72040: सिचि च परस्मैपदेषु¶
Padacheda: सिचि | S | 7 | 1 |
च | S | 0 | 0 |
परस्मैपदेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The इट् is not lengthened after वॄ , वृञ् and after roots ending in long ॠ in the s-Aorist of the परस्मैपद ।
Vasu English Translation¶
The इट् is not lengthened after वॄ , वृञ् and after roots ending in long ॠ in the s-Aorist of the परस्मैपद । As प्रावारिष्टाम्, प्रावारिषुः, अतारिष्टाम्, from तॄ प्लवनतरणयोः ॥ आस्तारिष्टाम्, आस्तारिषुः, from स्तृञ् आच्छादने; but प्रावरिष्ट, प्रावरीष्ट in the Atmanepada.
Kashika¶
परस्मैपदपरे सिचि वृृत उत्तरस्येटो दीर्घो न भवति। प्रावारिष्टाम्, प्रावारिषुः। अतारिष्टाम्, अतारिषुः। आस्तारिष्टाम्, आस्तारिषुः। परस्मैपदेष्विति किम्? प्रावरिष्ट, प्रावरीष्ट॥
Siddhanta Kaumudi¶
अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥ अथाष्टावनुदात्तेतः ॥{$ {!970 गुप!} गोपने$} ।{$ {!971 तिज!} निशाने$} ।{$ {!972 मान!} पूजायाम्$} ।{$ {!973 बध!} बन्धने$} ॥
Laghu Siddhanta Kaumudi¶
अत्र इटो न दीर्घः। अपारिष्टाम्। अपरीष्यत्, अपरिष्यत्॥ {$ {! 5 ओहाक् !} त्यागे $} (धातुपाठे (03.0009)) ॥ जहाति॥
Tattvabodhini¶
सिचि च परस्मैपदेषु - सिचि च ।न लिङी॑त्यतो नेत्यनुवर्तनादाह — इटो दीर्घो नेति ।
Padamanjari¶
अतारिष्टामिति । तृ प्लवनतरणयोः । अस्तारिष्टमिति । स्तञ् आच्छादने, ञिदुभयपदी ॥
Nyaas¶
प्रावारिष्टाम् इति। तस्थस्थमिपां तान्तन्तामः (3.4.101) इति तसस्ताम्, सामान्यविहित इट्? सिचि वृद्धिः। प्रावारिषुः इति। सिजभ्यस्तविदिभ्यश्च (3.4.109) इति झेर्जुस्। वृङ उदाहरणं नोपन्यस्तम; तस्य परस्मैपदासम्भवात्। प्रावरिष्ट, प्रावरीष्ट इति। लिङ्सिचोरात्मनेपदेषु (7.2.42) इतीट्॥
Prakriyasarvasvam¶
वृङ्वृञ्भ्यामृदन्ताच्च सिचि परस्मैपदेष्विटो दीर्घो न स्यात्१ । अपरिष्टाम् । कर्मणि अपारि । वा चिण्वदि । तदभावे,