72049: सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्

Padacheda: सनि | S | 7 | 1 |

इवन्त-ऋध-भ्रस्ज-दम्भु-श्रि-स्वृ-यु-ऊर्णु-भर-ज्ञपि-सनाम् | S | 6 | 3 |

Sutrartha


Vasu English Summary

The Desiderative स् may optionally take the इट् augment after a root ending in इव् and after 1. ऋधु 2. भ्रस्ज 3. दम्भु 4. श्रि 5. स्वृ 6. यु 7. ऊर्णु 8. भृ 9. ज्ञप् and 10. सन्।

Vasu English Translation

The Desiderative स् may optionally take the इट् augment after a root ending in इव् and after 1. ऋधु 2. भ्रस्ज 3. दम्भु 4. श्रि 5. स्वृ 6. यु 7. ऊर्णु 8. भृ 9. ज्ञप् and 10. सन्। Thus दिदेविषति or दुद्यूषति, सिसेविषति, सुस्यूषति ॥ ऋध्, अर्द्दिधिषति, ईर्त्सति ॥ भ्रस्ज, बिभ्रज्जिषति, (6.4.47) बिभ्रक्षति, (8.2.36) and (8.2.41) बिभर्ज्जिषति, बिभर्क्षति ॥ दम्भु, दिदम्भिषति, धिप्सति, (7.4.56) धीप्सति, श्रि, उच्छिश्रयिषति, उच्छिश्रीषति ॥ स्वृ, सिस्वरिषति, सुस्वूर्षति ॥ यु, यियविषति, (7.4.80) युयूषति, ऊर्णु, प्रोर्णुनविषति, प्रोर्णुनुविषति, प्रोर्णुनूषति, ॥ The root भृञ् of the Bhuadi class is to be taken, as the form भर with शप् in the sutra indicates. बिभरिषति, बुभूर्षति,॥ ज्ञपि, जिज्ञपयिषति, ज्ञीप्सति ॥ सन्, सिसनिषति, सिषासति ॥ केचिदत्रभरज्ञपिसनितनिपतिदरिद्राणामिति पठन्ति, ॥ तितनिषति, तितंसति, तितांसति, पिपतिषति, पित्सति, दिदरिद्रिषति, दिदरिद्रासति ॥ सनीति किम्, देविता, भ्रष्टा ॥

Some add तन्, पत् and दरिद्रा also, as तितनिषति or तितंसति or तितांसति, (6.4.17) पिपतिषति or पित्सति (7.4.54), (8.2.29), (7.4.58) दिदरिद्रिषति or दिदरिद्रासति ॥ Why do we say ‘Desiderative’? Observe देविता, भ्रष्टा ॥ The form अर्दिधिषति is thus evolved. The Desiderative root is अर्धिस, the ऋ being gunated by (7.3.86) before सन् ॥ Now we reduplicate it, and the second syllable धिस् will be reduplicated by (6.1.2). and the रेफ is not duplicated by (6.1.3): so we get धिस् to reduplicate, and ध is changed to द ॥ The form ईर्त्सति is thus evolved. By (7.4.55), the ऋ is changed to long ई, which is followed by र् by (1.1.57). Thus we have ईर्ध्स् as root, and ध्स is reduplicated, and the reduplicate is elided (7.4.58). The forms धिप्सति and धीप्सति are similarly formed.

Kashika

इवन्तानां धातूनाम् ऋधु भ्रस्ज दम्भु श्रि स्वृ यु ऊर्णु भर ज्ञपि सन् इत्येतेषां च सनि वेडागमो भवति। इवन्तानाम् — दिदेविषति, दुद्यूषति। सिसेविषति, सुस्यूषति। ऋध् अर्दिधिषति। ईर्त्सति। भ्रस्ज — बिभ्रज्जिषति, बिभ्रक्षति, बिभर्ज्जिषति, बिभर्क्षति। दम्भु — दिदम्भिषति, धिप्सति, धीप्सति। श्रि — उच्छिश्रयिषति, उच्छिश्रीषति। स्वृ — सिस्वरिषति, सुस्वूर्षति। यु — यियविषति, युयूषति। ऊर्णु — प्रोर्णुनविषति, प्रोर्णुनुविषति, प्रोर्णुनूषति। भर इति भृञित्येतस्य भौवादिकस्य ग्रहणं शपा निर्देशात्। बिभरिषति, बुभूर्षति। ज्ञपि — जिज्ञपयिषति, ज्ञीप्सति। सन् — सिसनिषति। सिषासति। केचिदत्र भरज्ञपिसनितनिपतिदरिद्राणाम् इति पठन्ति। तितनिषति, तितंसति, तितांसति। पिपतिषति, पित्सति। दिदरिद्रिषति, दिदरिद्रासति। सनीति किम्? देविता। भ्रष्टा॥

Siddhanta Kaumudi

इवान्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । इडभावे हलन्ताच्च (SK2613) इति कित्वम् । छ्वोः - (SK2561) इति वस्य ऊठ् । यण् द्वित्वम् । दुद्यूषति । दिदेविषति । स्तौतिण्योरेव - (SK2627) इति वक्ष्यमाणनियमान्न षः । सुस्यूषति । सिसेविषति ॥

Balamanorama

सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् - सनीवन्तर्ध । सनि इवन्तेति च्छेतः । इवन्त, ऋध, भ्रस्ज, दन्भु, श्रि, स्वृ, यु, ऊर्णु, भर , ज्ञपि , सन्, — एषां द्वन्द्वः । इव् अन्ते येषां ते इवन्ताः ।स्वरती॑त्यतो वेति,इण्निष्ठाया॑मित्यत इडिति चानुवर्तते । तदाह — इवन्तेब्य इत्यादि । वन्तस्य दिव्धातोरुदाहरिष्यन्नाह — इडभावे इति । वस्येति । वकारस्येत्यर्थः । यणिति ।कारादिकारस्ये॑ति शेषः । द्वित्वमिति ।द्यु इत्यस्ये॑ति शेषः । दुद्यूषतीति ।अज्झने॑ति दीर्घः । इट्पक्षे आह — दिदेविषतीति । अझलादित्वान्न सनः कित्त्वम्, अतो नोठ्, किन्तु लघूपधगुण इति भावः । इवन्तस्योदाहरणान्तरं सिवुधातोः सुस्यूषतीति वक्ष्यते । तत्र द्वितीयस्य षत्वमाशङ्क्य आह — स्तौतिण्योरिति । सुस्युषतीति । सिवुधातोः सनि इडभावे दुद्यूषतीतिवद्रूपम् । इट्पक्षे आह — सिसेविषतीति । ऋध्धातोः सनि ईत्र्सतीति रूपं वक्ष्यन्नाह —

Padamanjari

भ्रस्जेरेकाचेति । श्रयतेरुगन्तानां च सनि ग्रहगुहोश्चेति प्रतिषेधः प्राप्तः इतरेषां तु नित्यमिट् प्राप्तः, तक्षेदमारभ्यते अर्दिधिषतीति । लघूपधलक्षणे गुणे अजादेर्द्वितीयस्य इति धिस् इत्यस्य द्विर्वजनम्, रेफस्य तु न न्द्राः इति प्रतिषेधः । ईर्त्सतीति । आप्ज्ञप्यृधामीत् तैति ऋकारस्य रपर ईकारः, धकारेण सशब्दस्य द्विर्वचनम्, अत्र लोपोऽभ्यासस्य । बिभ्रज्जिषतीति । भ्रस्चो रोपधयो रमन्यतरस्याम् । विभ्रक्षतीति । व्रश्चादिना षत्वम्, षढोः कः सि । धिप्सतीति । दम्भ इच्च इतीत्वमित्वं च, हलन्ताच्चेति कित्वे नलोपः, पूर्ववदभ्यासलोपः । यियविषतीति । ओः पुयण्ज्यपरे इत्यभ्यासस्येत्वम् । भृञ् इत्येतस्येति । दीर्घान्तोऽयम् । थथा च भरः इत्यब् भवति । सिसनिषतीति । स्तौतिण्योरेव इति नियमादत्र षत्वाभावः । सिषासतीति । षत्वभूते सनि नियमादत्र षत्वम् । केचिदत्रेति । ये त्वेतन्न पठन्ति ते उपसंख्यानमारभन्त । तितांसतीति । तनोतेविंभाषां इति पक्षे दीर्घत्वम् । पित्सतीति । सनि मीमाधु इत्यादिना अच इस्, स्कोः संयोगाद्योः इति सलोपः पूर्ववदभ्यासलोपः । दिदरिद्रा सतीत्येके दिदरिद्रषतीति चेति । इट् पक्षे दरिद्रातेराकारलोपः ॥

Nyaas

इवन्तानामिति। दिवु (धातुपाठः-1107), सिवु (धातुपाठः-1108) इत्येवमादीनाम्। ऋधु वृद्धौ (धातुपाठः-1245 भ्रस्ज पाके (धातुपाठः-1284), दम्भे [दम्भने - धातुपाठः-] (धातुपाठः-1270), श्रिञ्सेवायाम् (धातुपाठः-897), स्वृ शब्दोपतापयोः (धातुपाठः-932), यू मिश्रणे [मिश्रणेऽमिश्रणे च - धातुपाठः-] (धातुपाठः-1033), ऊर्णु आच्छादने (धातुपाठः-1039), श्रिञ्? भरणे (), मारणतीषणनिशामनेषु ज्ञपिण्र्यन्तः। षणु दाने (धातुपाठः-1464), वन षण सम्भक्तौ (धातुपाठः-463,444) - द्वयोरपि ग्रहणम्; विशेषानुपादानात्। अत्र भ्रस्जेरनुदात्तत्वात्, ल्वुयुर्णुभृञां चोगन्तत्वात्? सनि ग्रहगुहीश्च (7.2.12) इति प्रतिषेधे प्राप्ते, शेषाणामुदात्तत्वान्नित्यमिटि प्राप्ते विकल्पोऽयमारभ्यते। दुद्यूषति इति। दिवेः सन्, हलान्तच्च (1.2.10) इति सनः कित्त्वम्, च्छ्वो शूडनुनासिके (6.4.19) इत्यूठि यणादेशः, द्विर्वचनम् - द्यूष इत्येतस्य, हलादिः शेषः (7.4.60) इति चर्त्वम् - धकारस्य दकारः। विभ्रज्जिषति इति। झलां जश् झशि (8.4.53) इति सकारस्य दकारः, स्तोः श्चुना श्चुः (8.4.40) इति श्चुत्वम् - दकारस्य जकारः। बिभक्र्षति इति। भ्रस्जो रोपधाया रमन्यतरस्याम्` (6.4.47) इत्यकारात्? परो रमागमः रोपधयोः इति षष्ठीनिर्देशाद्रेफस्योपधायाश्च सकारस्य निवर्तकः, चोः कुः (8.2.30) इति कुत्वम्, इण्कोः (8.3.57) इति**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्। घिप्सति, घीप्सति इति। दम्भ इच्च (7.4.56) इतीत्त्वमीत्त्वञ्च, खरि च (8.4.54) इति चर्त्वम्, भकारस्य पकारः, पूर्ववदभ्यासलोपः, हलान्ताच्च (1.2.10) इति कित्त्वादनुनासिकलोपः। उच्छिश्रीषति इति। इको झल् (1.2.9) इति कित्त्वम्, अज्झनगमां सनि (6.4.16) इति दीर्घत्वम्, द्विर्वचनमभ्यासकार्यम्। आदेशप्रत्ययोः (8.3.59) इति षत्वम्, दकारस्य चुत्वम् - चकारः। शश्छोऽटि (8.4.63) इति शकारस्य च्छकारः। सिस्वरिषति इति। द्विर्वचनम्? स्वृ इत्येतस्य, उरत् (7.4.66) इत्यत्त्वम्, रपरत्वञ्च। सुस्वूर्षति इति। पर्ववद्दीर्घः, उदोष्ठपूर्वस्य (7.1.102) इत्युत्त्वम्, रपरत्वम्, `हलि च (8.2.70) इति दीर्घः, द्विर्वचनम् - स्वूर्ष इत्येतस्य, अभ्यासकार्यम्, आदेशपरत्ययोः (8.3.59) इति षत्वम्। यियिविषति इति। ओः पुयण्ज्यपरे (7.4.80) इत्यभ्यासस्येत्त्वम्। प्रोर्णुनूषति इति। अजादेद्वितीयस्य (6.1.2) इति वचनाद्द्वितीयस्यैकाचः नुस इत्येतस्य द्विरुक्तिः, रेफस्य पूर्वन्न द्विर्वचनम्। प्रोर्णुनविषति इति। इट, पक्षे विभाषोर्णोः (1.2.3) इति यदा ङित्त्वं तदोवङ्, अन्यदा तु गुणः। भुञित्येतस्य भौवादिकस्य ग्रहणम् इति। अथ ङुभृञित्यस्य जौहोत्यादिकस्य ग्रहणं कस्मान्न भवति? इत्याह - शपा निर्देशात् इत्यादि। यदि जौहोत्यादिकस्य भृञो धारणपोषणार्थस्य ग्रहणमभिमतं स्यात्, तदा भृ इत्येवं निर्देशं कुर्यात्, न तु भर इति शपानिर्देशम्, कृतश्च शपा निर्देशः, तस्माद्भौवादिकस्य ग्रहणमिति गम्यते। बुभूर्षति इति। पूर्वदुत्त्वदीर्घत्वे। ज्ञीप्सति इति। ज्ञा इत्येतस्माण्णिच्, अर्त्तिह्रौ इत्यादिना पुक्, पूर्वदीत्त्वाभ्यासलोपौ। सिषासति इति। जनसनखनां सञ्झलोः इत्यात्वम्। केचिदत्र इत्यादि। केचिदिति वचनात्? केचिन्न पठन्तीत्युक्तं भवति। ये तु न पठन्तितेऽत्र तनिपतिदरिद्राणामुपसंख्यानं कुर्वन्ति। तितंसति, तितांसति इति। तेनोतेर्विभावा (6.4.17) इति पक्षे दीर्घः। पित्सति इति। सनिमीमा (7.4.54) इत्यादिनेसादेशः, अभ्यासलोपः, स्कोः (8.2.29) इत्यादिना सलोपः। दिदरिद्रिषति, दिदरिद्रासति इति। दरिद्रातेरार्धधातुके (वा।789) इत्यादिना विकल्पेनाकारलोपः॥

Prakriyasarvasvam

इवन्तेभ्य ऋधादिभ्यश्च सन इड्वा स्यात् । दिदेविषति । अनिट्त्वे ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वात् ‘च्छ्वो शूड्—’ (६-४-१९) इत्यूठ् । यण् । द्यू । ततो द्वित्वम् । हलादिशेषः । ह्रस्वः । दुद्यूषति । ऋधेरिटि गुणः । अधि स । धिस् इत्यस्य द्वित्वम् । अर्दिधिषति ।

Vartika

तनिपतिदरिद्रातिभ्यः सनो वा इङ् वाच्यः ।

Sutra Prayogas

  • समुत्पिपतिषोः (किरातार्जुनीयम्): तनिपतिदरिद्रातिभ्यः सन् इड्वा वक्तव्यः इति विकल्पादिडागमः।

  • दिदेविषन् (भट्टिकाव्यम्): सनीवन्त इतीट्पक्षे रूपम् ।

  • अदुद्यूषयद् (भट्टिकाव्यम्): इवन्तस्य दिवेः सनीवन्त इत्यादिना यदा नेट् तदा द्विर्वचनम्।

  • बुभूर्षू (भट्टिकाव्यम्): सनीवन्तर्ध इति सूत्रे भरेति शपा निर्देशात् ।

  • दिदेविषुं (भट्टिकाव्यम्): सनीवन्तर्ध इत्यादिना विभाषिते।

  • दिदम्भिषुः (भट्टिकाव्यम्): सनीवन्तर्घ इतीट्।

  • बिभ्रक्षुर (भट्टिकाव्यम्): स नीवन्तर्ध इत्यादिना विभाषेट्।