72057: सेऽसिचि कृतचृतच्छृदतृदनृतः

Padacheda: से | S | 7 | 1 |

असिचि | S | 7 | 1 |

कृतचृतच्छृदतृदनृतः | S | 5 | 1 |

Sutrartha


Vasu English Summary

An आर्धधातुक affix beginning with a स् (except सिच् the characteristic of s-Aorist) may optionally take the इट् augment after the verbs 1. कृत् (तुदादिगणः (6th Conjugation) and रुधादिगणः (7th Conjugation) 2. चृत् - तुदादिगणः (6th Conjugation) 3. छृद् - रुधादिगणः (7th Conjugation) 4. तृद् – तुदादिगणः (6th Conjugation) and 5. नृत् – दिवादिगणः (4th Conjugation).

Vasu English Translation

An आर्धधातुक affix beginning with a स् (except सिच् the characteristic of s-Aorist) may optionally take the इट् augment after the verbs 1. कृत् (तुदादिगणः (6th Conjugation) and रुधादिगणः (7th Conjugation) 2. चृत् - तुदादिगणः (6th Conjugation) 3. छृद् - रुधादिगणः (7th Conjugation) 4. तृद् – तुदादिगणः (6th Conjugation) and 5. नृत् – दिवादिगणः (4th Conjugation). As कर्त्स्यति, अकर्त्स्यत्, चिकृत्सति, कर्त्तिष्यति, अकर्तिष्यत्, चिकर्त्तिषति । चृत, चर्त्स्यति अचर्त्स्यत्, चिचृत्सति, चर्त्तिष्यति, अचर्त्तिष्यत्, चिचर्त्तिषति । छृद, छर्त्स्यति । अच्छर्त्स्यत्, चिच्छत्सति । छर्द्दिष्यति, अच्छर्द्दिष्यत् । चिच्छर्द्दिषति । तृद्, तर्त्स्यति, अतर्त्स्यत् तितृत्सति, तर्द्दिष्यति । अतर्द्दिष्यत् । तितर्द्दिषति । नृत्, नर्त्स्यति, अनर्त्स्यत्, निनृत्सति, नर्त्तिष्यति । अनर्त्तिष्यत् । निनर्त्तिषति ।

Why do we say ‘beginning with a स्’? Observe कर्त्तिता ॥ Why असिचि ? Observe अकर्त्तीत् ॥

Kashika

सकारादावसिच्यार्धधातुके कृत चृत छृद तृद नृत् इत्येतेभ्यो धातुभ्यो वेडागमो भवति। कृत — कर्त्स्यति। अकर्त्स्यत्। चिकृत्सति। कर्तिष्यति। अकर्तिष्यत्। चिकर्तिषति। चृत — चर्त्स्यति। अचर्त्स्यत्। चिचृत्सति। चर्तिष्यति। अचर्तिष्यत्। चिचर्तिषति। छृद — छर्त्स्यति। अच्छर्त्स्यत्। चिच्छृत्सति। छर्दिष्यति। अच्छर्दिष्यत्। चिच्छर्दिषति। तृद — तर्त्स्यति। अतर्त्स्यत्। तितृत्सति। तर्दिष्यति। अतर्दिष्यत्। तितर्दिषति। नृत् — नर्त्स्यति। अनर्त्स्यत्। निनृत्सति। नर्तिष्यति। अनर्तिष्यत्। निनर्तिषति। स इति किम्? कर्तिता। असिचीति किम्? अकर्तीत्॥

Siddhanta Kaumudi

एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् ।{$ {!1117 त्रसी!} उद्वेगे$} । वा भ्राश - (SK2321) इति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः ।{$ {!1118 कुथ!} पूतीभावे$} । पूतीभावो दौर्गन्ध्यम् ।{$ {!1119 पुथ!} हिंसायाम्$} ।{$ {!1120 गुध!} परिवेष्टने$} ।{$ {!1121 क्षिप!} प्रेरणे$} । क्षिप्यति । क्षेप्ता ।{$ {!1122 पुष्प!} विकसने$} । पुष्प्यति । पुपुष्प ।{$ {!1123 तिम!} {!1124 ष्टिम!} {!1125 ष्टीम!} आर्द्रीभावे$} । तिम्यति । स्तिम्यति । स्तीम्यति ।{$ {!1126 व्रीड!} चोदने लज्जायां च$} । व्रीड्यति ।{$ {!1127 इष!} गतौ$} । इष्यति ।{$ {!1128 षह!} {!1129 षुह!} चक्यर्थे$} । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति ।{$ {!1130 जॄष्!} {!1131 झॄष्!} वयोहानौ$} । जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत । जीर्यात् । जॄस्तम्भु - (SK2291) इत्यङ्वा । ऋदृशोङि गुणः (SK2406) । अजरत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् ।{$ {!1132 षूङ्!} प्राणिप्रसवे$} । सूयते । सुषुवे । स्वरितिसूति - (SK2279) इति विकल्पं बाधित्वा श्र्युकः किति (SK2381) इति निषेधे प्राप्ते । क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता ।{$ {!1133 दूङ्!} परितापे$} । दूयते ।{$ {!1134 दीङ्!} क्षये$} । दीयते ॥

Laghu Siddhanta Kaumudi

एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा। नर्तिष्यति, नर्त्स्यति। नृत्यतु। अनृत्यत्। नृत्येत्। नृत्यात्। अनर्तीत्। अनर्तिष्यत्, अनर्त्स्यत्॥॥ {$ {! 4 त्रसी !} उद्वेगे $} (धातुपाठे (04.0011)) ॥ वा भ्राशेति श्यन्वा। त्रस्यति, त्रसति। तत्रास॥

Balamanorama

सेऽसिचि कृतचृतच्छृदतृदनृतः - सेऽसिचि । से- असिचीति छेदः । सप्तमी षष्ठर्थे । कृत चृत छृत तृद नृत् एषां समाहारद्वन्द्वात्पञ्चमी ।उदितो वे॑त्यतो वेति, आर्धधातुकस्येडिति चानुवर्तते । तदाह — एभ्य इत्यादिना । नित्यमिटि प्राप्ते विकल्पार्थमिदं वचनम् । अनर्तीदिति ।सेऽसिची॑त्युक्तेर्नित्यमिडिति भावः । त्रसी उद्वेगे ।वा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासविकल्पौ मत्वाह — त्रेसतुः तत्रसतुरिति । कुथ पूतीभावे इति । पवित्रीभवने इत्यर्थः, दुर्गन्धकरणे इति वा ।पूतिगन्धस्तु दुर्गन्धः॑ इत्यमरः । तिम ष्टिम ष्टीमेति । द्वितीयतृतीयौ षोपदेशौ । द्वितीय इदुपधः । तृतीयस्तु ईदुपधः । षह षुहेति । षोपदेशौ । चकार्थस्तृप्तिरिति । यद्पिचक तृप्तौ प्रतिघाते चे॑त्युक्तं तथापि तृप्तिरेवेह विवक्षिता, व्याख्यानात् । षुहेः ‘नपुंसके भावे क्तः’ इति क्तप्रत्यये सुहितशब्दः । सुहितस्तृप्तिरितिपूरणगुणे॑ति सूत्रे कैयटः । जृष् झृष् ।सेट्कौ । जीर्यतीति ।ऋत इद्धातो॑रिति इत्त्वेहलि चे॑ति दीर्घ इति भावः । अतुसादौऋच्छत्यृता॑मिति गुणे रपरत्वेवा जृभ्रमुत्रसा॑मित्येत्त्वाभ्यासलोपविकल्प इति भावः । जजरिथ ।॒वृतो वे॑ति मत्वाह — जरिता जरीतेति । षूङ् । प्रसवः — उत्पादनम् । षोपदेशोऽयम् । विकल्पमिति ।परमपी॑ति शेषः । निषेधे प्राप्ते इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः । दूङ् परितापे इति । पीडने, पीडितीभवने वेत्यर्थः । आद्ये सकर्मकः । द्वितीये अकर्मकः । दीङ् क्षये इति । क्षयो — ह्रस्वो, नाशो वा ।

Tattvabodhini

सेऽसिचि कृतचृतच्छृदतृदनृतः - सेऽसिचि । नातष्यति । नत्स्र्यतीति । निनर्तिषति । निनृत्सति । कर्तिष्यति । कत्स्र्यति.चिकर्तिषति । चिकृत्सति । इत्यादि ज्ञेयम् । अनर्तीदिति ।असिची॑त्युक्तत्वादिह नित्यमिट् । त्रेसतुरिति । वा जृभ्रमुत्रसा॑मीत्येत्त्वाभ्यासलोपौ । कुथ । पूतीभावः — पवित्रीभवनम् । कुथ्यति भूमिः । पवित्रीभवतीत्यर्थः । पुष्प विकसने ।कालात्साधुपुष्यत्पच्यमानेष्वि॑त्यत्र पुष्यतिः शत्रन्तः । पचाद्यचि पुष्पम् । संज्ञायां कन् ।पुष्पकम् । व्रीड ।गुरोश्च हलः॑ इत्यप्रत्यये टाप् । व्रीडा । घञि तु व्रीडः ।अत एव व्रीडमावहति मे स संप्रती॑ति कालिदासः ।व्रीडादिवाभ्यासगतैर्विलिल्ये॑ इति माघश्च । षह षुह ।परिनिविभ्यः॑ इत्यत्र सहेत्यकार उच्चारणार्थ इति षत्वमिह भवति । परिषह्रति ।तीषसहे॑तीड्विकल्पस्तु नाऽस्य भवति,सहे॑ति शबन्तनिर्देशात्, किं तुषह मर्षणे॑ इत्यस्यैव स इत्यात्रेयादयः । सहेति निर्देशस्योभयत्र तुल्यत्वेतीषसहे॑त्यत्र शपा निर्देशः,परिनिविभ्यः॑ इत्यत्र तु नेत्यद्र्धजरतीयमिदं हेयमेव । तत्त्वं तु प्रयोगमनुसृत्य महद्भिरेव निर्धार्यम् । नपुंसके भावे क्तः । सुहतंतृप्तिः । अत एवपूरणगुणे॑ति सूत्रे सुहितार्थास्तृप्त्यर्था इति व्याख्य#आतम् । जेरतुरिति ।ऋच्छत्यृता॑मिति गुणे कृतेन शसददे॑ति गुणशब्देन भावितस्य निषेधात्अत एकहल्मध्ये॑ इत्यपर्वृत्तौवा जृभ्रमुत्रसा॑मित्येत्वाभ्यासलोपविकल्पः । षूङ् । प्रसव उत्पत्तिः ।मृत्पिण्डो घटं सूयते॑ इत्यादिप्रयोगाऽभावात्प्राणीत्युक्तम् ।स्वादय ओदितः॑ इति वक्ष्यमाणत्वात्ओदितश्चे॑ति निष्ठातस्य नत्वम् । प्रसूनम् । विकल्पमिति ।परमपी॑ति शेषः । निषेधे प्राप्ते इति । पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादिति भावः ।

Padamanjari

से इत्यकार उच्चारणार्थः, तासिचीति प्रतिषेधात् । तेन स्येऽप्ययं विकल्पो भवति । कृती छेदने मुचादिः, कृती छेदने रुधादिः - द्वयोरपि ग्रहणम् । इदित्वस्य प्रयोजनमुक्तम् । चृती हिंसाग्रन्थनयोः ऊच्छ्ःअदिर्दीप्तिदेवनयोः, तौउतृदिर्हिंसानादरयोः, नृती गात्रविक्षेपे । ईदित्वं पूर्ववत् ॥

Nyaas

कृती छेदने (धातुपाठः-1435) इति तौदादिकः, कृती वेष्टने (धातुपाठः-1447) इति रौधादिकः - विशेषानुपादनाद्द्वयोरपि ग्रहणम्। चृती हिंसासंग्रन्थयोः [हिंसाश्रन्थनयोः - धातुपाठः-] (धातुपाठः-1324), उ छृदिर्? दीप्तिदेवनयोः` (धातुपाठः-1445), उ तृदिर्? हिंसादानयोः [हिंसाऽनादरयोः - धातुपाठः-] (धातुपाठः-1446)। उकारौ उदितो वा (7.2.56) इति विशेषणार्थो। इकाररेफावपि इरितो वा (3.1.57) इति विशेषणार्थादेव। नृती गात्रविक्षेपे (धातुपाठः-1116)। सर्वेवामेषानुदात्तत्वान्नित्यमिटि प्राप्ते सिचोऽन्यत्र सकारादौ विकल्पार्थं वचनम्। से इत्येतस्याकारोच्चारणमतन्त्रम्; अविवक्षितत्वात्। तेन स्येऽपरि विकल्पो भवति। अतन्त्रत्वं तु पुनरस्य असिचि इति सिचः प्रतिषेधाद्विज्ञेयम्। यदि ह्रतन्त्रमकारोच्चारणम्, एवं सति स्वसिचि इत्येवं कस्मान्नोक्तम्? सन्देहभयात्। एवं ह्रुच्यमाने स्ये सिचि च इत्येषोऽप्यर्थ आशङ्क्येत। सेऽसिचि इत्युच्यमाने तु सप्तमीद्वयोरुपादानात्? सिज्विर्जिते सकारादावित्यभिमतोऽर्थो विज्ञायते। नन्वत्रापि सन्देहः स्यात् - एवमुच्यमाने किमर्थं सिचि न वेति? यदि हि सिच्यपि स्यात्? तदुपादानमनर्थकं स्यात्, सीत्येवं ब्राऊयात्। कत्स्यैति इति लृट्। अकत्स्र्यत् इति। लुङ्। चिकृत्सति इति। सन्, हलन्ताच्च (1.2.10) इति कित्वाद्गुणाभावः॥

Prakriyasarvasvam

कृतादिभ्यः सादावसिचि प्रत्यये इड्वा स्यात् । चिकर्तिषति । इडभावे ‘हलन्ताच्च’ (१-२-१०) इति कित्त्वम् । चिकृत्सति । चिचर्तिषति, चिचृत्सति । चिच्छर्दिषति, चिच्छृत्सति । तितर्दिषति । तितृत्सति । निनर्तिषति, निनृत्सति । एवं स्येऽपि कर्तिष्यति, कर्त्स्यतीति ज्ञेयम् । सिचि तु नित्यमिडेव । अकर्तीत् । वृतादेः वृद्भ्यः स्यसनोः’ (१-३-९२) इति वा परस्मैपदम् । ‘न वृद्भ्य- श्चतुर्भ्यः’ (७-२-५९) ‘तासि च क्लृपः’ (७-२-६०) इति च परस्मैपदेषु सनोऽनिट्त्वं कृत्स्वपीष्यते । विवृत्सति । विवृत्सिता । वृधेश्चैवम् । शृतु शब्द- कुत्सायाम् । शिशृत्सति । शिशृत्सिता । सिस्यन्त्सति । सिस्यन्त्सिता । चिक्लृप्सति । चिक्ऌप्सिता । कृतीट् स्यादिति कौमुदी । विवर्तिषितेत्यादि । तङि त्विडेव । विवर्तिषते । विवर्धिषते । इत्यादि ।

Sutra Prayogas

  • अकर्त्स्यम (भट्टिकाव्यम्): से सिचि इत्यादिना विभाषेट् ।

  • अकर्तीद् (भट्टिकाव्यम्): सेसिचि इत्यादिना सिचो न्यत्रेविकल्पः।