72056: उदितो वा¶
Padacheda: उदितः | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix क्त्वा optionally gets the इट् augment after a root which has an indicatory short उ।
Vasu English Translation¶
The affix क्त्वा optionally gets the इट् augment after a root which has an indicatory short उ। As शमु - शमित्वा or शान्त्वा; तमु - तमित्वा or तान्त्वा; दमु -दमित्वा or दान्त्वा ॥
Kashika¶
उदितो धातोः क्त्वाप्रत्यये परतो वेडागमो भवति। शमु — शमित्वा, शान्त्वा। तमु — तमित्वा, तान्त्वा। दमु — दमित्वा, दान्त्वा॥
Siddhanta Kaumudi¶
उदितः परस्य क्त्वा इड्वा । शमित्वा । अनुनासिक्स्य क्वि (SK2666) इति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥
Laghu Siddhanta Kaumudi¶
उदितः परस्य क्त्व इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥
Tattvabodhini¶
उदितो वा - द्यूत्वेति । इडभावपक्षेच्छ्वो॑रित्यूठ् ।
Prakriyasarvasvam¶
उदितो धातोः क्त्व इड्विकल्पः । शमु, शमित्वा । ‘अनुनासिकस्य—’ (६-४-१५) इति दीर्घः । शान्त्वा । वृधु, वर्धित्वा वृद्ध्वा । खनु, खनित्वा खात्वा । अत्र ‘जनसन—’ (६-४-४२) इत्यात्वम् । क्रमु, क्रमित्वा । अनिट्त्वे तु ॥
Sutra Prayogas¶
दमित्वाऽप्यरि-संघातानश्रान्त्वा (भट्टिकाव्यम्): उड़ितो वा इति विकल्पेनेट् ।