72055: जॄव्रश्च्योः क्त्वि¶
Padacheda: जॄव्रश्च्योः | S | 6 | 2 |
क्त्वि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix क्त्वा gets the इट् augment after जॄ and जॄव्रश्च्।
Vasu English Translation¶
The affix क्त्वा gets the इट् augment after जॄ and जॄव्रश्च्। As जरित्वा or जरीत्वा, (7.2.38) and व्रश्चित्वा ॥ जॄ was prohibited by (7.2.11). and व्रश्च would have been optionally सेट्, as it has an indicatory long ऊ, by (7.2.44). Hence this rule. The special mention of ktva, stops the anuvritti of kta and ktavatu.
Kashika¶
जृ व्रश्चि इत्येतयोः क्त्वाप्रत्यय इडागमो भवति। जरित्वा, जरीत्वा। व्रश्चित्वा। जृ इत्येतस्य श्र्युकः किति (७.२.११) इति प्रतिषेधः प्राप्तः, व्रश्चेरूदित्त्वाद् विकल्पः। क्त्वाग्रहणं निष्ठानिवृत्त्यर्थम्॥
Siddhanta Kaumudi¶
आभ्यां परस्य क्त्वा इट् स्यात् । जरीत्वा । जरित्वा । व्रश्चित्वा ॥
Tattvabodhini¶
जॄव्रश्च्योः क्त्वि - जृव्रश्च्योः । जृ इत्यस्मात्श्र्युकः किती॑ति ति निषेधे प्राप्ते व्रश्चेरूदित्वाद्विकल्पे प्राप्ते वचनमिदम् । जरीत्वेति ।वृतो वा॑इति इटो वा दीर्घः । व्रश्चित्वेति । इहन क्त्वा से॑डिति कित्त्वनिषेधात्ग्रहिज्ये॑ति संप्रसारणं न ।
Nyaas¶
जरीत्वा, जरित्वा इति। जृ? वयोहानौ (धातुपाठः-1494) क्रैयादिकः। वृतो वा (7.2.38) इति पक्षे दीर्घः। यस्तु जृष वयोहानौ (धातुपाठः-1130) इति विवादौ पठते, तस्य सानुबन्धकत्वादिह ग्रहणं नास्तीति तस्य जौर्त्वेत्येवं भवति। व्रश्चित्वा इति। ओ व्रश्चू छेदने (धातुपाठः-1292)। न क्त्वा सेट् (1.2.18) इति प्रतिषेधाद्? ग्रहिज्येत्यादिसूत्रेण (6.1.16) सम्प्रसारणं न भवति; किति तसय विधानात्। अथ क्त्वाग्रहणं किमर्थम्, यावता क्लिशः क्त्वानिष्ठयोः (7.2.50) इत्यत एव कत्वाग्रहणमनुवर्तत एव? इत्याह - क्त्वाग्रहणम् इत्यादि। तद्धि क्त्वाग्रहणं निष्ठआ सह सम्बद्धम्, अतस्तदनुवृत्तौ तस्या अध्यनुवृत्तिः स्यात्। एवं च सति निष्ठायामपि स्यात्। तस्मात्? निष्ठानिवृत्त्यर्थमन्यदिह क्त्वाग्रहणं क्रियते॥
Prakriyasarvasvam¶
अनयोः क्त्वायां नित्यमिट् स्यात् । इटश्चकित्त्वाद् गुणः । प्रसारणाभावश्च ॥