72044: स्वरतिसूतिसूयतिधूञूदितो वा

Padacheda: स्वरतिसूतिसूयतिधूञूदितः | S | 5 | 1 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

A वलादि आर्धधातुक affix optionally takes इट् after स्वृ , after the two roots सू (सूति and सूयति) after धूञ् and after a root which has an indicatory long ऊ।

Vasu English Translation

A वलादि आर्धधातुक affix optionally takes इट् after स्वृ , after the two roots सू (सूति and सूयति) after धूञ् and after a root which has an indicatory long ऊ। As स्वरिता or स्वर्त्ता ॥ प्रसोता, प्रसदिता ॥ सूयति, सोता, सविता ॥ धूञ्, धोता, धविता ॥ ऊदिद्भ्यः खल्वपि । गाहू, विगाढा, विगाहिता; गुपू, गोप्ता, गोपिता । वेति वर्त्तमाने पुनर्वाग्रहणं लिङसिचोर्निवृत्त्यर्थम् । सूतिसूयत्योर्विकरणनिर्देशः षू प्रेरण इत्यस्य निवृत्त्यर्थः । धूञिति सानुबन्धकस्य निर्द्देशो धू विधूनम् इत्यस्य निवृत्त्यर्थः । सविता धवितेत्येव नित्यमेतयोर्भवति । स्वरतेतस्माद्विकल्पादृद्धनोः स्य इत्येतद्भवति विप्रतिषेधम् । स्वरिष्यति । किति तु प्रत्यये श्रुषकः कितीति नित्यः प्रतिषेधो भवति पूर्वप्रतिषेधेन ॥ स्वृत्वा, सूत्वा, धूत्वा ॥

Though the anuvritti of वा was current, the second employment of वा is to stop the anuvritti of the Benedictive and the S-Aorist. The roots सू of Adadi (21) and Divadi (24) are to be taken, as the special forms सूति and सूयति indicate, and not the सू of the Tudadi (115) class. They धू is exhibited with the anubandha ञ्, in order to exclude धू विधूनने of Tudadi (105). In the case of these latter the इट् augment is invariable, as सविता and धविता ॥ The root स्वृ takes invariably इट् in the Future, by virtue of the subsequent superseding rule (7.2.70), as स्वरिष्यति ॥ And before कित् affixes, the prior rule (7.2.11), invariably debars इट्, as स्वृत्वा, सूत्वा, धूत्वा ॥

Bhashya

स्वरतिसूतिसूयतिधूञ्ञूदितो वा अथ वेति वर्तमाने पुनर्वावचनं किमर्थम् ? ॥ पुवर्वावचनं लिङि्सचोर्निवृत्त्यर्थम् ॥ पुनर्वावचनं क्रियते ॥ (किमर्थम्(5) ?) ॥ लिङि्सचोर्निवृत्त्यर्थम् ? ॥ (लिङि्सचोर्निवृत्तिर्यथा स्यात्(5)) ॥ अथ किमर्थं सूतिसूयत्योः पृथग्ग्रहणं क्रियते ? ॥ सुवतेर्मा भूत् ॥ अथ किमर्थं धूञ्ञः सानुबन्धकस्य ग्रहणं क्रियते ? ॥ धुवतेर्मा भूदिति ॥ किं पुनरियं प्राप्ते विभाषा, आहो स्विदप्राप्ते ? ॥ कथं च प्राप्ते कथं चाऽप्राप्ते(1) ? ॥ यदि स्वरतिरुदात्तस्ततः प्राप्ते, अथाऽनुदात्तस्ततोऽप्राप्ते । ॥ स्वरतिरुदात्तः ॥ स्वरतिरुदात्तः पठ्यते ॥ किमर्थं तर्हि वावचनम् ? ॥ वावचनं निवृत्त्यर्थम् ॥ वावचनं क्रियते ॥ (किं प्रयोजनम् ?) ॥ निवृत्त्यर्थम् ॥ अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनर्विधानात् ॥ अनुदात्ते हि सति किति विभाषा प्रसज्येत । स्वृत्वा ॥ किं कारणम् ? ॥ प्रतिषिध्य पुनर्विधानात् । प्रतिषिध्य किलाऽयं पुनर्विधीयते । स यथैवैकाज्लक्षणं प्रतिषेधं बाधते एवं श्र्युकः कितीत्येतमपि बाधेत ॥ यदि तर्ह्युदात्तः स्वरतिः, पठिष्यति(1) विप्रतिषेधं - स्वरतेर्वेट्त्वादृतः स्ये विप्रतिषेधेनेति स(2) विप्रतिषेधो नोपपद्यते ॥ किं कारणम् ॥ ? स विधिरयं प्रतिषेधो, विधिप्रतिषेधयोश्चाऽयुक्तो विप्रतिषेधः ॥ सोऽपि विधिर्न मृदूनामिव कार्पासानां कृतः, प्रतिषेधविषय आरभ्यते, स यथैवैकाज्लक्षणं प्रतिषेधं बाधते एवमिममपि बाधिष्यते ॥ अथ वा येन नाप्राप्ते तस्य बाधनं भवति । न चाऽप्राप्तेवलादिक्षणे इयं विभाषा आरभ्यते, स्यलक्षणे पुनः प्राप्ते चाऽप्राप्ते च ॥ अथ वा-मध्येपवादाः पूर्वान्विधीन्बाधन्ते इत्येवमियं विभाषा वलादिलक्षणमिटं बाधिष्यते, स्यलक्षणं न बाधिष्यते ॥ अथ वा पुनरस्त्वनुदात्तः ॥ ननु चोक्तम्- अनुदात्ते हि किति वा प्रसङ्गः प्रतिषिध्य पुनर्विधानादिति ॥ नैषः दोषः । येन नाप्राप्ते तस्य बाधनं भवति, न चाऽप्राप्ते एकाज्लक्षणे प्रतिषेधे इयं विभाषा आरभ्यते । श्र्युकः कितीत्येतस्मिन्पुनः प्राप्ते चाऽप्राप्ते च ॥ अथ वा श्र्युकः कितीत्येष(1) योग उदात्तार्थश्च, येभ्यश्चाऽनुदात्तेभ्य इट्प्राप्यते तद्वाधनार्थश्च ॥ अथ वा(2) श्र्युकः कितीतीहाऽनुवर्तिष्यते ॥ अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति - नेयं विभाषा उग्लक्षणस्य(2) प्रतिषेधस्य विषये भवतीति - यदयं सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनामिति स्वृग्रहणं करोति ॥ (स्वरतिसूतिसूयति) ॥

Kashika

स्वरति सूति सूयति धूञ् इत्येतेभ्य ऊदिद्भ्यश्चोत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। स्वर्ता, स्वरिता। सूति। प्रसोता, प्रसविता। सूयति — सोता, सविता। धूञ् — धोता, धविता। ऊदिद्भ्यः खल्वपि — गाहू — विगाढा, विगाहिता। गुपू — गोप्ता, गोपिता। वेति वर्तमाने पुनर्वाग्रहणं लिङ्सिचोर्निवृत्त्यर्थम्। सूतिसूयत्योर्विकरणनिर्देशः षू प्रेरणे इत्यस्य निवृत्त्यर्थः। धूञिति सानुबन्धकस्य निर्देशो धू विधूनने इत्यस्य निवृत्त्यर्थः। सविता, धुवितेत्येव नित्यमेतयोर्भवति। स्वरतेरेतस्माद् विकल्पाद् ऋद्धनोः स्ये (७.२.७०) इत्येद् भवति विप्रतिषेधेन। स्वरिष्यति। किति तु प्रत्यये श्र्युकः किति (७.२.११) इति नित्यः प्रतिषेधो भवति पूर्वविप्रतिषेधेन। स्वृत्वा। सूत्वा। धूत्वा॥

Siddhanta Kaumudi

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥

Laghu Siddhanta Kaumudi

स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥

Balamanorama

स्वरतिसूतिसूयतिधूञूदितो वा - तत्र वलादावार्धधातुके नित्यमिटि प्राप्ते — स्वरति ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते । स्वरति सूति सूयति धूञ् ऊदित् — एषां समाहारद्वन्द्वात्पञ्चम्येकवचनं । फलितमाह — स्वरत्यादेरिति । स्वरतीति स्वृधातोः शपा निर्देशः । सूतीति सूयतीति च लुग्विकरणस्य श्यन्विकरणस्य च सूधातोर्निर्देशः । एवंच षू प्रेरण इति तौदादिकस्य न ग्रहणम् । ‘धूञ् कम्पने’ स्वादिः क्र्यादिश्च । ञकारानुबन्धनिर्देशात् धू विधूनन इत्यस्य न ग्रहणम् ।इट्सनि वे॑त्यतो वेत्यनुव्रतमाने वाग्रहणंलिङ्सिचोरात्मनेपदेष्वि॑ति सूत्रयोर्विकल्पनिवृत्त्यर्थमिति भाष्यम् । एवं च थलि इडाभावपक्षे द्वित्वादौ सिसेध् — थ इति स्थिते ।

Tattvabodhini

स्वरतिसूतिसूयतिधूञूदितो वा - स्वरतिसूति ।स्वृ शब्दोपतापयोःर॑ भ्वादिः । ननुस्वरतिसूधूञूदितो वे॑ति सूत्र्यतां,किमनेन सूतिसूयत्योः पृथग्ग्रहणेन । मैवम् । तथाहि सति निरनुबन्धकपरिभाषयाषू प्रेरणे॑ इति तौदादिकस्यैव ग्रहणं स्यान्नत्वादादिकदैवादिकयोरेतयोः । न चैवं षूङिति पठतामिति वाच्यं,लुग्विकरणाऽलुग्विकरणयो॑रिति परिभाषया अलुग्विकरणस्य सूयतेरेव ग्रहणप्रसङ्गात् । अस्याश्च परिभाषायाः सूतिसूयत्योः पृथग्ग्रहणेव ज्ञापकमित्याहुः ।धूञ् कम्पने॑स्वादिः क्र्यादिश्च । सानुबन्धनिर्देशो [अन्यथा लिङ्गिज्विशिष्टं वापदमत्रापि सिङ्सचोरेव विकल्पं कुर्यात् । पुनर्वाग्रहणे तु आर्धधातुकमात्रे विकल्पः सिद्ध इति भावः] ।

Padamanjari

अत्र स्वरतेरनुदातत्वादप्राप्ते, तैतरेषां तु प्राप्ते विभाषा । वेति वतमान इति । इट् सनि वा इत्यतः । लिङसिचोर्निवृत्यर्थमिति । अन्यथा वाग्रहतणसम्बद्धयोस्तयोरप्यनुवृत्तिः स्यात् । पूप्रेरण इत्यस्य निवृत्यर्थ इति । अन्यथा निरनुबन्धकत्वातस्यैव ग्रहककणं स्यात् । एवं तर्हि सूङिति वक्तव्यम् एवमपि लुग्विकरणालुग्विकरकणयोरलुग्विकरणस्यैव ग्रहकणम् इति सूयतेरेव ग्रहणं स्यात्, न सूतेः । तस्याः परिभाषाया अस्तित्वेऽयमेव विकरणनिर्द्देशो ज्ञापकः । धूविधूनन इत्यस्य निवृत्यर्थ इति । अन्यथा पूर्ववतस्यैव ग्रहणं स्यात् । धुवितेति । कुटादित्वान्डित्वम् । स्वरतेरिति । अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरिता, ऋद्धनोः स्ये इत्यस्यावकाशः - करिष्यति, स्वरतेः स्ये उभयप्रसङ्गे विप्रतिषेधः । किति तु प्रत्यय र्श्युक इति । ननु चायं विकल्पो यथा एकाज्लक्षणं प्रतिषेधं बाधते तृजादौ, तथा किल्लक्षणमपि प्रतिषेधं बाधेत न बाधेत, कथम् येन नाप्राप्ते तस्य बाधनं भवति । तस्मादपबादता तावदेकाज्लक्षणमेव प्रतिषेधं प्रत्ययस्य भवति, कित्युभयप्रसङ्गे पुरस्तात्प्रतिषेधकाण्डकरणात्प्रतिषेध एव भवति । लिङ्गाच्च, यदयम् स्वृयूर्णुभरज्ञपिसनाम् इति विकल्पं शास्ति, अन्यथा अनेनैव सत्यपि विकल्पस्य सिद्धत्वात्पुनस्तं न विदध्यात् । वृतौ तु विप्रतिषेधशब्देनापि पुरस्तात्प्रतिषेधकाण्डकरणमेव विवक्षितम्, समानफलत्वात् ॥

Nyaas

स्वृ शब्दोपतापयोः (धातुपाठः-932), षूङ् प्राणिगर्भविमोचने (धातुपाठः-1031) इत्यादादिकः, षूङ् प्राणिप्रसवे (धातुपाठः-1132) इति दैवादिकः। घूञ्? कम्पने (धातुपाठः-1255,1487,1385) इति स्वादिः, क्र्यादिः, चुरादिश्च। तत्र एकाचः (7.2.10) इत्यधिकारादाद्ययोग्र्रहणम्, नेतरस्य। ऊदितः - गाहू विलोडने (धातुपाठः-649), `गुपू रक्षणे (धातुपाठः-395) इत्यादयः। एतेषां स्वरतेश्चानुदात्तत्वात्? प्रतिषेधे प्राप्ते, इतरेषामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पार्थं वचनम्। विगाढा इति। पूर्ववङ्ढत्वादि विधेयम्। अथ वावचनं किमर्थम्? यावता इट्? सनि वा (7.2.41) इत्यतो वाग्रहणमनुवर्तते? इत्याह - वेत्यनुवर्तमाने इत्यादि। तद्धि वाग्रहणं लिङ्सिज्भ्यां सम्बद्धमिति तदनुवृत्तौ तयोरप्यनुवृत्तिः स्यात्। तस्मात्? पूर्ववाग्रहणसम्बद्धयोर्लिङ्सिचोर्निवृत्त्यर्थमन्यदिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तिः स्यात्। तस्मात्? पूर्ववग्रहणसम्बद्धयोरलिङ्सिचोर्निवृत्त्यर्थमन्दिदं वाग्रहणमिति। ननु च लिङ्सिचोरनुवृत्तौ स्वरतिग्रहण मनर्थकमापद्यते, पूर्वेणैव विकल्पस्य सिद्धत्वात्? नैतदस्ति; वचनप्रामाण्यात्? स्वरतिग्रहणं नित्यार्थं विज्ञायते। अथ वा - स्वरितग्रहणात्? वा इत्येतन्निवर्तते। अथ सूतिसूयत्योर्विकरण निर्देशः किमर्थः, न सू इत्येबोध्येत? इत्यत आह - सूतिसूयत्योः इत्यादि। सू इत्युच्यमाने निरनुबन्धकग्रहणे न सानुबन्धकस्य (व्या।प।53) इति सू प्रेरणे (धातुपाठः-1408) [षू प्रेरणे - धातुपाठः-] इत्यस्यैव ग्रहणं स्यात्। अतस्तन्निवृत्त्यर्थो विकरण निर्देशः करणीयः। यद्येतत्? प्रयोजनम्, सूङिति निर्देशः कर्तव्यः? नैवं शक्यम्; एवं हि सति निर्देशे क्रियमाणे लुग्वकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणम् (व्या।प।50) इति सूयतेरेव ग्रहणं स्यात्, न सूतेः। अतस्तन्निवृत्तये विकरणनिर्देशः। अस्याः परिभाषाया अस्तित्वेऽयमेव निर्देशो ज्ञापकः। अस्यां ह्रसत्यां सूङ् इति निर्देशं कुर्यात्। अथ धूञ् इति सानुबन्धकस्य ग्रहणं न क्रियेत, ततो निरनुबन्धकपरिभाषया (व्या।पा।53) षू विधूनने (धातुपाठः-1398) इत्यस्यैव ग्रहणं स्यात्, एतच्चानिष्टम्। अतो विधूननार्थस्य निवृत्त्यर्थः सानुबन्धकनिर्देशः। स्वरतेः इत्यादि। अस्य विकल्पस्यावकाशः - स्वरिता, स्वर्तेति; ऋद्धनीः स्ये` (7.2.70) इत्यस्यावकाशः - करिष्यति, हरिष्यतीति; स्वरतेरस्योभयप्रसङ्गे ऋद्धनोः स्ये (7.2.70) इत्येतद्भवति विप्रतिषेधेन - स्वरिष्यतीति। किति तु प्रत्यये इत्यादि। श्रयुकः किति (7.2.11) इत्यस्यावकाशः - सूतः, सूतदानि, अस्य विकल्पस्यावकाशः - स्वर्ता, स्वरितेति; सोता सविता; धोता, धवितेति; इहोमयप्रसङ्गे श्रयुकः किति (7.2.11) इति नित्यं [नित्यः - काशिका] प्रतिषेधो भवति पूर्वविप्रतिषेधेन - स्वृत्वा, सूत्वा, धूत्वा`। एतच्च पुरस्तात्? प्रतिषेधकाण्डविधानादेव सिद्धम्। उक्तं हि प्राक्? पुरस्तात्? प्रतिषेधविधानस्य प्रयोजनम् - इण्मात्रस्यानाधितदिधानविशेषस्य प्रतिषेधो यथा स्यादिति। तदेतत्? पुरस्तात्? प्रतिषेधविधानं पूर्वदिप्रतिषेधेन समानफलकत्वादिह पूर्वविप्रतिषेधशब्देनोक्तम्॥

Prakriyasarvasvam

स्वरत्यादिभ्य ऊदिद्भ्यश्च परस्य वलादेरिड् वा स्यात् । ‘स्वृ शब्दे’ । स्वरिता । स्वर्ता । सूतिसूयत्योः, सविता, सोता । प्रेरणार्थस्य सुवतेस्तु सवितेतीडेव । धूञो धविता धोता । ऊदिद्भ्यः गुपू । गोपिता गोप्ता । मृजू ।

Sutra Prayogas

  • सवित्री (कुमारसम्भवम्): स्वरतिसूतिसूयतिधूञूदितो वा इतीडागमः।

  • दुधूषतः (किरातार्जुनीयम्): स्वरतिसूतिसूयतिधूञूदितो वा इति विकल्पादिडभावः।

  • निगोपितुम् (किरातार्जुनीयम्): स्वरतिसूतिसूयतिधूनूदितो वा इति ऊदित्त्वादिङ्विकल्पः।

  • प्रसोतुं (भट्टिकाव्यम्): स्वर ति इत्यादिना विभाषितेट्।

  • स्वरिता (भट्टिकाव्यम्): स्वरति सूति-सूयति इत्यादिना विभाषेट् ।

  • सोता (भट्टिकाव्यम्): स्वरति दिसूत्रेण विभाषेट् ।

  • गाहिता (भट्टिकाव्यम्): स्वरति इत्यादिना ।

  • उस्रंसिषता (भट्टिकाव्यम्): स्वरति इत्यादिना इट्।