74055: आप्ज्ञप्यृधामीत्¶
Padacheda: आप्ज्ञप्यृधाम् | S | 6 | 3 |
ईत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
For the vowel of the roots 1. आप् 2. ज्ञपि and 3. ऋध् there is substituted long ई before सन् of the Desiderative when it begins with स्।
Vasu English Translation¶
For the vowel of the roots 1. आप् 2. ज्ञपि and 3. ऋध् there is substituted long ई before सन् of the Desiderative when it begins with स्। Thus आप्-ईप्सति, ज्ञपि-ज्ञीप्सति, ऋध्-ईर्त्सति (1.1.51). The reduplication is dropped by (7.4.58). In the Causative stem ज्ञपि there are two vowels, the इ (णि) is dropped by purva-vipratishedha (the prior debarring the subsequent) according to (6.4.51), and ई (substituted for अ according to the present sutra. The word सन् is to be read into the sutra, otherwise प्रापस्यति ॥ The सन् must begin with स् i.e should not take the इट् augment, as in जिज्ञपयिषति, अर्हिधिषति ॥ The roots ज्ञपि and ऋध् are optionally सेट् in the Desiderative by (7.2.49).
Bhashya¶
आप्ज्ञप्यृधामीत् ॥ ज्ञपेरीत्त्वमनन्त्यस्य ॥ ज्ञपेरीत्त्वमनन्त्यस्येति वक्तव्यम् । ज्ञीप्सति ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । लोपोऽन्त्यस्य बाधको भविष्यति ॥ अनवकाशा हि(1) विधयो बाधका भवन्ति सावकाशश्च णिलोपः ॥ कोऽवकाशः ? ॥ कारणा हारणा ॥ एवमपीत्त्वमन्त्यस्य लोपस्य बाधकं स्यात् । अनवकाशा हि विधयो बाधका भवन्ति ॥ ईत्वमपि सावकाशम् ॥ कोऽवकाशः ? ॥ अनन्त्यः ॥ कथं पुनः सत्यन्त्येऽनन्त्यस्येत्त्वं स्यात् ? ॥ भवेद्योऽचाऽङ्गं विशेषयेत्तस्याऽनन्त्यस्य न स्याद्वयं तु खल्वङ्गेनाऽचं विशेषयिष्यामः - अङ्गस्याऽचो यत्र तत्रास्थस्येति ॥ एवमप्युभयोः सावकाशयोः परत्वादीत्त्वं प्राप्नोति तस्मादनन्त्यस्येति वक्तव्यम् ॥ ( आप्ज्ञप्यृधामीत् ) ।
Kashika¶
आप् ज्ञपि ऋध इत्येतेषामङ्गानामच ईकारादेशो भवति सनि सकारादौ परतः। आपीप्सति। ज्ञपि ज्ञीप्सति। ऋद्ः ईर्त्सति। ज्ञपेः द्वावचौ, तत्र णेः पूर्वविप्रतिषेधेन लोपः, इतरस्य तु ईत्वम्। सनि इत्येव, प्राप्स्यति। सि इत्येव, जिज्ञपयिषति। अर्दिधिषति। सनीवन्तर्ध इति ज्ञपेः ऋधेश्च इटो विकओपः।
Siddhanta Kaumudi¶
एषामच ईत्स्यात्सादौ सनि ॥
Balamanorama¶
आप्ज्ञप्यृधामीत् - आप्ज्ञप्यृधामीत् । सादौ सनीति ।सनि मीमाघुरभे॑त्यतः सनीति, अचेति चानुवर्तते ।सः स्यार्धधातुके॑ इत्तः सीत्यनुवृत्तं सनो विशेषणम् । तदादिविधिरिति भावः ।
Tattvabodhini¶
आप्ज्ञप्यृधामीत् - आप्ज्ञ ।सनि मीमे॑ त्यतः — अच इत्यनुवर्तते,सः स्याद्र्धधातुके॑ इत्यतः सीति च । तदाह — अव ईत्स्यादाविति ।सी॑त्यस्य सनो विशेषमात्सादाविति लाभः ।
Padamanjari¶
ठाप्लृ व्याप्तौऽ,’ज्ञा अवबोधने’ , णिचि पुक,’मारणतोषणनिशामनेषु ज्ञा’ ‘मिच्च’ इति मित्संज्ञायाम्’मितां ह्रस्वः’ । ठृधु वृद्धौऽ । ईर्त्सतीति । रपर ईकारः, धकारस्य चर्त्वम् । ज्ञपेरित्यादि । इह ठचःऽ इत्यनुवर्तते, तेन च ज्ञपौ विशिष्यमाणे अजन्तस्य ज्ञपेरित्वं, विधीयमानम् ठलोऽन्त्यस्यऽ इत्यन्त्यस्य स्यात्, अजन्तस्येति च विशेषणं व्यर्थम्; व्यभिचाराभावात्; तेन ज्ञपिनाज्विशेष्यते - ज्ञपेरचो यत्र तत्रस्थस्येति, यथा - आबृधिभ्याम् । एवं चैकप्रकारो विशेषणविशेष्यभावो भवति, तत्रानन्त्येऽचि सावकाशमीत्वमन्त्येऽचि पूर्वविप्रतिषेधेन णिलोपो बाधते, तदिदमुक्तम् - णेर्लोप इति । इतरस्य त्विति । अपर आह - अस्तु णेरपीत्वम्, तस्य स्थानिवद्भावाण्णिलोपो भविष्यति, ईत्ववचनं त्वनन्त्ये श्रवणार्थमिति । अर्दिधिषतीति । सनि इटि लघूपधगुणे रपरे कृते’न न्द्राः’ इति प्रतिषेधाद् रेफवर्जितद्वितीयस्यैकाचो द्विर्वचनम् ॥
Nyaas¶
ईप्सति इति। आप्लृ व्याप्तौ (धातुपाठः-1260)। ज्ञीप्सति इति। ज्ञा अवबोधने (धातुपाठः-1507), णिच्, अर्त्ति (7.3.36) इत्यादिना पुक्, मारणतोपणनिशामनेषु ज्ञा (धातुपाठः-811) मिच्च इति मित्संज्ञायां ह्रस्वः, णेरनिटि (6.4.51) इति णिलोपः। ईत्र्सति इति। ऋधु वृद्धौ (धा।1271), ईकारः, रपरत्वं च, श्रकारस्य खरि च (8.4.54) इति चर्त्वम् - तकारः। इह च ज्ञापिनाङ्गेनाज्विशेषयितव्यः, न त्वचा ज्ञापिः, व्यभिचाराभावात्। न हि ज्ञपरजन्ततां व्यभिचरति। अचि तु ज्ञपिनाङ्गेन विशिष्यमाणे सर्वस्य ज्ञपिसम्बन्धिनोऽच ईत्त्वेन भवितव्यम्, तथा च णेरपीत्त्वे कृते ज्ञीप्सतीति न सिध्येदित्येतच्चोद्यमाशङ्क्याह - ज्ञपेद्र्वावचौ इत्यादि। तत्रेत्त्वास्यावकाशोऽजाद्यः, णिलोपस्यावकाशः - कारणा, हारणा; द्वितीयस्याच उभयप्रसङ्गे णिलोप एव भवति पूर्वविप्रतिषेधेन - ज्ञीप्सतीति। इतरस्य इति। अकारस्य। अर्दिधिषति इति। लघूपधगुणः, रपरत्वम्, अजादेर्द्वितीयस्य (6.1.2) इति धि इत्येतद्द्विरुच्यते। रेफस्य तु द्विर्वचनं न भवति; न न्द्राः संयोगादयः (6.1.3) इति प्रतिषेधात्। अभ्यासस्य जश्त्वम् - जकारः। तकारो मुखसुखार्थः॥
Prakriyasarvasvam¶
सादौ सनि पर आपेर्ज्ञपेर्ऋधेश्चाच ईत् स्यात् ।
Sutra Prayogas¶
परीप्सुः (किरातार्जुनीयम्): आप्ज्ञप्वृधामीत् इतीकारः।
यथेप्सितं (भट्टिकाव्यम्): आप्- ज्ञप्यृधामीत् इतीत्वम् अभ्यासलोपश्च।
ईर्त्सुं (भट्टिकाव्यम्): आप्ज्ञप्यृधा- मीत् इति ऋधेरिडभावपक्षे।