74050: तासस्त्योर्लोपः¶
Padacheda: तासस्त्योः | S | 6 | 2 |
लोपः | S | 1 | 1 |
Sutrartha¶
तास्-प्रत्ययस्य तथा अस्-धातोः सकारे परे लोपः भवति ।
लुट्-लकारस्य विकरणप्रत्ययः ‘तास्’ - इत्यस्य, तथा अस्-धातोः अन्तिम-सकारस्य सकारे परे लोपः भवति । यथा - 1. पठ्-धातोः लुट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् - पठ् + लुट् [अनद्यतने लुट् (3.3.15) → पठ् + तास् + लुट् [स्यतासी लृलुटोः (3.1.33) इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + लुट् [आर्धधातुकस्येड्वलादेः (7.2.35) इति इडागमः] → पठ् + इ + तास् + सिप् [तिप्तस्.. (3.4.78) इति सिप्-प्रत्ययः] → पठ् इ + ता + सि [सकारे परे तास्-प्रत्ययस्य तासस्त्योर्लोपः (7.4.50) इति लोपः] → पठितासि 2. अस्-धातोः लट्-लकारस्य मध्यमपुरुषैकवचनस्य रूपम् - अस् + लट् [वर्तमाने लट् (3.2.123) इति लट्] → अस् + सिप् [तिप्तस्.. (3.4.78) इति सिप्] → अस् + शप् + सिप् [कर्तरि शप् (3.1.68) इति शप्] → अस् + सिप् [अदिप्रभृतिभ्यः शपः (2.4.72) इति शप्-प्रत्ययस्य लुक्] → असि [सकारे परे अस्-इत्यस्य सकारस्य तासस्त्योर्लोपः (7.4.50) इति लोपः] ज्ञातव्यम् - अत्र अलोऽन्त्यस्य (1.1.52) इत्यनेन अन्तिमवर्णस्य (इत्युक्ते ‘तास्’ तथा ‘अस्’ एतयोः सकारस्य) लोपः भवति ।
Sutrartha (English)¶
The सकार of तास् प्रत्यय and the verb root अस् is removed when followed by सकार.
Vasu English Summary¶
The final स् of तास् (the character of the second future) and अस् ‘to be’ is elided before an affix beginning with स् ।
Vasu English Translation¶
The final स् of तास् (the character of the second future) and अस् ‘to be’ is elided before an affix beginning with स् । As कर्त्तासि, कर्त्तासे, त्वमसि, ष्यति से ॥ See (6.4.111). In से the अ and स् both of अस् have been elided, the अ by (6.4.111), and स् by the present sutra,so that the mere suffix से remains, which however here is a finite verb: hence the स, is not changed to ष ॥ See (8.3.111).
Kashika¶
तासेः अस्तेश्च सकारस्य सकारादौ प्रत्यये परतः लोपो भवति। तासेः कर्तासि। कर्तासे। अस्तेः त्वमसि। व्यतिसे। अस्तेः अकारासकारयोः लुप्तयोः से इति प्रत्ययमात्रम् एतत् पदम्, तेन सात् पदाद्योः (8.3.111) इति षत्वं न भवति।
Siddhanta Kaumudi¶
तासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥
Laghu Siddhanta Kaumudi¶
तासेरस्तेश्च सस्य लोपः स्यात्सादौ प्रत्यये परे॥
Balamanorama¶
तासस्त्योर्लोपः - तदाह — तासस्त्योः । ‘सः स्यार्धधातुके’ इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्त्राप्यूह्रम् ।
Tattvabodhini¶
तासस्त्योर्लोपः - ॒सः स्यार्धदातुके॑ इत्यतः सीत्यनुवर्तते, अङ्गाक्षिप्तस्य प्रत्ययस्य सीत्यनेन विशेषणात्यस्मिन्विधि॑रिति तदादिविधिः, तदिदमाह — सादाविति । एवं रादावित्यत्राप्यूह्रम् ।
Padamanjari¶
व्यतिसे इति ।’कर्तरि कर्मव्यतिहारे’ इत्यात्मनेपदम्, शपो लुक्,’श्नसोरल्लोपः’ इत्यकारलोपः । प्रत्ययमात्रमेतत्पदमिति । तेन’सात्पदाद्योः’ इति षत्वप्रतिषेध इति भावः ॥
Nyaas¶
अनद्यतने लुट् (3.3.15) तासिः, सिप्। कर्तासे इति। थासः से (3.4.80) । त्वमसि इति। स भुवि (धातुपाठः-1065), पूर्ववच्छपो लुक्। व्यतिसे इति। कर्तरि कर्मव्यतीहारे (1.3.14) इत्यात्मनेपदं भवति। थासः से (3.4.80) , श्नसोरल्लोपः (6.4.111) इत्यकारलोपः। अथ आदेशप्रत्यययोः (8.3.59) इति षत्वं कस्मान्न भवति? इत्यत आह - अस्तेरकारसकारयोः इत्यादि। अकारसकारयोर्हि लुप्तयोः प्रत्ययमात्रमवशिष्यते, तदेव पदम, अतः सात्पदाद्योः (8.3.111) इति प्रतिषेधात्? षत्वं न भविष्यतीति भावः॥
Prakriyasarvasvam¶
सादौ प्रत्यये परे तासेरस्तेश्च सलोपः स्यात् । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः । तङ्यपि—प्रथमपुरुषस्य डारौरसः प्राग्वत् । भविता भवितारौ भवितारः । ‘थासः से’ । ‘तासस्त्यो’रिति सलोपः । भवितासे । भवितासाथे², धि च । (८-२-२५) सलोपः । भविताध्वे । भवितास् ए ।
Sutra Prayogas¶
शून्यश्चाऽसीति (भट्टिकाव्यम्): तासस्त्यो लोपः इति सकारलोपः ।