74057: मुचोऽकर्मकस्य गुणो वा¶
Padacheda: मुचः | S | 6 | 1 |
अकर्मकस्य | S | 6 | 1 |
गुणः | S | 1 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
When मुच् has an Intransitive signification गुण is optionally substituted for its vowel before the अनिट् सन् of the Desiderative.
Vasu English Translation¶
When मुच् has an Intransitive signification गुण is optionally substituted for its vowel before the अनिट् सन् of the Desiderative. By (1.2.10), after a root ending in a consonant, the सन् is like कित् and does not cause Guna. The present sutra ordains it optionally. As मोक्षते or मुमुक्षते वत्सः स्वयमेव ॥ In the Transitive there is one form only, as मुमुक्षति वत्सं देवदत्तः ॥ मुच् becomes Intransitive when it has a Reflexive significance, or when it expresses a mere action. The reduplication is elided by (7.4.58).
Kashika¶
मुचोऽकर्मकस्य गुणो वा भवति सनि सकारादौ परतः। हलन्ताच् च (1.2.10) इति कित्त्वप्रतिषेधो विकल्प्यते। मोक्षते वत्सः स्वयम् एव, मुमुक्षते वत्सः स्वयम् एव। अकर्मकस्य इति किम्? मुमुक्षति वत्सं देवदत्तः। कर्मकर्तरि मुचिरकर्मको भवति, कर्मविशेषस्य अविवक्षिताद्वा।
Siddhanta Kaumudi¶
सादौ सनि । अभ्यासलोपः । मोक्षते मुमुक्षते वा वत्सः स्वयमेव । अकर्मकस्य किम् । मुमुक्षति वत्सं कृष्णः ।न वृद्भ्यश्चतुर्भ्यः (SK2348) । विवृत्सति । तङि तु । विवर्तिषते । सेऽसिचि - (SK2506) इति वेट् । निनर्तिषति । निनृत्सति ॥
Laghu Siddhanta Kaumudi¶
णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ। नेनेक्ति। नेनिक्तः। नेनिजति। नेनिक्ते। निनेज, निनिजे। नेक्ता। नेक्ष्यति, नेक्ष्यते। नेनेक्तु। नेनिग्धि॥
Balamanorama¶
मुचोऽकर्मकस्य गुणो वा - मुचोऽकर्मकस्य । सादौ सनीति । शेषपूरणमिदम् ।सः सी॑त्यतः सीत्,सनि मीमे॑त्यतः सनीति चानुवृत्तेरिति भावः ।हलन्ताच्चे॑ति कित्तवाद्गुणनिषेधे प्राप्ते वचनम् । अभ्यासलोप इति । ‘अत्र लोपः’ इत्यनेने॑ति शेषः । मोक्षते इति । ‘अत्र लोपः’ इत्यभ्यासलोपः । तङि त्विति । ‘न वृद्भ्यः’ इत्यत्र परस्मैपदग्रहणानुवृत्तेरुक्तत्वादिति भावः । निनृत्सतीति । इडभावपक्षेहलन्ताच्चे॑ति कित्त्वान्न गुणः ।
Tattvabodhini¶
मुचोऽकर्मकस्य गुणो वा - मुचोऽकर्मकस्य ।हलन्ताच्चे॑ति कित्त्वेन गुणाऽभावे प्राप्ते विधिरयम् । विवत्सतीति ।वृद्भ्यः स्यसनो॑रिति विकल्पेन परस्मैपदम् ।
Padamanjari¶
मुमुक्षत इति ।’भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात्’ इति कर्मकर्तरि यगभावः । अतिदेशेन स्वश्रयस्यानिवृतेः कर्तरि शब्भवति; यथा - नमते दण्डः स्वयमेवेति । कर्मविशेषस्याविवक्षितत्वाद्वेति । उक्तं हि - ‘प्रसिद्धेरविवक्षातः कर्मणो’ कर्मिका क्रिया ।ऽ इति ॥
Nyaas¶
मोक्षते इति। मुच्लू मोक्षणे (धातुपाठः-1430)। चोः कुः (8.2.30) इति कुत्वम्; इण्कोः (8.3.57) इति षत्वम्, कर्मवत्कर्मणा (3.1.87) इत्यदिना कर्मवदतिदेशादात्मनेपदम्। स्वयमेव इति वचनं कर्मकर्त्तृत्वप्रदर्शनार्थम्। वत्सं मोक्तुमिच्छति, स मोक्तुमिष्यमाणो मुक्तिक्रियां प्रत्यानुकूल्यं यदा प्रतिपद्यते तदा स्वतन्त्रत्वादस्मिन्? कर्मणि कर्त्तृत्वेन विवक्षिते मुचिरकर्मको भवति। अथ गुणग्रहणं किमर्थम्, नोदित्येवोच्येत? नमु चैदं सत्योकारश्चकारस्य स्थाने अलोऽन्त्यस्य (1.1.52) प्राप्नोति, गुणग्रहणादिक एव भवति, संज्ञाविधाने नियमात्? नैतदस्ति; अच इत्यनुवर्तते। तेनान्त्यस्य न भविष्यति। एवं तह्र्रेतज्ज्ञापयति - अचेति निवृत्तमिति। तेन अत्र लोपोऽभ्यासस्य (7.4.58) इत्यत्रातोऽभ्यासस्य लोपो न भवति। सति त्वजधिकारे, मा भूत्? तस्यानुवृत्तिरपार्थिकेत्यच एव लोपः स्यात्॥
Prakriyasarvasvam¶
सादौ सनि परेऽकर्मकस्य मुचेर्वा गुणः स्यात् । अभ्यासस्य लोपः । <karika>भवेदकर्मता चास्य कर्मकर्तरि तेन तङ् । यक्चिणौ तु सनन्तस्य नेत्युक्तं कर्मकर्तरि ॥ ७८८ ॥</karika> मोक्षते वत्सः स्वयमेव, मुमुक्षते वा । सकर्मकस्य तु न । मुमुक्षति वत्सं कृष्णः । उच्छी विवासे । अत्र तुकि चुत्वस्यासिद्धत्वेन हलादिशेषाद् उतिच्छिषतीति प्राप्ते ‘खपूर्वाः खय इति वाच्यम्’ । (वा) इति तकारपूर्वस्य छकारस्य शेषः । छस्य चत्वम् । उच्छिच्छिषति । उतिच्छिषतीत्यप्यस्तीति कौमुदी* । ‘द्युतिस्वाप्योः—’ (७-४-६७) इत्यभ्यासस्य प्रसारणम् । ‘रलो व्युपधात्—’ (१-२-२६) इति वा कित्त्वम्, दिद्युतिषते, दिद्योतिषते । सुष्वापयिषति । स्फारयतीत्यत्र णौ कृतस्यात्त्वस्य द्वित्वे कार्ये स्थानिवत्त्वात् पुस्फारयिषति । अनात्त्वे-पुस्फुरयिषति । एवं वृद्धावावोः स्थानिवत्त्वात् तुष्टावयिषति । ‘ओः पुयण्ज्यपरे’ (७-४-८०) इतोत्त्वात् पिपविषते, पिपावयिषति । बिभावयिषति । यणि—यियावयिषति । रिरावयिषति । लिलावयिषति । जकारे—जिजावयिषति । अवर्णापरत्वाभावात् बुभूषतीत्यत्र न । ‘स्रवतिशृणोति-’ (७-४-८१) इत्यादिना वेत्त्वम् । सिस्रावयिषति, सुस्रावयिषति । शिश्रावयिषति, शुश्रावयिषति इत्यादि । अथ षोपदेशानां सर्वत्राभ्यासेणः परस्य सस्य षत्वे प्राप्ते ।