72058: गमेरिट् परस्मैपदेषु

Padacheda: गमेः | S | 5 | 1 |

इट् | S | 1 | 1 |

परस्मैपदेषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

An आर्धधातुक affix beginning with स् gets the इट् augment after गम् ‘to go’ in the परस्मैपद ।

Vasu English Translation

An आर्धधातुक affix beginning with स् gets the इट् augment after गम् ‘to go’ in the परस्मैपद । As गमिष्यति, अगमिष्यत्, जिगमिषति ॥ Why of गम् ? Observe चेष्यति ॥ The repetition of इट् shows that the rule is invariable. Why ‘in the Parasmaipada’? Observe संगंसीष्ट, संगसीष्ट, संगंस्यते, संजिगंसते, संजिगंसिष्यते, अधिजिगांसते, अधिजिगांसिष्यते ॥ The lengthening takes place by (6.4.16) when गम् is the substitute of the root इङ् (2.4.48) Why before स् ? Observe गन्तास्मि, गन्तास्वः, गन्तास्मः ॥

Ishti: This इट् augment is not desired of the root गम् standing in the same pada with an atmanepada affix. But it occurs every where else. As जिगमिषिता इव आचरति = जिगामिंषित्रीयते, here there is इट् augment, because atmanepada affix is not in the same pada with गम्, but is bahiranga. Compare (7.2.36) vartika. It occurs before krit affixes, and even where is luk-elsion of Parasmaipada affix, and where therefore the affix generally would have left no trace behind by (1.1.63). As संजिगमिषिता and अधिजिगमिषिता व्याकरणस्य ॥ So also जिगमिष त्वम्, here there is luk-elision of the Imperative affix हि ॥ The opinion of the author of Padaseshakara is that the employment of the term Parasmaipada in the sutra is illustrative. He explains it by saying:- परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्य इट् भवति ॥ According to him we have the forms संजिगंसिता and अधिजिगंसिता व्याकरणस्य ॥

Bhashya

गमेरिट् परस्मैपदेषु ॥ गमेरिट्परस्मैपदेषु चेत्कृत्युपसड्ख्यानम्(3) ॥ गमेरिट् परस्मैपदेषु(4) चेत्कृत्युपसङ्ख्यानं कर्तव्यम् । जिगमिषिता जिगमिषितुम् जिगमिषितव्यम् ॥ तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ॥ न कर्तव्यम् । अविशेषेण गमेरिडागममुक्त्वा आत्मनेपदपरे नेति वक्ष्यामि ॥ आत्मनेपदपरप्रतिषेधे उक्तम् ॥ किमुक्तम् ? ॥ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेध इति । इहापि - ॥ आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषुप्रतिषेधोवक्तव्यः ॥ तत्परपरे तावत् - संजिगंसिष्यते । सीयुटि - संगंसीष्ट । एकादेशे - संगंस्यन्ते । एकादेशे कृते व्यपवर्गाऽभावान्न(1) प्राप्नोति ॥ सिद्धं तु गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ गमेरात्मनेपदेन समानपरस्थस्य (ःइट्प्रतिषेधात् । गमेरात्मनेपदेन समानपदस्थस्य(2)) इण्न भवतीति वक्तव्यम् ॥ (गमेरिट्परस्मैपदेषु) ॥

Kashika

गमेर्धातोः सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो भवति। गमिष्यति। अगमिष्यत्। जिगमिषति। गमेरिति किम्? चेष्यति। इड्ग्रहणं नित्यार्थम्। परस्मैपदेष्विति किम्? संगंसीष्ट। संगंस्यते। संजिगंसते। संजिगंसिष्यते। अधिजिगांसते। अधिजिगांसिष्यते। गमेरिङादेशस्य अज्झनगमां सनि (६.४.१६) इति दीर्घत्वम्। स इत्येव — गन्तास्मि, गन्तास्वः, गन्तास्मः आत्मनेपदेन समानपदस्थस्य गमेरयमिडागमो नेष्यते। अन्यत्र सर्वत्रैवेष्यते। कृत्यपि हि भवति, परस्मैपदलुकि च — संजिगमिषिता, अधिजिगमिषिता व्याकरणस्य, जिगमिष त्वमिति। पदशेषकारस्य पुनरिदं दर्शनम् गम्युपलक्षणार्थं परस्मैपदग्रहणम्, परस्मैपदेषु यो गमिरुपलक्षितस्तस्मात् सकारादेरार्धधातुकस्येड् भवति। तन्मतेन संजिगंसिता, अधिजिगांसिता व्याकरणस्य इत्येव भवितव्यम्॥

Siddhanta Kaumudi

गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥

Laghu Siddhanta Kaumudi

गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥

Balamanorama

गमेरिट् परस्मैपदेषु - गमेरिट् ।गमे॑रिति पञ्चमी ।सेऽसिची॑त्यतः से इत्यनुवृत्तेन आर्धधातुकस्येत्यनुवृत्तं विशेष्यते । तदादिविधिः । तदाह — गमेः परस्येत्यादिना ।परस्मैपदेष्वि॑त्यस्य आत्मनेपदाऽभावे इत्यर्थः । एवं चसंजिगमिषिते॑ति तृचि इट् सिध्यति । गमिष्यतीति । गच्छतु अगच्छत् । गच्छेत् । गम्यात् । लुङि विशेषमाह — लृदित्त्वादङिति ।गमहने॑ति उपधालोपो नेत्याह — अनङीति पर्युदासादिति । अगमदिति । लृङि — अगमिष्यत् । सर्पतीति । शपि ऋकारस्य लघूपधगुणः । रपरत्वम् । ससर्पेति । ससृपतुः । ससृपुः । थलि क्रादिनियमान्नित्यमिट् । अजन्तत्वाऽभावादकारवत्त्वाऽभावावच्च नेड्विकल्पः । ससर्पिथ ससृपथुः । ससृप.ससर्प ससृपिव ससृपिम । लुटि तासि लघूपधगुणे रपरे प्राप्ते — अनुदात्तस्य च ।सृजिदृशो॑रित्यतो झल्यमकितीति, ‘आदेच’ इत्यत उपदेशे इति चानुवर्तते । तदाह — उपदेशेऽनुदात्त इत्यादिना । मित्त्वादन्त्यादचः परः । उपदेशे किम् । क्तप्रत्यये — सृप्तः । रुआप्तेति । सृप्धातोर्लुटि तासि अमागमे ऋकारस्य यणिति भावः । सर्प्तेति । अमभावेलघूपधगुणे रपरत्वमिति भावः । एवं रुआप्स्यति सर्प्स्यतीति । सर्पतु । असर्पत् । सर्पेत् । सृप्यात् । असृपदिति । लृदित्त्वाच्च्लेरङि सति ङित्त्वान्न ग#उण इति भावः । अरुआप्स्यत् । असर्प्स्यत् । यम उपरमे इति । उपरमो विरमणम् । अनिडयम् । यच्छतीति ।इषुगमियमा॑मिति शपि छः । ययाम येमतुः येमुः । थलि भारद्वाजनियमादिट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । तदाह- येमिथ । ययन्थेति । इडभावे रूपम् । येमथुः येम । ययाम । ययम । येमिव । येमिम । क्रादिनियमादिट् । यन्तेति । यंस्यति । यच्छतु । अयच्छत् । यच्छेत् । यम्यात् । अयंसीदिति ।यमरमे॑ति इट्सकौ ।इट ईटी॑ति सिज्लोपः ।नेटी॑ति निषेधान्न हलन्तलक्षणा वृद्धिरिति भावः । अयंस्यत् । तप संतापे इति । अनिडयम् । तपति । तताप तेपतुः तेपुः । तेपिथ ततप्थ तेपथुः तेप । तताप ततप तेपिव तेपिम । तप्तेति । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अतप्स्यत् । निसस्तपतौ । शेषपूरणेन सूत्रं व्याचष्टे — षः स्यादिति ।अपदान्तस्य मूर्धन्य॑ इत्यधिकारादिति भावः । निसः सकारस्य षः स्यात्तपधातौ परत इति यावत् । ‘अनासेवने’ इत्येतद्व्याख्यास्यन्नासेवनशब्दं व्याचष्टे - पौनः पुन्यमिति ।आसेवन॑शब्देन सह नञ्समास इत्यभिप्रेत्याह — ततोऽन्यस्मिन्विषये इति । आदेशत्वाऽभावात्पदान्तत्वाच्च अप्राप्ते वचनम् । निष्टपतीति । निष्कृष्य तपतीत्यर्थः । निसः सस्य षत्वे तकास्य ष्टुत्वेन टः । आसेवने तु न षत्वम् । त्यज हानाविति । हानिरुत्सर्गः । अयमनिट् । त्यजति । तत्याज तत्यजतुः तत्यजुः । संयुक्तहल्मध्यस्थतवादेत्त्वाऽभ्यासलोपौ न । थलि तु भारद्वाजनियमाद्वेट् । तदाह — तत्यजिथ तत्यक्थेति । इडभावेचोः कु॑रिति भावः । त्युक्तेति । त्यक्ष्यति । त्यजतु । अत्यजत् । त्यजेत् । त्यज्यात् । अत्याक्षीदिति । हलन्तलक्षणा वृद्धिरिति भावः । अत्यक्ष्यत् । षञ्ज सङ्गे इति । षोपदेशोऽयमनिट्, नोपधश्च । कृतानुस्वारपरसवर्णस्य निर्देशः । शपः पित्त्वेन कित्त्वाऽभावात्तस्मिन्परेअनिदिता॑मिति नलोपाऽप्रवृत्तेरराह — दंशसञ्जेति नलोप इति । अनुस्वारपरसवर्णयोरसिद्धत्वादिति भावः । सजतीति । लिटि तु ससञ्ज । अतुसादौ तु अकित्त्वान्न नलोपः । ससञ्जतुः ससञ्जुः । थलि भारद्वाजनियमाद्वेट् । ससञ्जिथ — ससङ्क्थ । इडभावे जस्य कुत्वेन गकारे तस्य चर्त्वे सति अनुस्वारपरसवर्णसंपन्नस्य चवर्गपञ्चमस्य निवृत्तौ ककारे परेऽनुस्वारस्य परसवर्णौ ङकारः । ससञ्जथुः ससञ्ज । ससञ्ज । ससञ्जिव ससञ्जिम.क्रादिनियमादिट् । सङ्क्तेति । तासि जस्य कुत्वेन गकारे तस्य चर्त्वे सति ञस्य निवृत्तौ नस्य ङकार इति भावः । सङक्ष्यति । सजत् । असजत् । सजेत् । सज्यात् । असाङक्षीत् । हलन्तत्वाद्वृद्धिः । असङ्क्ष्यत् । दृशिर्प्रेक्षणे इति । इरित् । अनिट् च । पश्यतीति । शितिप्राघ्राध्मे॑ति पश्यादेश इति भावः । ददर्श ददृशतुः ददृशुः । थलि तु क्रादिनियमान्नित्यमिट् प्राप्तः । अजन्ताऽकारवत्त्वाऽभावात्अचस्तास्वदिति, ‘उपदेशेऽत्त्वतः’ इति निषेधस्य चाऽप्राप्तेः । ऋदन्तत्वाऽभावेन भारद्वाजनियमाऽप्रसक्तेः ।

Padamanjari

एसंगंस्यत इति । समो गम्यृच्छि इत्यात्मनेपदम् । गमेरिङदेशस्येति । तेन सञ्जिगंसते इत्यत्र न भवतीति भावः । आत्मनेपदेन समानपदस्थस्येति । इह तु जिगमिषितेवाचरति जिगमिषित्रीयत इति बहिरङ्गत्वादात्मनेपदस्य प्रतिषेधाभावः । एतच्च प्रस्नवित्रीयत् , इत्यत्र वार्तिककारमेत व्याख्यात्म् । अन्यत्र सर्वत्रैवेष्यत इति । कथं पुनरिष्यमाणोऽपि लभ्यते योगविभागात् । गमः सकारादाविड् भवतीत्येको योगः, ततः परस्मैपदेषु इति द्वितीयो नियमार्थः । लुल्यजातीयचापेक्षत्वान्नियमस्यात्मनेपदविषय इण्निवर्तत इति केचिदाहुः । अन्ये मन्यन्ते - परस्मैपदेष्विति सप्तमीनिर्देशादानन्तर्याश्रयणादयमर्थो भवति - गमेरुतरस्य सकारादेरार्धधातुकस्य तिङ्क्ष्बनन्तरेषु यदिड्भवति परस्मैपदेष्वेवेति, ततश्च सङ्गंस्यते इत्यत्रैव व्यावृत्तिः एस्यात्, न सङ्गंसीष्टेत्यत्र । नापि संजिगांत त्यादिउ, शपा व्यावधानात् । एकादेशे नास्ति व्यावधानम् एकादेशः पूर्वविधौ स्थानिवद्भवति तैति स्थानिवद्भावाव्द्यवधानमेव । संजिगंसिष्ययत इत्यादौ च नैव स्यात्, तस्मादिष्टिरेवेयम् । अत तेव इष्यत इत्युक्तम् । पदशेषो नाम ग्रन्थविशेषः । तन्तेनेत्यादि । अनन्तरोक्तस्य दूषणम् न पुनरयं पक्षः स्यापितः, वार्तिकविरोधात् । यदाह - सिद्धं गमेरात्मनेपदेन समानपदस्थस्येट्प्रतिषेधात् इति ॥

Nyaas

गम्लृ गतौ (धातुपाठः-982)। गमिरयमनुदात्तत्वादनिट्। योऽपि सनि च (2.4.47) इति इण्? गतौ (धातुपाठः-1045) इत्यस्य गमिरादेशः, यश्च इण्वदिक इति उक्तव्यम् (वा।167) इति इक्? स्मरणे (धातुपाठः-1047) इत्येतस्य, यश्च इङश्च (2.4.48) इति इङ्? अध्ययने (धातुपाठः-1046) इत्येतस्य सोऽपि स्थानिवद्भावादनिडेव स्यात्। तेभ्यः परस्य सकारादेरार्धधातुकस्य सिज्वर्जितस्येडागमो यथा स्यादित्येवमर्थं वचनम्। गमिष्यति, अगमिष्यत् इति। अनादेशस्य गमेरुदाहरणम्। जिगमिषति इति। एतत्? तस्येणादेशस्य, इगादेशस्य वा।अथेडिते वर्तमाने पुनरिङ्ग्रहणं किमर्थम्? इत्याह - इङ्ग्रहणं नित्यार्थम् इति। तद्धि [तद्धि पूर्वकमिङ्ग्रहण्। `उदितो वा इति वाग्रहणेन प्रकृतमिङ्ग्रहणं सम्बद्धम्, अतस्तदनुवृत्तौ` इत्यादिः मुद्रितः पाठः] पूर्वकमिङ्ग्रहणं उदितो वा (7.2.56) इति वाग्रहणेन सम्बद्धम्, अतस्तदनुवृत्तौ तस्याप्यनुवृत्तिः स्यात्, तथा च विकल्पेनेट्? प्रसज्येत। तस्मात् तन्निवृत्त्यर्थं पुनरिङ्ग्रहणं क्रियेत। संगंसीष्ट इति। सम्पूर्वाद्गमेराशिषि लिङ् सीयुट्, समो गम्पृच्छि (1.3.29) इत्यादिनाऽऽत्मनेपदम्, सुट् तिथोः (3.4.107) इति सुट्, धत्वम्, ष्टुत्वम्। सञ्जिर्गसते इति। पूर्ववत्सनः (1.3.62) इत्यात्मनेषदम्। अधिजिगांसते इति। गमेरिङादेशस्य प्रत्युदाहरणम्। अथ सञ्चिगंसत इत्यत्र अज्झनगमां सनि (6.4.16) इति दीर्घत्वं कस्मान्न भवति? इत्याह - गमेरिङादेशस्य इत्यादि। तद्धि दीर्घत्वमिङादेशस्य गमेरिष्यते, नान्यस्य। तथा हि तत्रोक्तम् - गमेरिङादेशस्येति वक्तव्यमिति। यदि परस्मैपदेष्वित्युच्यते, तदा कृति परस्मैपदलुकि च न प्राप्नोति? इत्याह - आत्मनेपदेन इत्यादि। समानपदस्थस्य इति। एकपदस्थस्येत्यर्थः। अन्यत्र सर्वत्रैवेष्यते इति। एतच्च कृत्यपि हि इत्यादिना विसपष्टीकरोति। सञ्जिगमिषिता, अधिजिगमिषिता इति। कृत्युदाहरणे द्वे। जिगमिव त्वमिति इति। एतत्? परस्मैपदलुकि। सन्नन्तत्वाद्गमेर्लोट्, सिप्, सेह्र्रपिच्च (3.4.87) इति सेहिंरादेशर#ः, अतो हेः (6.4.105) इति लुक्। कथं पुनः परस्मैपदेष्वित्युच्यमाने कृति परस्मैपदलुकि च लभ्यते? एवं मन्यते - योगविभागः कर्तव्यः; गमेरिट इत्येको भागः, तत्र से इत्यनुवर्तते - सकारादावार्थधातुके गमेरिडागमो भवति। ततः परस्मैपदेषु इति द्वितीयो योगो नियमार्थः। स चायं नियमो यद्यविशेषेण स्यात्? तदा पूर्वयोगोऽनर्थकः स्यात्। तस्मात्? तुल्यजातीयापेक्षया नियमः, तुल्यजातीयश्च तिङ् - सिङ्विषये यदि भयति तदा परस्मैपदेष्वेव, नात्मनेपदेष्विति। ते कृति परस्मैपदलुकि च पूर्वयोगे न भवत्येव; नियमेनाव्यावर्त्तितत्वदिति। पदशेषकारस्य पनः इत्यादि। पदशेषकारः पुनरेवं मन्यते - परस्मैपदेष्विति नेयं परसप्तमी, किं तर्हि? विषयसप्तमी, परस्मैपदविषये यो गमिरुपलक्षितः=उपलब्धस्तस्य सकारादावार्धधातुक इड्? भवतीति। एवं च सति योगविभागमन्तरेणापि तन्मतेन परस्मैपदेषु यो गमिरुपलक्षितः, तस्मादसत्यपि परस्मैपदे सर्वत्र कृति परस्मैपदलुकि चेड्? भवत्येव; परस्मैपदपरत्वेन सकारादेरार्धधातुकस्याविशेतत्वात्। तन्मतेन सञ्चिर्गसिता, अधिजिर्गसिता व्याकरणस्येति भवितव्यमिति; सम्पूर्वस्य, अधिपूर्वस्य च गमेः परस्मैपदेष्वनुपलक्षितत्वात्। तथा हि - सम्पूर्वाद्गमेः समो गम्युच्छि (1.3.29) इत्यादिनाऽऽत्मनेपदं विहितम्। अधिपूर्वादपि स्थानिवद्भावात्? अनुदात्तङितः (1.3.12) इत्यनेनात्मनेपदमिति॥

Prakriyasarvasvam

गमेः सादेरार्धधातुकस्य परस्मैपदेष्विट् स्यात् । गमिष्यति । अगमिष्यत् । कर्मणि गंस्यते । अगंस्यत । ‘समो गमि—’ इत्यादि तङ्यपि संगच्छते इत्यादि । लुङि ‘वा गमः’ इति वा कित्त्वम् । ‘ह्रस्वादङ्गात्’ । समगत, समगंस्त । समगसाताम्, समगंसाताम् । इत्यादि सर्वं कर्मोक्तवत् । पतॢ गतौ । पतति । लुङि लृदित्वादङ् ।