72046: निरः कुषः¶
Padacheda: निरः | S | 5 | 1 |
कुषः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
A वलादि आर्धधातुक affix optionally takes इट् after कुष् when it is preceded by निर्।
Vasu English Translation¶
A वलादि आर्धधातुक affix optionally takes इट् after कुष् when it is preceded by निर्। As निष्कोष्टा or निष्कोषिता, निष्कोष्टुम् or निष्कोषितुम्, निष्कोष्टव्यम् or निष्कोषितव्यम् ॥ But only कोषिता, कोषितुं, कोषितव्यम् without निर् ॥ The exhibition of निर् instead of निस् indicates the existence of a separate and distinct preposition निर्, besides निस् ॥ It is the र् of this निर् which is changed to ल् by (8.2.19), in निलयनम्; for the र् of निस् being asiddha could not be changed to ल् ॥
Kashika¶
निर् इत्येवंपूर्वात् कुष उत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। निष्कोष्टा, निष्कोषिता। निष्कोष्टुम्, निष्कोषितुम्। निष्कोष्टव्यम्, निष्कोषितव्यम्। निर इति किम्? कोषिता। कोषितुम्। कोषितव्यम्। निस इति वक्तव्ये निर इति निर्देशेन रेफान्तमुपसर्गान्तरमस्तीति ज्ञाप्यते। तस्य हि निलयनमिति उपसर्गस्यायतौ (८.२.१९) इति लत्वं भवति। निसो हि रुत्वस्यासिद्धत्वाद् लत्वं न स्यात्॥
Siddhanta Kaumudi¶
निरः परात्कुषोवलादेरार्धधातुकस्य इड्वा स्यात् । निष्कोषिता । निष्कोष्टा । निरकोषीत् । निरकुक्षत् ।{$ {!1519 क्षुभ!} संचलने$} । क्षुभ्नादिषु च (SK792) क्षुभ्नाति । क्षुभ्नीतः । क्षोभिता । क्षुभान ।{$ {!1520 णभ!} {!1521 तुभ!} हिंसायाम्$} । नभ्नाति । तुभ्नाति । नभते तोभते इति शपि । नभ्यति तुभ्यतीति श्यनि ।{$ {!1522 क्लिशू!} विबाधने$} । शादिति श्चुत्वनिषेधः । क्लिश्नाति । क्लेशिता । क्लेष्टा । अक्लेशीत् । अक्लिक्षत् ।{$ {!1523 अश!} भोजने$} । अश्नाति । आश ।{$ {!1524 उध्रस!} उञ्छे$} । उकार इत् । ध्रस्नाति । उकारो धात्ववयव इत्येके । उध्रसांचकार ।{$ {!1525 इष!} आभीक्ष्ण्ये$} । पौनः पुन्यं भृशार्थो वा आभीक्ष्ण्यम् । इष्णाति । तीषसह - (SK2340) इत्यत्र सहिना साहचर्यादकारविकरणस्य तौदादिकस्यैव इषेर्ग्रहणं नतु इष्यतीष्णात्योरित्याहुः । एषिता । वस्तुतस्तु इष्णातेरपि इड्विकल्प उचितः । तथा च वार्तिकम् ॥<!इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध इति !> (वार्तिकम्) ॥{$ {!1526 विष!} विप्रयोगे$} । विष्णाति । वेष्टा ।{$ {!1527 प्रुष!} {!1528 प्लुष!} स्नेहनसेवनपूरणेषु$} । प्रुष्णाति । प्लुष्णाति ।{$ {!1529 पुष!} पुष्टौ$} । पोषिता ।{$ {!1530 मुष!} स्तेये$} । मोषिता ।{$ {!1531 खच!} भूतप्रादुर्भावे$} । भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । खच्ञाति । वान्तोऽयमित्येके ॥
Balamanorama¶
निरः कुषः - निरः कुषः ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते ।स्वरतिसूती॑त्यतो वेति च । तदाह — निरः परादिति । निरकुक्षदिति । इडभावपक्षे ‘शल’ इति क्स इति भावः । अश भोजने । आशेति । द्विहल्त्वाऽभावान्न नुडिति भावः । इष आभीक्ष्ण्ये । तासितीषसहे॑तीड्विकल्पमाशङ्क्याह — तीषसहेत्यत्रेति । सहेति शपा निर्देशबलेन भौवादिक एव सहधातुरत्र निर्दिष्टः । तत्साहचर्यात्तौदादिकस्यैव इषेग्र्रहणम्, अकारविकरणसामान्यादिति भावः । इषेस्तकारे श्यन्प्रत्ययादिति । श्यन् प्रत्ययो यस्मादिति बहुव्रीहिः । श्यन्विकरणपठितादिषेस्तकारे परेतीषसहे॑ति विधिर्नेत्यर्थः । इष्णातेस्तकारे इड्विकल्पः फलित इति भावः । प्रूष प्लुषेति । आद्यो दीर्घोपधः । पुष्ट पुष्टौ । पोषितेति । अनिट्सु श्यन्विकरणस्यैव पुषेग्र्रहणादयं सेडिति भावः ।पुषादिद्युतादी॑त्यत्र श्यन्विकरमपुषादेरेव ग्रहणादङ् न । खच भूताप्रादुर्भावे । अतिक्रान्तोत्पत्तिरिति । दशममासादौ उत्पत्तियोग्यस्य एकादशादिमासादिषूत्पत्तिरित्यर्थः । खच्ञातीति । नस्य श्चुत्वेन ञ इति भावः । वान्तोऽयमिति ।खव भूतप्रादुर्भावे॑ इत्येवं दन्त्योष्ठआन्तमेके पठन्तीत्यर्थः ।
Tattvabodhini¶
निरः कुषः - निरः कुषः ।स्वरती॑ति सूत्राद्वेत्यनुवर्तते ।आर्धधातुकस्ये॑डित्यधिक्रियत एव । तदाह — — वलादेरित्यादि । निरः किम् । कोषिता । कोषितुम् । निरकुक्षदिति । इडभावे क्सः । सहिना साहचर्यादिति । यद्यपि षह षुह चक्यर्थ इति दिवादिरपि सहिरस्ति तथापि सहेति शपा निर्देशाद्भौवादिकेनैव सहिना साहचर्यमित्याहुः । *इषेस्तकारे श्यन्प्रत्ययात्प्रतिषेध । श्यन्प्रत्ययादिति । बहुव्रीहिरयम् । श्यन्प्रत्ययवत इषेस्तकारे परत इड्विकल्पप्रतिषेध इति वार्तिकार्थः । तथा च दैवादिकाद्विकल्पो नेति फलितम् । एवं चतीषसहे॑त्यत्र इष्णातेरपि ग्रहणमिति बोध्यम् । पोषितेति । अनिट्केषु पुष्येति श्यना निर्देशादयं सेडिति भावः ।
Padamanjari¶
निष्कोष्टोति । इदुदुपधस्य चाप्रत्ययस्य इति षत्वम् । निस इति वक्तव्य इति । प्रदिषु हि निसिति पठ।ल्ते, तथा च निसस्तपतौ तिति निर्देश इति भावः । किमेतस्य ज्ञापने प्रयोजनम् इत्यत आह - तस्येति । ननु नच नित्य एव रुत्वे कृते लत्वं भविष्यति तत्राह - निसो हीति ॥
Prakriyasarvasvam¶
निष्कुषेरिड् वा स्यात् । निष्कोषिता निष्कोष्टा । सुरनुदुवामलिटीड् वेति कौमुदी । सुनोतेरनुजैश्वर्यार्थस्य सवतेश्च सविता सोता । रविता रोता । नविता नोता । ‘दु गतौ’, दविता दोता । चायृस्फायप्यायामिड् वेति सैवाह । ‘चायृ पूजानिशामनयोः’ । ‘स्फायी ओ प्यायी वृद्धौ’ । अनिट्त्वे तु ‘लोपो व्योर्वलि’ (६-१-६६) इति वलि परे यलोपः । चायिता चाता । स्फायिता स्फाता । प्यायिता प्याता ।
Sutra Prayogas¶
निष्कोषितव्यान्निष्कोष्टुं (भट्टिकाव्यम्): निरः कुषः इति विभाषेट् ।