयः। व्रतविषये श्यतेर्नित्यमित्त्वं भवति। संशितो ब्राआहृणः इति। आचारविशेषे व्रताख्ये यत्नवानेवोच्यते संशितव्रत इति। संशितं यत्नेन सम्यक्? प्रतिपादितं व्रतं यस्य येन वा स एवमुच्यते। ननु च व्रतविषये विधौयमानेनेत्त्वेनैव व्रतस्य द्योतितत्वाद्व्रतशब्दस्य प्रयोगो न प्राप्नोति? नैष दोषः; अन्यत्र हीत्वं भवत्येव, व्रते तु नित्यमाख्यायते, सोऽयं सामान्यशब्दो भवति। अत्र विशेषार्थो व्रतश्ब्दः प्रयुज्यते। परनिपातस्त्वाहितग्न्यादित्वाद्द्रष्टव्यः। व्यवस्थितविभाषाविज्ञानात्? सिद्धम्? इति। एतदागमवाक्येन द्रढयितुमाह - `देवत्रातः इत्यादि। त्रैङ्? पालने (धातुपाठः-965), क्तः। नुदविदोन्दत्राघ्रह्यीभ्योऽन्यतरस्याम् (8.2.56) इति संज्ञाविषये नत्वं न भवत्येव - देवैस्त्रातो देवत्रातः, देवशब्दोऽत्र संज्ञोपलक्षणार्थः। केवलस्यापि त्रातशब्दस्य संज्ञायां न नत्वं प्रतिपद्यते। एवं सज्ञाया अन्यत्रोभयं भवति - त्राणः, प्रात इति। गलः इति। गिरतेः पचाद्यच्। ग्रो यङि (8.2.20) , अचि विभाषा (8.2.21) इति प्राण्यङ्गे नित्यं लत्वम् - गल इति। विषे तु भवत्येव - गर इति। ग्राहः इति। ग्राहेः विभाषा ग्रहः (3.1.143) इति णप्रत्ययः। जलचरे नक्रे नित्यं णप्रत्ययो भवति - ग्राह इति। आदित्यसोमादिषु पचाद्यज्भवत्येव - ग्रह इति। इतियोगे च सद्विधिर्न भवति इति। वर्षतीति धावति, हन्तीति पलायते इति - लक्षणहेत्वोः क्रियायाः (3.2.126) इति सत्संज्ञकौ शतृशानचावितियोगे न भवत एव, व्यवस्थितविभाषया। तत्र नन्वोर्विभाषा (3.2.121) इत्यतो विभाषाग्रहणमनुवर्तते - अर्जयन्? वसति, अधीयानो वसति। तत्रासतीति योगे नित्यावेव तौ भवतः। ननु चेतिशब्देनैव हेत्वर्थस्य द्योतितत्वाद्वर्षतीति, हन्तीत्येवमादौ सद्विधिर्न भविष्यति, यत्र त्वितिशब्दो न प्रयुज्यते तत्र भवत्येव - अर्जयन्? वसतीत्यादौ, तदत्र विभाषाधिकारनन्तरेणापि विभाषा लभ्यत एव; अतो विभाषाग्रहणं नानुवर्त्त्यमेव, तस्मादनुदाहरणमेतद्व्यवस्थितविभाषायाः? इदं तर्ह्रुदाहरणम् - करिष्यामीति व्रजतीति। अत्र लृट्? शेषे च (3.3.13) इति चकारात्? क्रियायामुपपदे क्रियार्थायां लृट्, तस्य लृटः सद्विधिर्न भविष्यतीति; व्यवस्थितविभाषया। अप्रथमासमानाधिकरणेनेतियोगादन्यत्र नित्यं भवति - करिष्यन्तं पश्येति, प्रथमासमानाधिकरणे तु विकल्पः - ब्राआहृणः करिष्यन्? ब्राआहृणः करिष्यतीति।मिथः इत्यादि। मिथ इति सहभावेन। देवत्रातगलग्राहादयस्त्राणगरग्रहादिभिः सहैकस्मिन्? विषये विकल्पेन नान्वाख्यायन्त इत्यर्थः। गवाक्षः इति। सर्वत्र विभाषा गोः (6.1.122) इत्यनुवर्तमाने अवङ्? स्फोटायनस्य (6.1.123) इति वातायने नित्यमवङ्? भवति, प्राण्यङ्गो तु गोऽक्षमित्यत्र न भवति; अन्यत्रोभयम् - गवाक्षम्, गोऽक्षमिति। संशितव्रतः इति। व्रते नितयमित्त्वम्। अन्यत्र विकल्पेन - निशितम्, निशातं शस्त्रम्। तीक्ष्णमित्यर्थः। तदेतत्? सर्वं व्यवस्थितविभाषया लभ्यते। क्वचिद्विधिरेव, क्वचित्? प्रतिषेध एव, क्वचिदुभयमपीत्येवंविधा विविधार्थे स्थितां विभाषा व्यवस्थितविभाषा। एतच्च विविधमवस्थानमाकृतौ पदार्थे वेदितव्यम्। तत्र हि सर्व लक्ष्यराशिमेकीकृत्याभिसंक्षिप्य तदुभयमुपदिश्यते। विधिः प्रतिषेधश्च जातौ पदार्थ उभयमपि भवतीत्येतावतोऽर्थस्य प्रतिपादने शास्त्रस्य व्यापारः। यस्तु क्वचिदर्थे विधिरेव, क्विचित्? प्रतिषेध एव, क्वचिदुभयमित्यसङ्करेण व्यवस्थानम्, एतच्चाविच्छिन्नाचार्यपारम्पर्योपदेशाल्लभ्यते॥
Prakriyasarvasvam¶
तनूकरणच्छेदनार्थयोः शाच्छोस्तादौ कितीत्वं वा स्यात् । शितं सातं वा शस्त्रम् । छितं छातम् । संशित इति व्रते नित्यम् । अत्र हरः—‘संशितो व्रते यत्नवान् । संशितव्रत इत्यत्र तु सम्यक् सम्पादितव्रत इत्यर्थः’ इति ॥
Vartika¶
श्यतेरित्त्वं व्रते नित्यमिति वक्तव्यम् ।
Sutra Prayogas¶
निशातम् (शिशुपालवधम्): शाच्छोरन्यतरस्याम् इति इत्वविकल्पात् पक्षे आत्वम्।
शातशस्त्रावलूनाः (शिशुपालवधम्): शाच्छोरन्यतरस्याम् इति विकल्पादीत्वाभावः।
शितमा (शिशुपालवधम्): शाच्छोरन्यतरस्याम् इतीत्वम्।
निषाता (भट्टिकाव्यम्): शाच्छो- रन्यतरस्याम् इतीत्वाभावपक्षे रूपम्।