Sutras 41 - 60¶
- 72041: इट् सनि वा
- 72042: लिङ्सिचोरात्मनेपदेषु
- 72043: ऋतश्च संयोगादेः
- 72044: स्वरतिसूतिसूयतिधूञूदितो वा
- 72045: रधादिभ्यश्च
- 72046: निरः कुषः
- 72047: इण्निष्ठायाम्
- 72048: तीषसहलुभरुषरिषः
- 72049: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्
- 72050: क्लिशः क्त्वानिष्ठयोः
- 72051: पूङश्च
- 72052: वसतिक्षुधोरिट्
- 72053: अञ्चेः पूजायाम्
- 72054: लुभो विमोहने
- 72055: जॄव्रश्च्योः क्त्वि
- 72056: उदितो वा
- 72057: सेऽसिचि कृतचृतच्छृदतृदनृतः
- 72058: गमेरिट् परस्मैपदेषु
- 72059: न वृद्भ्यश्चतुर्भ्यः
- 72060: तासि च कॢपः