72059: न वृद्भ्यश्चतुर्भ्यः¶
Padacheda: न | S | 0 | 0 |
वृद्भ्यः | S | 5 | 3 |
चतुर्भ्यः | S | 5 | 3 |
Sutrartha¶
Vasu English Summary¶
The परस्मैपद आर्धधातुक affixes beginning with स् do not get the इट् augment after वृत् and the three roots (वृध् , शृध् and स्यन्द्) that follow it.
Vasu English Translation¶
The परस्मैपद आर्धधातुक affixes beginning with स् do not get the इट् augment after वृत् and the three roots (वृध् , शृध् and स्यन्द्) that follow it. Thus वृत् — वर्त्स्यति, अवर्त्स्यत्, विवृत्सति । वृध् वर्त्स्यति, अवर्त्स्यत् । विवृत्स्सति । शृधू । शर्त्स्यति । अशर्त्स्यत् । शिशृत्सति । स्यन्दू । स्यन्त्सति । अस्यन्त्स्यत् ।
The वृतादि roots are four वृत्, वृध्, शृध् and स्यन्द (Bhuadi 795-798). In the examples, the Parasmaipada forms are shown, because these roots are optionally Parasmaipadi by (1.3.92) before स्य and सन् ॥
Objection :- The word चतुर्भ्यः may conveniently have been omitted from the sutra. A reference to the Dhatupatha will show that the वृतादि roots form a subdivision of द्युतादि roots, and stand at the end of Dyutadi class. So that the sutra न वृद्भ्यः would have been enough, and there would have been no uncertainty or vagueness about it, for the word वृतादि would mean ‘the roots वृत् &c. with which the Dyutadi class ends’. Thus we shall get the five roots 795 वृतुर्वर्तने 796 वृधु वृद्धौ, 797 शृधु शब्दकुत्सायाम्; 798 स्यन्दू प्रस्रवणे and कृपू सामर्थ्ये ॥ As regards the last root कृपू, we shall find from the next sutra, that the present sutra applies to this root also. Or we can change the order of the roots, putting कृपू first, and वृतु &c after it, so that वृतादि will mean four roots only. Whether vritadi be taken to mean the five or the four roots, the word चतुर्भ्यः is redundant.
Ans:- The word चतुर्भ्यः is used in order that the prohibition contained in this sutra may debar the ‘option’ which the root स्यन्दू would have taken, because of its indicatory long ऊ (7.2.44). For this ‘option’ is an antaranga operation, because it applies to all ardhadhatuka affixes; while the ‘prohibition’ of the present sutra is a bahiranga, because it applies to those affixes only which begin with स ॥ So that the ‘prohibition’ of this sutra would not have debarred the ‘option’ of (7.2.44): and in the Parasmaipada स्यन्दू would have had two forms; which, however, is not the case because of the word चतुर्भ्यः by which the ‘prohibition’ is extended to स्यन्दू also. Thus in the Parasmaipada, we have only one form, as, स्यन्त्स्यति; but in the Atmanepada we have two forms स्यन्दिष्यते or स्यन्त्स्यते ॥
The word ‘Parasmaipada’ is understood in this sutra, so that the prohibition does not apply to atmanepada affixes: as वर्त्तिषीष्ट, वर्तिष्यते, अवर्तिष्यत्, विवर्तिष्यते, स्यन्दिषीष्ट or स्यन्त्सीष्ट ॥ Moreover, with regard to Atmanepada also, the इट् is added to these roots when they stand in the same ‘pada’ with the affixes. But when the Atmanepada affixes are added not to the roots ‘vrit &c’, but to the roots which are derived from the nominal bases formed from ‘vrit &c’, then the ‘root’ is not in the same pada with the affix, and the prohibition of this sutra will apply. As विवृत्सित्रीयते ॥ Moreover, the rule applies, as we have said, to the affixes standing in the same ‘pada’ with the ‘roots’; therefore it will apply to Desiderative roots, as विवृत्सति, though शप् here intervenes between the ardhadhatuka affix सन् and the Parasmaipada तिप्; so also, an ekadesa though sthanivat and therefore an intervention, will not be considered so for the purposes of this rule, as विवृत्सिष्यति; so also in विवृत्सयति ॥ This prohibition, moreover, applies to कृत् affixes, and where there is luk-elision of Parasmaipada affixes. As विवृत्सिता; and विवृत्स त्वम् where the Imperative हि is luk elided, and being so elided, the force of Parasmaipada does not here remain by न लुमताङ्गस्य (1.1.63); hence the above Ishti.
Bhashya¶
न वृद्भ्यश्चतुर्भ्यः ॥ वृतादिप्रतिषेधे च ॥ किम् ? ॥ कृत्युपसङ्ख्यानम् ॥ (कृत्युपसङ्ख्यानं(3)) कर्तव्यम् । विवृत्सिता । विवृत्सितुम् । विवृत्सितव्यम् ॥ तत्तर्ह्युपसङ्ख्यानं कर्तव्यम् ? ॥ न कर्तव्यम् ? ॥ अविशेषेण वृतादिभ्य इट्प्रतिषेधमुक्त्वा आत्मनेपदपर इड्भवतीति वक्ष्यामि ॥ आत्मनेपदपर(4) इड्वचने तत्परपरसीयुडेकादेशेष्विड्वचनम्(5) ॥ आत्मनेपदपर इड्वचने तत्परपरसीयुडेकादेशेष्विड्वक्तव्यः । तत्परपरे तावत् - विवर्तिषिष्यते । सीयुटि - वर्तिषीष्ट । एकादेशे-वर्तिष्यन्ते वर्द्धिष्यन्ते(6) ॥ सिद्धं तु वृतादीनामात्मनेपदेन समानपरस्थस्येड्वचनात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ वृतादीनामात्मनेपदेन समानपदस्थस्ये (ड्वचनात् । वृतादीनामात्मनेपदेन(1) समानपदस्थस्ये - ) ड्भवतीति वक्तव्यम् ॥ चतुस्तासिकॢपिग्रहणार्थक्यं च ॥ चतुर्ग्रहणं चानर्थकम् । सर्वेभ्यो (2)हि वृतादिभ्यः प्रतिषेध इष्यते ॥ तासिग्रहणं चानर्थकम् ॥ किं कारणम् ? ॥ निवृत्तत्वात्सकारस्य ॥ निवृत्तं सकारादाविति । तास्ग्रहणे चेदानीमक्रियमाणे कॢपिग्रहणेनापि नार्थः । एषोऽपि हि वृतादिः पञ्ञ्चमः ॥ भवेत्कॢपिग्रहणं न कर्तव्यं, तास्ग्रहणन्तु कर्तव्यम् । यद्धि तत्सकारदाविति न तच्छक्यं निवर्तयितुं, तृच्यपि हि प्रसज्येत - वर्तिता वर्धिता ॥ तास्ग्रहणे चेदानीं क्रियमाणे कॢपिग्रहणमपि कर्तव्यमन्येभ्योऽपि वृतादिभ्यस्तासौ मा भूदिति । भवेत्तासिग्रहणं कर्तव्यं, कॢपिग्रहणं तु नैव कर्तव्यम् ॥ अन्येभ्योपि(4) वृतादिभ्यः तासौ कस्मान्न भवति ? ॥ पररमैपदेष्विति वर्तते, कॢपेरेव च तास्परस्मैपदपरो नान्येभ्यो वृतादिभ्यः (5) ॥ यद्येवं तास्ग्रहणेनापि नार्थः ॥ तृचि कस्मान्न भवति ? ॥ परस्मैपदेष्विति वर्तते ॥
Kashika¶
वृतादिभ्यश्चतुर्भ्य उत्तरस्य सकारादेरार्धधातुकस्य परस्मैपदेष्विडागमो न भवति। वृत् — वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वृधु — वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। शृधु — शर्त्स्यति। अशर्त्स्यत्। शिशृत्सति। स्यन्दू — स्यन्त्स्यति। अस्यन्त्स्यत्। सिस्यन्त्सति। चतुर्भ्य इति न वक्तव्यम्, वृद्ग्रहणं हि तत्र द्युतादिपरिसमाप्त्यर्थं क्रियते — कृपू सामर्थ्ये वृदिति, तदेव यदि वृतादिसमाप्त्यर्थमपि विज्ञायते न किंचिदनिष्टं प्राप्नोति तत् क्रियते स्यन्देरूदिल्लक्षणमन्तरङ्गमपि विकल्पं प्रतिषेधो यथा बाधेतेति। चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति। परस्मैपदेष्वित्येव — वर्तिष्यते। वर्तिषीष्ट। अवर्तिष्यत। विवर्तिषते। अत्राप्यात्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते। अन्यत्र सर्वत्र प्रतिषेधः। कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति — विवृत्सिता, विवृत्स त्वमिति॥
Siddhanta Kaumudi¶
एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत ।{$ {!759 वृधु!} वृद्धौ$} ।{$ {!760 शृधु!} शब्दकुत्सायाम्$} । इमौ वृतिवत् ।{$ {!761 स्यन्दू!} प्रस्रवणे$} । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः (SK2347) इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः (SK2348) इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-(SK2347) इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥
Laghu Siddhanta Kaumudi¶
वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत॥ {$ {! 19 दद !} दाने $} (धातुपाठे (01.0017))॥ ददते॥
Balamanorama¶
न वृद्भ्यश्चतुर्भ्यः - न वृद्भ्यः । सेऽसिचीति सूत्रात्से इति, आर्धधातुकस्येडिति चानुवर्तते । एभ्यः सकारादेरिति । तङानयोरभावे इति ।गमेरि॑डित्यतः परस्मैपदेष्वित्यनुवृत्तम् । तेन च तङानयोरभावो लक्ष्यते, व्याख्यानादिति भावः । तेनजिगमिषिते॑त्यत्र गमेःसन्नन्तात्तृचि इट् सिध्यति, वृतेः सन्नन्ताद्धेर्लुकि विवृत्सेत्यत्र इण्निषेधश्च सिध्यति । वत्स्र्यतीति । लृटि स्यः ।वृद्भ्यः स्यसनो॑रिति परस्मैपदविकल्पः । ‘न वृद्भ्यः’ इति इण्निषेधः । गुणः । रपरत्वम् । परस्मैपदाऽभावे त्वाह — वर्तिष्यते इति । ‘तङानयोरभावे’ इत्युक्तेः ‘न वृद्भ्यः’ ति इण्निषेधो न । अवर्तिष्टेति । परस्मैपदस्याङश्चाऽभावे रूपम् । अवत्स्र्यदिति । लृङि स्यः ।वृद्भ्यः स्यसनो॑इति इण्निषेधोऽपि नेति भावः । वृधु शृधु इति द्वौ ऋदुपधौ । तत्रापि ‘द्युद्भ्यो लुङि’ इति परस्मैपदपक्षे द्युतादिलक्षणोऽङ् । लृट्लृङो ‘वृद्भ्यः स्यसनोः’ इति परस्मैपदपक्षे ‘न वृद्भ्यः’ इति इण्निषेधश्च । तदाह — इमौ वृतुदिति । वत्स्र्यति — वर्धिष्यते । अवृधत् — अवर्धिष्ट । अवत्स्र्यत् — अवर्धिष्यत । शत्स्र्यति — शर्धिष्यते । अशृधत् — अशर्धिष्ट । अशत्स्र्यत्-अशर्धिष्यत । स्यन्दू धातुः ऊदित्, नकारोपधः कृतानुस्वारपरसवर्णनिर्देशः । सस्यन्दिषे सस्य्नत्से इति । इडभावे दस्य चर्त्वेन तः । सस्यन्दिद्ध्वे सस्यन्द्ध्वे इति । इडभावे धकारात् प्राग् दकारः । खर्परकत्वाऽभावान्न चर्त्वम् । स्यान्दितास्यन्तेति । इडभावे दस्य चर्त्वम् । ननु लृटि स्ये सतिवृद्भ्यः स्यसनो॑रिति परस्मैपदपक्षे परत्वादूदिल्लक्षणमिड्विकल्पं बाधित्वान वृद्भ्यश्चतुभ्र्यः॑ इति इण्निषेधे स्यन्त्स्यतीत्येव रूपमिष्यते, नतु स्यन्दिष्यत इति । तदयुक्तम्, अन्तरङ्गतया ऊदिल्लक्षणस्यैव इड्विकल्पस्य उचितत्वात्, सकारादिविशेषापेक्षतया तङानाभावनिमित्तापेक्षया च ‘न वृद्भ्यः’ इति निषेधस्य बहिरङ्गत्वादित्यशङ्क्य निराकरोति — वृदभ्य इति ।वृद्भ्यः स्यसनो॑रिति परस्मैपदेकृते अन्तरङ्गमपि विकल्पं बाधित्वा ‘न वृद्भ्य’ इति निषेध इत्यन्वयः । कुत इत्यत आह — चतुग्र्रहमसामर्थ्यादिति । यदि ह्यत्र ऊदिल्लक्षण इड्विकल्प एव स्यान्नतुन वृद्भ्यश्चतुभ्र्यः॑ इति निषेधस्तर्हि ‘चतुभ्र्यः’ इति व्यर्थं स्यात् । न च कृपूव्यावृत्तिस्तत्फलमिति शङ्क्यं, ‘तासि च कॢपः’ इति चकारेण सकाराद्यार्धधातुकेऽपि नित्यमिण्निषेधप्रवृत्तेर्वक्ष्यमाणत्वात् । तथा च चतुग्र्रहणं चतुर्णामपि सर्वत्र इण्निषेधार्थमिति भावः । भाष्ये तुनिषेधाश्च बलीयांसः॑ इति न्यायेन अन्तरङ्गस्यापि ऊदिल्लक्षणेड्विकल्पस्य ‘न वृद्भ्यः’ इति निषेधेन बाधसिद्धेश्चतुग्र्रहणं प्रत्याख्यातम् । तथा च लृटि परस्मपैदपक्षे तु ऊदित्त्वादिड्विकल्पं बाधित्वा ‘न वृद्भ्यः’ इति नित्यमिण्निषेधे स्यन्त्स्यतीत्येकमेव रूपमिति स्थितम् । आत्मनेपदपक्षे तु ऊदित्त्वादिड्विकल्पं मत्वाह — स्यन्दिष्यते स्यन्त्स्यते इति । इडभावे दस्य चर्त्वम् । आसीर्लिङि सीयुटि ऊदित्त्वादिड्विकल्पं मत्वा आह — स्यान्दिषीष्ट स्यन्त्सीष्टेति । ‘न वृद्भ्यः’ इति निषेधस्त न, तङानयोरभाव एव तत्प्रवृत्तेरिति भावः । लुङि विशेषमाह — द्युद्भ्यो लुङीत्यादिना । अङिति । ‘द्युतादिलक्षणे’ इति शेषः । नलोप इति ।अनिदितामित्यनेने॑ति शेषः । आत्मनेपदपक्षे तु अङभावादूदिल्लक्षणमिड्विकल्पं मत्वा आह — अस्यन्दिष्ट अस्यन्त्तेति । तत्र इडभावपक्षे अस्यन्द् स् त इति स्थिते ‘झलो झली’ ति सलोपे दस्य चर्त्वम् । न चाऽपित्त्वेन ङित्त्वात्अनिदिता॑मिति नलोपः शङ्क्यः, सिज्लोपस्याऽसिद्धत्वेनाऽनुपधात्वादिति भावः । अस्यन्त्सातामस्यन्त्सतेति । अस्यन्त्थाः, अस्यन्त्साथाम् । अस्यन्द्ध्वम् । अस्यनन्त्सि अस्यन्त्स्वहि अस्यन्त्स्महि । अस्यन्त्स्यत् — अस्यन्त्स्यत -अस्यन्दिष्यत ।
Tattvabodhini¶
न वृद्भ्यश्चतुर्भ्यः - न वृद्भ्यः । गणकार्यत्वादुभयोर्यङ्लुक्यप्रवृत्तिः । वर्वर्तिष्यति । वर्वर्तिषति । चतुग्र्रहणफलं तु मूले एव स्फुटीभविष्यति ।सेऽसिची॑ति सूत्रात्से इत्यनुवर्तते । तदाह — सकारादेरिति । इण् न स्यादिति । स्यन्देरूदित्त्वाद्विकल्पे प्राप्ते, इतरेषां प्राप्ते, इतरेषां नित्यमिटि प्राप्ते निषेधोऽयम् । तङानयोरिति । जिगमिषिता । जिगमिषितारावित्यादौ तृचि परतः सन इडागमसिद्धयेगमेरिट् परस्मैपदग्रहणमं तङानयोरभावं लक्षयतीत्यभ्युपगम्यते । तञ्चात्रापि तथैवानुवर्तते, अर्थाधिकाराश्रयणात् ।तेन परस्मैपदाऽभावेऽपि तृचि विवृत्सितारावित्यत्रअतो हे॑ रिति हेर्लुकित्वं विवृत्से॑त्यत्र च सन इण्निषेधः सिध्यतीति भावः । अत्र भाष्यवार्तिकयोर्वृतादीनामात्मनेपदेन समानपदस्थर्स्येड्वचनादन्यत्र निषेध इति स्थितम् । तेन विवर्तिषते विवर्द्धिषते इत्यादाविड्भवति । विवृत्सतेवाचरति विवृत्सित्रीयते इत्यत्र त्वात्मनेपदोत्पत्तेः पूर्वं तत्समानापदस्थत्वाऽभावादन्तरङ्गोऽयं निषेधः प्रवर्तते । स च पश्चात्तङि कृतेऽपि न निवर्तते, चतुग्र्रहणसामर्थ्यादिति । अत्र व्याचख्युः -पञ्चभ्य॑ इति वक्तुमुचितम् । [एवं च]तासि चे॑त्येव सूत्रं कर्तव्यम् । न च वृतादिष्वतिव्याप्तिः तङानयोः सत्त्वादिति । अस्यन्त्तेति । अत्रअनिदिता॑मिति न लोपो न भवति, सिज्लोपस्याऽसिद्धत्वेनानुपधात्वात् ।
Padamanjari¶
बहुवचननिर्द्देशाच्चतुर्ग्रहणाच्चाद्यर्थो गम्यते । वृत्तिर्वृधिः शृधिः स्यन्दिश्चत्वारोऽमी वृतादयः । शृधु शब्दकुत्सायाम् । अन्ये प्रसिद्धाः । उदाहरथणेषु वृद्भ्यः स्यसनोः इति तपरस्मैपदम् । चतुर्भ्य इति न वक्तव्यमिति । किं कारणम् इत्यत तथाअह - वृद्ग्रहतणं हीति । यदि द्यौतादिपरिसमाप्त्यर्थं तत्किमायातं वृतादिपरिसमाप्तेः इत्यत आह - तदेवतेति । तागुह्ययमाणविशेषत्वादिति भावः । अवन्तरङ्गमपीति । अन्तरङ्गत्वं विकल्पस्यार्धधातुकमात्रापेक्षत्वात् । अयं तु प्रतिषेधो बहिरङ्गः, सकारादिविशेषापेक्षत्वात्, बहिर्भूतपरस्मैपदापेक्षत्वाच्च । ननु चान्येष्वपि वृतादिषु आर्धधातुकलक्षणोऽपीडन्तरङ्ग एव, अथ तस्य वचनसामर्थ्यातप्रतिषेधः, तर्हि विकल्पस्यापि भविष्यति नैतदस्ति येन नाप्राप्ते तस्य बाधनं भवति, नाप्राप्तिश्चार्धधातुकस्येडित्यस्य, न तूदिल्लक्षणस्य । यदि परम्, परत्वादुदिल्लक्षणमपीट्ंअ प्रतिषेधो बाधेत ततदपि न अन्तरङ्गबहिरङ्गयोर्विप्रतिषेधानुपपतेः । कथं तर्हि सत्यपि चतुर्ग्रहणे तस्य प्रतिषेधः इत्यत आह - चतुर्ग्रहणे हीति । सति च तस्मिन् चतुर्थ्या प्रतिषेधेन भाव्यमिति प्रतीतिः, इतरथा संख्याश्बदाभावादेकस्य प्रतिषेधाभावेऽपि न कश्चिद्भावधः । परस्मैपदेष्वित्येवेति । यद्येवम्, यत्र वृतादिभ्यः परस्यार्धधातुकस्य परस्मैपदमनन्तरं तत्रैव स्यात् - वर्त्स्यतीत्यादौ, विवृत्सतीत्यादौ न स्यात्, शपा व्यवधानात् । तएकादेशेऽपि कृते स्थानिवद्भावाव्द्यवधानमेव, विवृत्सिष्यति, विवृत्सयतीत्यादौ प्रतियक्षमेव व्यवधानम्, कृति परस्मैपदलुकि च परस्मैपरगन्धोऽपि नास्तीति न स्यादेव तत्राह - अत्रापीति । इष्टिरेवेयम् । विवृत्सित्रीयत इत्यादौ चोक्त एव परिहारः ॥
Nyaas¶
वृद्भ्यः इति बहुवचननिर्देशादाद्यर्थो गम्यते। अत एवाह - वृदादिभ्यः इति। वृतु वर्तने (धातुपाठः-758), वृधु वृधौ (धातुपाठः-759), शृधु शब्दकुत्सायम् (दा।पा।760) स्यन्दू रुआवणे (धातुपाठः-761) - इत्येते वृदादयश्चत्वार उदात्तः। तत्राद्यानां त्रयाणां नित्यमिटि प्रप्ते, स्यन्देस्तूदित्त्वात्? पाक्षिके प्राप्ते प्रतिषेधोऽयमुच्यते। वत्स्र्यति इति। लृट्? शेषे च (3.3.13) इति लृट्, वद्भ्याः स्यसनोः (1.3.92) इति विकल्पेन परस्मैपदम्। विवृत्सति इति। हलन्ताच्च (1.2.10) इति सनः कित्वाद्गुणाभावः। वृधिशृध्योर्धकारस्य खरि च (8.4.54) इति चर्त्वम् - तकारः। चतुभ्र्य इति न वक्तव्यम् इति। अत्र कारणमाह - वृत्करणं हि इत्यादि। तदेव यदि वृदादिपरिसमाप्त्यर्थमपि विज्ञायत इति तन्त्रेणानेकशक्तितो वा शब्दानां न किञ्चिदनिष्टं प्राप्नोति। एवमपि विशायमान इष्टस्यैव सिद्धेरत्यभिप्रायः। एवं प्रत्याख्याते चतुग्र्रहणे, प्रयोजनमाह - तत्क्रियते इत्यादि। यदि चतुग्र्रहणं न क्रियेत, तदा स्पन्देरूदिल्लक्षणोऽन्तरङ्गत्वाद्विकल्पः स्यात्। अन्तरङ्गत्वं तु तसय वलाद्यर्धधातुकमात्राश्रयत्वात्। अस्य तु प्रतिषेधस्यार्थधातुकविशेषाश्रयत्वाद्वहरङ्गत्वम्। तस्मादन्तरङ्गमपि स्यन्देरूदिल्लक्षणं विकल्पमयं प्रतिषेधो यथा बाधेतेत्येवमर्थञ्च चतुग्र्रहणं क्रियते। कथं पुनः क्रियमाणेऽपि चतुग्र्रहणे, अयमर्थो लभ्यते? इत्यत आह - चतुग्र्रहणे इत्यादि। स स्यन्दिः परः प्रधानो यस्य तत्? तत्परम्, तद्भावस्तात्पर्यम्, तेन तात्पर्येण तत्प्रधानतयेत्यर्थः। सन्निधापितः इति। उपस्थापित इत्यर्थः। तस्य चैवं सन्निधापितस्य विकल्पोऽनेन प्रतिषेधेन कथं नाम बाध्येतत्येतदेव प्रयोजनम्। ततश्चतुग्र्रहणादन्तरङ्गमपि विक्लपं प्रतिषेधो बाधते। अत्रपि इत्यादि। कथं पुनः परस्मैपदेषु (7.2.58) इत्यनुवर्तमानेऽन्यत्र सर्वत्र प्रतिषेधो लभ्यते? एवं मन्यते - गमेरित्यनुवर्तते, तत्रैवमभिसम्बन्धः करिष्यते - गमेः सकारादौ येन प्रकारेण इट्? तेनैव प्रकारेण वृदादिब्यो नेडिति। तेन यथा गमेरात्मनेपदवर्जनमन्यत्र सर्वत्रैवेङ् भवति, तथा वृदादिभ्योऽपि प्रतिषेध इति॥
Prakriyasarvasvam¶
वृतादिभ्यश्चतुर्भ्यः परस्य सादेरार्धधातुकस्य आत्मनेपदाभाव इण् न स्यात् । वत्स्यति । अवत्स्यत् । तङ्पक्षे इट् । वर्तिष्यते । अवर्तिष्यत । कृपू सामर्थ्ये । कल्पत इति स्थिते
Sutra Prayogas¶
वर्त्स्यन्तावामयः (शिशुपालवधम्): न वृद्भ्यश्चतुर्भ्यः इतीडभावः ।
निवर्त्स्यन् (भट्टिकाव्यम्): न वृत्यः इति वलादिलक्षण इटि प्राप्ते इग्निषेधः।
पुनरावर्त्स्यतां (भट्टिकाव्यम्): नवृद्भ्यः इतीट्प्रतिषेधः ।
निर्वर्त्स्यत्यृतु-संघातः (भट्टिकाव्यम्): न वृद्भ्यश्चतुर्भ्यः इतीट्प्रतिषेधः।