74049: सः स्यार्द्धधातुके¶
Padacheda: सः | S | 6 | 1 |
सि | S | 7 | 1 |
आर्द्धधातुके | S | 7 | 1 |
Sutrartha¶
सकारान्तस्य अङ्गस्य सकारादि-आर्धधातुके प्रत्यये परे तकारादेशः भवति ।
किम् नाम आर्धधातुकम्? आर्धधातुकम् शेषः (3.4.114) इत्यनेन धातुविहिता तिङ्भिन्नाः शिद्भिन्नाः च सर्वे प्रत्ययाः आर्धधातुकप्रत्ययाः सन्ति । यदि सकारादि-आर्धधातुकप्रत्ययः (यथा - स्य, सन्) सकारान्तात् अङ्गात् परः विधीयते, तर्हि तस्य सकारस्य तकारादेशः भवति । यथा - 1) वस्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनम् - वस् + लृट् [लृट् शेषे च (3.3.13)] → वस् + स्य + लृट् [स्यतासी लृलुटोः (3.1.33) इति स्य-विकरणप्रत्ययः] → वस् + स्य + तिप् [तिप्तस्झि.. (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्-प्रत्ययः] → वत् + स्य + ति [सः स्यार्द्धधातुके (7.4.49) इति सकारस्य तकारः] → वत्स्यति । 2) वस्-धातोः सन्-प्रत्ययान्तरूपम् - वस् + सन् [धातोः कर्मणः समानकर्तृकादिच्छायां वा (3.1.17) इति सन्-प्रत्ययः] → वस् वस् + स [सन्यङोः (6.1.9) इति अङ्गस्य एकाच्-अवयवस्य द्वित्वम् ] → व वस् + स [हलादिः शेषः (7.4.60) इति सकारलोपः] → वि वस् + स [सन्यतः (7.4.79) इति अकारान्तस्य अभ्यासस्य सन्-प्रत्यये परे इकारादेशः] → वि वत् स [सः स्यार्द्धधातुके (7.4.49) इति सकारस्य तकार] → विवत्स [सनाद्यन्ताः धातवः (3.1.32) इति इत्संज्ञा] ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘सः’ इति षष्ठ्येकवचनमस्ति । ‘सः अङ्गस्य’ इत्युक्ते ‘सकारान्तस्य अङ्गस्य’ । येन विधिस्तदन्तस्य (1.1.72) इत्यनेन अत्र तदन्तविधिः क्रियते । 2. अलोऽन्त्यस्य (1.1.52) इत्यनेन अङ्गस्य अन्तिमवर्णस्य स्थाने आदेशः क्रियते । 3. अत्र ‘सि’ इति सप्तम्येकवचनमस्ति । यस्मिन् विधिः तदादौ अल्ग्रहणे अनया परिभाषया ‘सकारादौ प्रत्यये परे’ इति अस्य अर्थः जायते ।
Sutrartha (English)¶
A सकारान्त अङ्ग gets a तकारादेश When followed by a सकारादि-आर्धधातुक प्रत्यय.
Vasu English Summary¶
त् is substituted for the final स् of a root before an आर्द्धधातुक affix beginning with a स्।
Vasu English Translation¶
त् is substituted for the final स् of a root before an आर्द्धधातुक affix beginning with a स्। As वत्स्यति, अवत्स्यत, विवत्सति, जिघत्सति ॥ Why do we say ‘when ending in स’? Observe वक्ष्यति ॥ Why do we say ‘beginning with स’? Observe घासः, वासः ॥ Why an ardhadhatuka? Observe आस्से, वस्से, from आस् ‘to sit’ and वस् ‘to cover’; both Adadi roots.
Kashika¶
सकारान्तस्य अङ्गस्य सकारादौ आर्धधातुके परतः तकारादेशो भवति। वत्स्यति। अवत्स्यत्। विवत्सति। जिघत्सति। सः इति किम्? वक्ष्यति। सि इति किम्? घासः। वासः। आर्धधातुके इति किम्? आस्से। वस्से।
Siddhanta Kaumudi¶
सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥
Laghu Siddhanta Kaumudi¶
सस्य तः स्यात्सादावार्धधातुके । अत्तुमिच्छति जिघत्सति । एकाच इति नेट् ॥
Balamanorama¶
सः स्यार्द्धधातुके - सः सि । ‘सः’ इति छेदः । ‘स’ इति षष्ठन्तम् । सीति सप्तम्यन्तमार्धधातुकविशेषणं । तदादिविधिः । ‘अच उपसर्गात्तः’ इत्यतस्त इत्यनुवर्तते । अकार उच्चारणार्थः । तदाह — सस्य तः स्यादिति । आदेशे अकारस्य उच्चारणार्थत्वत्तकारः स्यादित्यर्थः ।
Tattvabodhini¶
सः स्यार्द्धधातुके - सः — सीति च्छेदः । सादौ किम् । घस्मरः । आर्धधातुके इति किम् । वस्से । आशिषीति । आशीर्लिङीत्यर्थः । एतच्च कर्तरि प्रोगमभिप्रेत्योक्तम् । कर्मणि तु यग्विषये प्रयोगो नेति बोध्यम् ।
Padamanjari¶
वत्स्यतीत्यादि ।’वस निवासे’ , लट् । जिघत्सतीति ।’लुङ्सनोर्घस्लृ’ । आस्से, वस्से इति । ठास उपवेशनेऽ,’वशे आच्छादने’ - अदादी अनुदातेतौ । ठतङ्ऽ इत्युच्यिमाने व्यतिवत्सीष्टेत्यत्रापि न स्यात् ॥
Nyaas¶
अत्रापि द्वितकारपक्षेऽनेकाल्त्वात्? सर्वादेशः प्राप्नोति, तस्मात्? अचः इति। पञ्चम्यन्तमनुवर्तनीयमिति। अथ वा - निर्दिश्यमानस्यादेशा भवन्ति (व्या।प।106) इति सकारस्यैव भविष्यति। वत्स्यति इति। वसनिवासे (धातुपाठः-1942)। जिघत्सति इति। अदेः सन्, लुङ्सनोर्घस्लृ (2.4.37) इति तस्य घस्लादेशः। वक्ष्यति इति। वच परिभाषणे (धातुपाठः-1842), चोः कुः (8.2.30) इति कुत्वम्। घासः, वासः इति। भावे घञ्, घञपोश्च (2.4.38) इत्यदेर्घस्लादेशः। आस्से, वस्से इति। आस उपवेशने (धातुपाठः-1021), वस आच्छादने (धातुपाठः-1023), अनुदात्तेत्त्वादात्मनेपदम्, चासः से (3.4.80) , अदादित्वाच्छपो लुक्। अथ सः स्यतिङ् इति कस्मान्नोक्तम्? नैवं शक्यम्; इहापि न स्यात् - व्यतिवत्सीष्ठा इति॥
Prakriyasarvasvam¶
सः सीति च्छेदः । सादावार्धधातुके परे सस्य तः स्यात् । अघत्साताम् । अघत्सत । ‘सः सि’ इति तत्त्वे ‘झलो झलि’ इति सिज्लोपः । अघत्थाः । अघस् स् ध्वम् । ‘सः सि’ इति तः । ‘धि च’ । *तस्य जश्त्वम् । अघद्धम् । अघत्सि ।
Sudha¶
सः स्यार्धधातुक इति। ** सः इति षष्ठयन्तम् । सि इति सप्तम्यन्तम्, आर्धधातुकविशेषणम् । तदादिविधिः । **अच उपसर्गात्तः (7.4.47) इत्यतः तः इत्यनुवर्तते । अकार उच्चारणार्थः तदाह - सस्य तः स्यादिति । आदेशे अकारस्य उच्चारणार्थत्वात्तकारः स्यादित्यर्थः । “जिघत्सति ।” अद् इत्यस्माद्धातोः धातोः कर्मणः (3.1.7) इति सन् प्रत्यये लुङ्सनोर्घसॢ (2.4.37) इत्यतो घस्लादेशेऽनुबन्धलोपे “घस् स” इति भूते अत्र सनस्सस्य आर्धधातुकं शेषः (3.4.114) इत्यार्धधातुकसंज्ञायाम् आर्धधातुकस्येड् वलादेः (7.2.35) इतीडागमे प्राप्ते एकाच उपेदेशेऽनुदात्तात् (7.2.10) इतिनिषिद्धे सन्यङोः (6.1.9) इति द्वित्वे अभ्यासत्वे अभ्यासकार्ये च कृते “जघस् स” इति जाते अभ्याससकारस्य सः स्यार्धधातुके इति तकारे “जिघत्स” इति भूते सनाद्यन्ता धातवः**(3.1.32) इति धातुत्वाल्लटस्तिपि शपि अनुबन्धलोपे **अतो गुणे (6.1.97) इति पररूपे च कृते “जिघत्सति” इति रूपम् ।
Sutra Prayogas¶
विधित्सया (शिशुपालवधम्): सः सि (अर्थात् सः स्यार्धधातुके) इति तकारः।
दित्सयेव (भट्टिकाव्यम्): सः सि इत्यादिना सकारस्य तकारः।
गोत्र-भिदाऽध्यवात्सीत् (भट्टिकाव्यम्): सः स्यार्धधातुके इति तत्वम् ।
गुणिनोऽध्यवात्सुः (भट्टिकाव्यम्): सः सि इति तत्वम्।
अध्यवात्तां (भट्टिकाव्यम्): सः सि इति धातुसकारस्य तत्वम् ।