72050: क्लिशः क्त्वानिष्ठयोः

Padacheda: क्लिशः | S | 5 | 1 |

क्त्वानिष्ठयोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after क्लिश्।

Vasu English Translation

The affixes क्त्वा , क्त and क्त्वातु optionally get the इट् augment after क्लिश्। As क्लिष्ठ्वा or क्लिशित्वा, क्लिष्टः or क्लिशितः, क्लिष्टवान् or क्लिषितवान् ॥ क्लिशू (IX. 50) having an indicatory ऊ would have optionally taken इट् before ktva by (7.2.44), but then the Nishtha affixes by (7.2.15) would never have taken the augment. क्लिश् (Divadi 52) उपतापे, being anudatta would always have taken इट् before ktva and Nishtha. Hence this rule ordains option with regard to ktva.

Kashika

क्लिशः क्त्वानिष्ठयोर्वेडागमो भवति। क्लिष्ट्वा, क्लिशित्वा। क्लिष्टः, क्लिशितः। क्लिष्टवान्, क्लिशितवान्। क्लिशू विबाधने इत्यस्य क्त्वायां विकल्पः सिद्ध एव, निष्ठायां तु यस्य विभाषा (७.२.१५) इति प्रतिषेधः प्राप्नोति। क्लिश उपतापे इत्येतस्य तु क्त्वायां निष्ठायां च नित्यमिडागमः प्राप्नोति। तदर्थं क्त्वाग्रहणं क्रियते॥

Siddhanta Kaumudi

इड्वा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिशू विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः । क्लिष्टः ॥

Balamanorama

क्लिशः क्त्वानिष्ठयोः - क्लिशः क्त्वानिष्ठयोः ।इड्वा स्या॑दिति शेषः ।स्वरति सूती॑त्यतो वेत्यनुवृत्तेरिति भावः । नित्यं प्राप्त इति ।आर्धधातुकस्येड्वलादे॑रित्यनेनेति भावः । विकल्पे सिद्ध इति । ऊदित्त्वादिति भावः । निष्ठायां निषेधे प्राप्ते इति ।यस्य विभाषे॑त्यनेनेति भावः ।

Padamanjari

क्लिशित्वेति । मृडमृद इत्यादिना कित्वम् । विकल्पः सिद्ध एवेति । उदत्वात्स्वरत्यादिसूत्रेण । किमर्थं तर्हि क्त्वाग्रहणम् इत्यत आह - क्लिश उपताप तैत्यस्येति ॥

Nyaas

क्लिष्ट्वा इति। व्रश्चादिसूत्रेण (8.2.36) षत्वम्। क्लिशित्वा इति। रलो व्युपधाद्धलादेः संश्च (1.2.26) इति कित्त्वम्। क्त्वाप्रत्यये विकल्पः सिद्ध एव इति। ऊदित्वात्? स्वरति (7.2.44) इत्यादिना यदि कत्वाप्रत्यये विकल्पः सिद्ध एव, तत्किमर्थं क्त्वाग्रहणम्? इत्याह - क्लिश उपताप इत्यस्य तु इत्यादि। नित्यमिडागमः प्राप्नोति इति। उपतापार्थस्य क्लिशेरुदात्तत्वात्। तदर्थम् इति। उपतापार्थो यः क्लिशिस्तदर्थम्। सोऽर्थः प्रयोजनं यस्य तत्? तथोक्तम्। अथ वा - उपतापर्थस्य क्लिशेर्यो नित्यमिडागमः प्राप्नोति तदर्थम्, तन्निवृत्यर्थ मित्यर्थः; अर्थशब्दस्य निवृत्तिवचनत्वात्॥

Prakriyasarvasvam

इड् वा स्यात् । क्लिष्टः क्लिशितः ॥

Sutra Prayogas

  • क्लिशित्वा (भट्टिकाव्यम्): क्लिशः क्त्वा-निष्ठयोः इति विकल्पेनेट्।

  • क्लिष्ट्वा (भट्टिकाव्यम्): क्लिशः क्त्वा निष्टयोः इति विभाषेट् ।