74042: दधातेर्हिः

Padacheda: दधातेः | S | 6 | 1 |

हिः | S | 1 | 1 |

Sutrartha


Vasu English Summary

हि is optionally substituted for धा (दधाति) before an affix beginning with त् and having an indicatory क् ।

Vasu English Translation

हि is optionally substituted for धा (दधाति) before an affix beginning with त् and having an indicatory क् । As हितः, हितवत्, हित्वा ॥

Kashika

दधातेरङ्गस्य हि इत्ययमादेशो भवति तकारादौ किति प्रत्यये परतः। हितः। हितवान्। हित्वा।

Siddhanta Kaumudi

तादौ किति । अभिहितम् । निहितम् ॥

Laghu Siddhanta Kaumudi

तादौ किति। हितम्॥

Balamanorama

दधातेर्हिः - दधातेर्हिः । तादौ कितीति । शेषपूरणमिदम् ।द्यतीस्तयती॑त्यतस्तदनुवृत्तेरिति भावः । दो दद्धोः ‘द’ इति षष्ठन्तम् । तदाह — दा इत्स्येति । ‘दथ्’ इति च्छेदः । तदाह — दथ् स्यादिति । तवर्गद्वितीयान्तोऽयमादेशः । तादौ कितीति ।ति किती॑त्यनुवृत्तेरिति भावः । चर्त्वमि#इत ।खरि चे॑ति थकारस्य तकार इत्यर्थः । दात इति । दाप्दैपो रूपम् ।अदा॑वित्युक्तेर्घुत्वाऽभावान्न दद्भावः । तान्तो वेति । तवर्गप्रथमान्त इत्यर्थः । नन्वेवं सति ‘विदत्त ‘ मित्यादौदस्ती॑त्युपसर्गस्य दीर्घत्वापत्तिः । तत्र हि ‘द’ इति षष्ठी सप्तम्यर्थे । इगन्तोपसर्गस्य दीर्घः स्यात्तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्क्य नराकरोति — न चैवमिति । आदेशस्य तवर्गप्रथमान्त्वे सतीत्यर्थः । तकारादाविति ।दस्ती॑त्यत्र द इति षष्ठी तीत्यत्रान्वेति । तथा च इगन्तोपसर्गस्य दीर्घः स्याद्दादेशतकारादावुत्तरपदे इत्यर्थः । उत्तरपदाधिकारात् । ततश्च उत्तरपदस्याऽत्र तकारादित्वाऽभावान्न दीर्घ इति भावः । दान्तो वा धान्तो वेति । तवर्गतृतीयान्तो वा, चतुर्थान्तो वा अयमादेश इत्यर्थः । न चेति । दान्तत्वे निष्ठानत्वं, धान्तत्वेझषस्तथो॑रिति धत्वं च न शङ्क्यमित्यन्वयः । संनिपातेति । दान्तादेशस्य, धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वाऽसंभवादिति भावः ।

Tattvabodhini

दधातेर्हिः - दधातेर्हिः । श्तिपा निर्देशो धटो निवृत्त्यर्थः । तीत्यनुवृत्तेर्यङ्लुकिन । दाधितः । अत्रापि प्रसादकृता — श्तिपा निर्देशस्य यङ्लुङिवृत्त्यर्थत्वद्दाधीत इतिघुमास्थे॑तीत्वमुदाहृतं, तत्पूर्ववदेव हेयम् ।

Padamanjari

यद्यपि हिनोतेर्हित इत्यादि सिद्धम्, दधातेस्तु धीत इत्यादिनिवृतये सूत्रारम्भः । श्तिपा निर्देशो धेटो मा भूदिति ।’ध’ इत्युच्यमाने धेटोऽप्यनुकरणं सम्भाव्येत, यथा -‘दाधा घ्वदाप्’ इत्यत्र । यङ्लुकि त्विटि सति दाधित इति भवति ॥

Nyaas

धुमास्था` (6.4.66) इति सूत्रेणेत्त्वे प्राप्ते दधातेर्हिरादेशो विधीयते। श्तिपा निर्देशो यङ्लुग्निवृत्त्यर्थः। तेन यङ्लुगन्तस्य हिरादेशो न भवति - दाधीतः, दाधीतवान्, दाधीत्वेति॥

Prakriyasarvasvam

तादौ कितीत्येव । हितो भारः विहितः ॥