74040: द्यतिस्यतिमास्थामित्ति किति¶
Padacheda: द्यतिस्यतिमास्थाम् | S | 6 | 3 |
इत् | S | 1 | 1 |
ति | S | 7 | 1 |
किति | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Short इ is substituted for the final of 1. दो 2. सो 3. मा and 4. स्था before an affix beginning with त् and having an indicatory क् ।
Vasu English Translation¶
Short इ is substituted for the final of 1. दो 2. सो 3. मा and 4. स्था before an affix beginning with त् and having an indicatory क् । As निर्दितः and निर्दितवान्; अवसितः and अवसितवान्, मितः and मितवान्; स्थितः and स्थितवान्, all with क्त and क्तवतु ॥ Why before त्? Observe अवदाय ॥ Why before a कित् affix? Observe अवदाता with तृच् ॥
Kashika¶
द्यति स्यति मा स्था इत्येतेषामङ्गानाम् इकारादेशो भवति तकारादौ किति प्रत्यये परतः। द्यति तिर्दितः। निर्दितवान्। स्यति अवसितः। अवसितवान्। मा मितः। मितवान्। स्था स्थितः। स्थितवान्। तीति किम्? अवदाय। कितीति किम्? अवदाता।
Siddhanta Kaumudi¶
एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥
Balamanorama¶
द्यतिस्यतिमास्थामित्ति किति - द्यतिस्यति । एषां चतुर्णां द्वन्द्वात्षष्ठी । ‘दो अवखण्डने’ इत्यस्य द्यतीति निर्देशः ।षो अन्तकर्मणी॑त्यस्य तु स्यतीति निर्देशः । इत्-ति- कितीति च्छेदः । ईत्त्वेति ।घुमास्थे॑ति ईत्त्वस्य,दो दद्धो॑रिति दद्भावस्य च यथासंभवमपवाद इत्यर्थः । दोधातोरुदाहरति — दित इति । मा माङ् मेङिति ।गामादाग्रहणेष्वविशेषः॑ इति वचनादिति भावः ।
Tattvabodhini¶
द्यतिस्यतिमास्थामित्ति किति - द्यतिस्यति । दोऽवखण्डने, षोऽन्तकर्मणि, मा माने, माङ् माने ,मेङ् प्रणिदाने, ष्ठा गतिवृत्तौ । श्तिपा निर्देशो धातुविशेषणार्थः । न हि श्तिपं विना श्यन् सुलभः । यत्तु प्रसादकृतोक्तं — श्तिपा निर्देशो यङ्लुङ्निवृत्त्यर्थः, दादत्तः [सासात॑] इति । तन्न । यङ्लुकि हि इटा भाव्यं — दादितः सासित इति । तत्रति कितीति वचनान्नाऽस्ति प्रसङ्गः । किं चदो दद्धो॑रिति विधीयमान आदेशोऽनेकाल्त्वात्सर्वस्येति निर्विवादम् । तथा च हन्तेर्यङ्लुगन्तस्य वधादेशवत्साभ्यासस्य प्रवर्तेतेति दादत्त इति त्वदुदाहृतरूपं कथमुक्तिसम्भवं लभेतेत्याहुः ।
Nyaas¶
छन्दसि, यजुषि, ऋचीति सर्व निवृत्तम्; तेन सामान्येनायं विधिः। दो अवखण्डने (धातुपाठः-1148), षो अन्तकर्मणि (धातुपाठः-1147)। मा माने (धातुपाठः-1062), माङ माने (धातुपाठः-1142), मेङप्रणिदाने (धातुपाठः-961) - गामादाग्रहणेष्वविशेषः (व्या।प।124) इति त्रयाणामपि ग्रहणम्। ष्ठा गतिनिवृत्तौ (धातुपाठः-928)। तत्राद्यस्य दो दद्घोः (7.4.46) इति दत्त्वे प्राप्ते शेषाणां घुमास्था (6.4.66) इत्यादिसूत्रेण ईत्त्वे प्राप्त इत्त्वं विधीयते॥ अवदाय इति। पूर्ववत्? क्त्वो ल्यप्। अवदाता इति। तृच्। द्यतिस्यतति श्तिपा निर्देशोऽयं यङलुग्निवृत्त्यर्थः। तेन तयोर्यथाप्राप्तमेव भवति - दादत्तः, दादत्तवान्, सासीतः, सासीतवान्। तपरकरणं मुखसुखार्थम्, न तु दीर्घनिवृत्त्यर्थम्। भाव्यमानोऽण्? सवर्णान्न गृह्णाति (व्या।प।35) इति दीर्घस्याप्राप्तेः॥
Prakriyasarvasvam¶
एषां तादौ किति परे इत् स्यात् । दितः खण्डितः । अवसितः । प्रमितः । स्थितः ॥
Sutra Prayogas¶
संदिता (किरातार्जुनीयम्): द्यतिस्यतिमास्थाम्- इतीकारः।
अवसितं (भट्टिकाव्यम्): द्यति स्यति इतीत्वम् ।